रामायणम्/अयोध्याकाण्डम्/सर्गः ७१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ७० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ७२ →

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


स प्रान् मुखो राज गृहात् अभिनिर्याय वीर्यवान् ।
ततः सुदामाम् द्युतिमान् सम्तीर्वावेक्ष्य ताम् नदीम् ॥२-७१-१॥
ह्लादिनीम् दूर पाराम् च प्रत्यक् स्रोतः तरन्गिणीम् ।
शतद्रूम् अतरत् श्रीमान् नदीम् इक्ष्वाकु नन्दनः ॥२-७१-२॥
एल धाने नदीम् तीर्त्वा प्राप्य च अपर पर्पटान् ।
शिलाम् आकुर्वतीम् तीर्त्वाआग्नेयम् शल्य कर्तनम् ॥२-७१-३॥
सत्य सम्धः शुचिः श्रीमान् प्रेक्षमाणः शिला वहाम् ।
अत्ययात् स महा शैलान् वनम् चैत्र रथम् प्रति ॥२-७१-४॥
सरस्वतीम् च गङ्गाम् च उग्मेन प्रतिपद्य च ।
उत्तरम् वीरमत्स्यानाम् भारुण्डम् प्राविशद्वनम् ॥२-७१-५॥
वेगिनीम् च कुलिन्ग आख्याम् ह्रादिनीम् पर्वत आवृताम् ।
यमुनाम् प्राप्य सम्तीर्णो बलम् आश्वासयत् तदा ॥२-७१-६॥
शीतीकृत्य तु गात्राणि क्लान्तान् आश्वास्य वाजिनः ।
तत्र स्नात्वा च पीत्वा च प्रायात् आदाय च उदकम् ॥२-७१-७॥
राज पुत्रः महा अरण्यम् अनभीक्ष्ण उपसेवितम् ।
भद्रः भद्रेण यानेन मारुतः खम् इव अत्ययात् ॥२-७१-८॥
भागीरथीम् दुष्प्रतरामम्शुधाने महानदीम् ।
उपायाद्राघवस्तूर्णम् प्राग्वटे विश्रुते पुरे ॥२-७१-९॥
स गङ्गाम् प्राग्वट्E तीर्त्वे समायात्कुटिकोष्ठिकाम् ।
सबलस्ताम् स तीर्त्वाथ समायाद्धर्मवर्धनम् ॥२-७१-१०॥
तोरणम् दक्षिण अर्धेन जम्बू प्रस्थम् उपागमत् ।
वरूथम् च ययौ रम्यम् ग्रामम् दशरथ आत्मजः ॥२-७१-११॥
तत्र रम्ये वने वासम् कृत्वा असौ प्रान् मुखो ययौ ।
उद्यानम् उज्जिहानायाः प्रियका यत्र पादपाः ॥२-७१-१२॥
सालाम्स् तु प्रियकान् प्राप्य शीघ्रान् आस्थाय वाजिनः ।
अनुज्ञाप्य अथ भरतः वाहिनीम् त्वरितः ययौ ॥२-७१-१३॥
वासम् कृत्वा सर्व तीर्थे तीर्त्वा च उत्तानकाम् नदीम् ।
अन्या नदीः च विविधाः पार्वतीयैअः तुरम् गमैः ॥२-७१-१४॥
हस्ति पृष्ठकम् आसाद्य कुटिकाम् अत्यवर्तत ।
ततार च नर व्याघ्रः लौहित्ये स कपीवतीम् ॥२-७१-१५॥
एक साले स्थाणुमतीम् विनते गोमतीम् नदीम् ।
कलिन्ग नगरे च अपि प्राप्य साल वनम् तदा ॥२-७१-१६॥
भरतः क्षिप्रम् आगच्चत् सुपरिश्रान्त वाहनः ।
वनम् च समतीत्य आशु शर्वर्याम् अरुण उदये ॥२-७१-१७॥
अयोध्याम् मनुना राज्ञा निर्मिताम् स ददर्श ह ।
ताम् पुरीम् पुरुष व्याघ्रः सप्त रात्र उषिटः पथि ॥२-७१-१८॥
अयोध्याम् अग्रतः दृष्ट्वा रथे सारथिम् अब्रवीत् ।
एषा न अतिप्रतीता मे पुण्य उद्याना यशस्विनी ॥२-७१-१९॥
अयोध्या दृश्यते दूरात् सारथे पाण्डु मृत्तिका ।
यज्वभिर् गुण सम्पन्नैः ब्राह्मणैः वेद पारगैः ॥२-७१-२०॥
भूयिष्ठम् ऋषैः आकीर्णा राज ऋषि वर पालिता ।
अयोध्यायाम् पुरा शब्दः श्रूयते तुमुलो महान् ॥२-७१-२१॥
समन्तान् नर नारीणाम् तम् अद्य न शृणोम्य् अहम् ।
उद्यानानि हि साय अह्ने क्रीडित्वा उपरतैः नरैः ॥२-७१-२२॥
समन्तात् विप्रधावद्भिः प्रकाशन्ते मम अन्यदा ।
तानि अद्य अनुरुदन्ति इव परित्यक्तानि कामिभिः ॥२-७१-२३॥
अरण्य भूता इव पुरी सारथे प्रतिभाति मे ।
न हि अत्र यानैः दृश्यन्ते न गजैः न च वाजिभिः ॥२-७१-२४॥
निर्यान्तः वा अभियान्तः वा नर मुख्या यथा पुरम् ।
उद्यानानि पुरा भान्ति मत्तप्रमुदितानि च ॥२-७१-२५॥
जनानाम् रतिसम्योगेष्वत्यन्तगुणवन्ति च ।
तान्येतान्यद्य वश्यामि निरानन्दानि सर्वशः ॥२-७१-२६॥
स्रस्तपर्णैरनुपथम् विक्रोशद्भिरिव द्रुमैः ।
नाद्यापि श्रूयते शब्दो मत्तानाम् मृगपक्षिणाम् ॥२-७१-२७॥
सम्रक्ताम् मधुराम् वाणीम् कलम् व्याहरताम् बहु ।
चन्दनागुरुसम्पृक्तो धूपसम्मूर्चितोऽतुलः ॥२-७१-२८॥
प्रवाति पवनः श्रीमान् किम् नु नाद्य यथापुरम् ।
भेरीमृदङ्गवीणानाम् कोणसम्घट्टितः पुनः ॥२-७१-२९॥
किमद्य शब्दो विरतः सदाऽदीनगतिः पुरा ।
अनिष्टानि च पापानि पश्यामि विविधानि च ॥२-७१-३०॥
निमित्तानि अमनोज्ञानि तेन सीदति ते मनः ।
सर्वथा कुशलम् सूत दुर्लभम् मम बन्धुषु ॥२-७१-३१॥
तथा ह्यसति सम्मोहे हृदयम् सीदतीव मे ।
विषण्णः शान्तहृदयस्त्रस्तः सुलुलितेन्द्रियः ॥२-७१-३२॥
भरतः प्रविवेशाशु पुरीमिक्ष्वाकुपालिताम् ।
द्वारेण वैजयन्तेन प्राविशत् श्रान्त वाहनः ॥२-७१-३३॥
द्वाह्स्थैः उत्थाय विजयम् पृष्टः तैः सहितः ययौ ।
स तु अनेक अग्र हृदयो द्वाह्स्थम् प्रत्यर्च्य तम् जनम् ॥२-७१-३४॥
सूतम् अश्व पतेः क्लान्तम् अब्रवीत् तत्र राघवः ।
किमहम् त्वरयानीतः कारणेन विनानघ ॥२-७१-३५॥
अशुभाशङ्कि हृदयम् शीलम् च पततीव मे ।
श्रुता नो यादृशाः पूर्वम् नृपतीनाम् विनाशने ॥२-७१-३६॥
आकाराः तान् अहम् सर्वान् इह पश्यामि सारथे ।
सम्मार्जनविहीनानि परुषाण्युपलक्षये ॥२-७१-३७॥
असम्यतकवाटानि श्रीविहीनानि सर्वशः ।
बलिकर्मविहीनानि धूपसम्मेदनेन च ॥२-७१-३८॥
अनाशितकुटुम्बानि प्रभाहीनजनानि च ।
अलक्स्मीकानि पश्यामि कुटुम्बिभवनान्यहम् ॥२-७१-३९॥
अपेतमाल्यशोभानि असम्मृष्टाजिराणि च ।
देवागाराणि शून्यानि न चाभान्ति यथापुरम् ॥२-७१-४०॥
देवतार्चाः प्रविद्धाश्च यज्ञ्गोष्ठ्यस्तथाविधाः ।
माल्यापणेषु राजन्ते नाद्य पण्यानि वा तथा ॥२-७१-४१॥
दृश्यन्ते वणिजोऽप्यद्य न यथापूर्वमत्रवै ।
ध्यानसम्विग्नहृदयाः नष्टव्यापारयन्त्रिताः ॥२-७१-४२॥
देवायतनचैत्येषुदीनाः पक्षिगणास्तथा ॥२-७१-४३॥
मलिनम् च अश्रु पूर्ण अक्षम् दीनम् ध्यान परम् कृशम् ।
सस्त्री पुम्सम् च पश्यामि जनम् उत्कण्ठितम् पुरे ॥२-७१-४४॥
इति एवम् उक्त्वा भरतः सूतम् तम् दीन मानसः ।
तानि अनिष्टानि अयोध्यायाम् प्रेक्ष्य राज गृहम् ययौ ॥२-७१-४५॥
ताम् शून्य शृन्ग अटक वेश्म रथ्याम् ।
रजो अरुण द्वार कपाट यन्त्राम् ।
दृष्ट्वा पुरीम् इन्द्र पुरी प्रकाशाम् ।
दुह्खेन सम्पूर्णतरः बभूव ॥२-७१-४६॥
बहूनि पश्यन् मनसो अप्रियाणि ।
यानि अन्न्यदा न अस्य पुरे बभूवुः ।
अवाक् शिरा दीन मना नहृष्टः ।
पितुर् महात्मा प्रविवेश वेश्म ॥२-७१-४७॥
इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकसप्ततितमः सर्गः ॥२-७१॥


स प्राङ्मुखो राजगृहादभिनिर्याय वीर्यवान्
ह्रादिनीं दूरपारां च प्रत्यक्स्रोतस्तरङ्गिणीम् १
शतद्रूमतरच्छ्रीमान्नदीमिक्ष्वाकुनन्दनः २
एलधाने नदीं तीर्त्वा प्राप्य चापरपर्पटान्
शिलामाकुर्वतीं तीर्त्वा आग्नेयं शल्यकर्तनम् ३
सत्यसंधः शुचिः श्रीमान् प्रेक्षमाणः शिलावहाम्
अत्ययात्स महाशैलान् वनं चैत्ररथं प्रति ४



वेगिनीं च कुलिङ्गाख्यां ह्रादिनीं पर्वतावृताम्
यमुनां प्राप्य संतीर्णो बलमाश्वासयत्तदा ६
शीतीकृत्य तु गात्राणि क्लान्तानाश्वास्य वाजिनः
तत्र स्नात्वा च पीत्वा च प्रायादादाय चोदकम् ७
राजपुत्रो महारण्यमनभीक्ष्णोपसेवितम्
भद्रो भद्रेण यानेन मारुतः खमिवात्ययात् ८




तोरणं दक्षिणार्धेन जम्बूप्रस्थमुपागमत्
वरूथं च ययौ रम्यं ग्रामं दशरथात्मजः ११
तत्र रम्ये वने वासं कृत्वासौ प्राङ्मुखो ययौ
उद्यानमुज्जिहानायाः प्रियका यत्र पादपाः १२
सालांस्तु प्रियकान् प्राप्य शीघ्रानास्थाय वाजिनः
अनुज्ञाप्याथ भरतो वाहिनीं त्वरितो ययौ १३
वासं कृत्वा सर्वतीर्थे तीर्त्वा चोत्तानकां नदीम्
अन्या नदीश्च विविधाः पार्वतीयैस्तुरंगमैः १४
हस्तिपृष्ठकमासाद्य कुटिकामत्यवर्तत
ततार च नरव्याघ्रो लौहित्ये स कपीवतीम् १५
एकसाले स्थाणुमतीं विनते गोमतीं नदीम्
कलिङ्ग नगरे चापि प्राप्य सालवनं तदा १६
भरतः क्षिप्रमागच्छत्सुपरिश्रान्तवाहनः
वनं च समतीत्याशु शर्वर्यामरुणोदये १७
अयोध्यां मनुना राज्ञा निर्मितां स ददर्श ह
तां पुरीं पुरुषव्याघ्रः सप्तरात्रोषिटः पथि १८
अयोध्यामग्रतो दृष्ट्वा रथे सारथिमब्रवीत्
एषा नातिप्रतीता मे पुण्योद्याना यशस्विनी १९
अयोध्या दृश्यते दूरात्सारथे पाण्डुमृत्तिका
यज्वभिर्गुणसंपन्नैर्ब्राह्मणैर्वेदपारगैः २०
भूयिष्ठमृष्हैराकीर्णा राजर्षिवरपालिता
अयोध्यायां पुराशब्दः श्रूयते तुमुलो महान् २१
समन्तान्नरनारीणां तमद्य न शृणोम्यहम्
उद्यानानि हि सायाह्ने क्रीडित्वोपरतैर्नरैः २२
समन्ताद्विप्रधावद्भिः प्रकाशन्ते ममान्यदा
तान्यद्यानुरुदन्तीव परित्यक्तानि कामिभिः २३
अरण्यभूतेव पुरी सारथे प्रतिभाति मे
न ह्यत्र यानैर्दृश्यन्ते न गजैर्न च वाजिभिः २४








निर्यान्तो वाभियान्तो वा नरमुख्या यथापुरम्
अनिष्टानि च पापानि पश्यामि विविधानि च ३०
निमित्तान्यमनोज्ञानि तेन सीदति ते मनः






द्वारेण वैजयन्तेन प्राविशच्छ्रान्तवाहनः ३३
द्वाःस्थैरुत्थाय विजयं पृष्टस्तैः सहितो ययौ
स त्वनेकाग्रहृदयो द्वाःस्थं प्रत्यर्च्य तं जनम् ३४


सूतमश्वपतेः क्लान्तमब्रवीत्तत्र राघवः
श्रुता नो यादृशाः पूर्वं नृपतीनां विनाशने ३६
आकारास्तानहं सर्वानिह पश्यामि सारथे












मलिनं चाश्रुपूर्णाक्षं दीनं ध्यानपरं कृशम्
सस्त्री पुंसं च पश्यामि जनमुत्कण्ठितं पुरे ४४
इत्येवमुक्त्वा भरतः सूतं तं दीनमानसः
तान्यनिष्टान्ययोध्यायां प्रेक्ष्य राजगृहं ययौ ४५
तां शून्यशृङ्गाटकवेश्मरथ्यां॑ रजोऽरुणद्वारकपाटयन्त्राम्
दृष्ट्वा पुरीमिन्द्रपुरी प्रकाशां॑ दुःखेन संपूर्णतरो बभूव ४६
बहूनि पश्यन्मनसोऽप्रियाणि॑ यान्यन्न्यदा नास्य पुरे बभूवुः
अवाक्शिरा दीनमना नहृष्टः॑ पितुर्महात्मा प्रविवेश वेश्म ४७


रामायणम्/अयोध्याकाण्डम्