रामायणम्/अयोध्याकाण्डम्/सर्गः २९
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः २८ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३० → |
रामायणम्/अयोध्याकाण्डम् |
---|
एतत् तु वचनम् श्रुत्वा सीता रामस्य दुह्खिता । प्रसक्त अश्रु मुखी मन्दम् इदम् वचनम् अब्रवीत् ॥२-२९-१॥ ये त्वया कीर्तिता दोषा वने वस्तव्यताम् प्रति । गुणान् इति एव तान् विद्धि तव स्नेह पुरः कृतान् ॥२-२९-२॥ मृगाः सिम्हा गजाश्चैव शार्दूलाः शरभास्तथा । पक्षिणः सृमराश्चैव ये चान्ये वनचारिणः ॥२-२९-३॥ अदृष्टपूर्वरूपत्वात्सर्वे ते तव राघव । रूपम् दृष्ट्वापसर्पेयुर्भये सर्वे हि बिभ्यति ॥२-२९-४॥ त्वया च सह गन्तव्यम् मया गुरु जन आज्ञया । त्वद् वियोगेन मे राम त्यक्तव्यम् इह जीवितम् ॥२-२९-५॥ न च माम् त्वत् समीपस्थम् अपि शक्नोति राघव । सुराणाम् ईश्वरः शक्रः प्रधर्षयितुम् ओजसा ॥२-२९-६॥ पति हीना तु या नारी न सा शक्ष्यति जीवितुम् । कामम् एवम् विधम् राम त्वया मम विदर्शितम् ॥२-२९-७॥ अथ च अपि महा प्राज्ञ ब्राह्मणानाम् मया श्रुतम् । पुरा पितृ गृहे सत्यम् वस्तव्यम् किल मे वने ॥२-२९-८॥ लक्षणिभ्यो द्विजातिभ्यः श्रुत्वा अहम् वचनम् गृहे । वन वास कृत उत्साहा नित्यम् एव महा बल ॥२-२९-९॥ आदेशो वन वासस्य प्राप्तव्यः स मया किल । सा त्वया सह तत्र अहम् यास्यामि प्रिय न अन्यथा ॥२-२९-१०॥ कृत आदेशा भविष्यामि गमिष्यामि सह त्वया । कालः च अयम् समुत्पन्नः सत्य वाग् भवतु द्विजः ॥२-२९-११॥ वन वासे हि जानामि दुह्खानि बहुधा किल । प्राप्यन्ते नियतम् वीर पुरुषैः अकृत आत्मभिः ॥२-२९-१२॥ कन्यया च पितुर् गेहे वन वासः श्रुतः मयाभिक्षिण्याः साधु वृत्ताया मम मातुर् इह अग्रतः ॥२-२९-१३॥ प्रसादितः च वै पूर्वम् त्वम् वै बहु विधम् प्रभो । गमनम् वन वासस्य कान्क्षितम् हि सह त्वया ॥२-२९-१४॥ कृत क्षणा अहम् भद्रम् ते गमनम् प्रति राघव । वन वासस्य शूरस्य चर्या हि मम रोचते ॥२-२९-१५॥ शुद्ध आत्मन् प्रेम भावाद्द् हि भविष्यामि विकल्मषा । भर्तारम् अनुगच्चन्ती भर्ता हि मम दैवतम् ॥२-२९-१६॥ प्रेत्य भावे अपि कल्याणः सम्गमः मे सह त्वया । श्रुतिर् हि श्रूयते पुण्या ब्राह्मणानाम् यशस्विनाम् ॥२-२९-१७॥ इह लोके च पितृभिर् या स्त्री यस्य महा मते । अद्भिर् दत्ता स्वधर्मेण प्रेत्य भावे अपि तस्य सा ॥२-२९-१८॥ एवम् अस्मात् स्वकाम् नारीम् सुवृत्ताम् हि पति व्रताम् । न अभिरोचयसे नेतुम् त्वम् माम् केन इह हेतुना ॥२-२९-१९॥ भक्ताम् पति व्रताम् दीनाम् माम् समाम् सुख दुह्खयोह् । नेतुम् अर्हसि काकुत्स्थ समान सुख दुह्खिनीम् ॥२-२९-२०॥ यदि माम् दुह्खिताम् एवम् वनम् नेतुम् न च इच्चसि । विषम् अग्निम् जलम् वा अहम् आस्थास्ये मृत्यु कारणात् ॥२-२९-२१॥ एवम् बहु विधम् तम् सा याचते गमनम् प्रति । न अनुमेने महा बाहुस् ताम् नेतुम् विजनम् वनम् ॥२-२९-२२॥ एवम् उक्ता तु सा चिन्ताम् मैथिली समुपागता । स्नापयन्ती इव गाम् उष्णैः अश्रुभिर् नयन च्युतैः ॥२-२९-२३॥ चिन्तयन्तीम् तथा ताम् तु निवर्तयितुम् आत्मवान् । ताम्रोष्ठीं स तदा सीताम् काकुत्स्थो बह्व् असान्त्वयत् ॥२-२९-२४॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥