रामायणम्/अयोध्याकाण्डम्/सर्गः ९५

विकिस्रोतः तः
← सर्गः ९४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९६ →
पञ्चनवतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्

अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वर: । 
अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ।। २.९५.१ ।। 

अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । 
विदेहराजस्य सुतां रामो राजीवलोचन: ।। २.९५.२ ।। 

विचित्रपुलिनां रम्यां हंससारससेविताम् । 
कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ।। २.९५.३ ।। 

नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमै: । 
राजन्तीं राजराजस्य नलिनीमिव सर्वत: ।। २.९५.४ ।। 

मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । 
तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ।। २.९५.५ ।। 

जटाजिनधरा: काले वल्कलोत्तरवासस: । 
ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ।। २.९५.६ ।। 

आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहव: । 
एते परे विशालाक्षि मुनय: संशितव्रता: ।। २.९५.७ ।। 

मारुतोद्धूतशिखरै: प्रनृत्त इव पर्वत: । 
पादपै: पत्ऺत्रपुष्पाणि सृजद्भिरभितो नदीम् ।। २.९५.८ ।। 

क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । 
क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ।। २.९५.९ ।। 

निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् । 
पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ।। २.९५.१० ।। 

तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजा: । 
अधिरोहन्ति कल्याणि विकूजन्त: शुभा गिर: ।। २.९५.११ ।। 

दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । 
अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ।। २.९५.१२ ।। 

विधूतकलुषै: सिद्धैस्तपोदमशमान्वितै: । 
नित्यविक्षोभितजलां विगाहस्व मया सह ।। २.९५.१३ ।। 

सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । 
कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ।। २.९५.१४ ।। 

त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । 
मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ।। २.९५.१५ ।। 

लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थित: । 
त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ।। २.९५.१६ ।। 

उपस्पृशंस्त्रिषवणं मधुमूलफलाशन: । 
नायोध्यायै न राज्याय स्पृहये ऽद्य त्वया सह ।। २.९५.१७ ।। 

इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरै: । 
सुपुष्पितै: पुष्पधरैरलङ्कृतां न सो ऽस्ति य: स्यादगतक्लम: सुखी ।। २.९५.१८ ।। 

इतीव रामो बहुसङ्गतं वच: प्रियासहाय: सरितं प्रति ब्रुवन् । 
चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धन: ।। २.९५.१९ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चनवतितमः सर्गः ।। ९५।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र