रामायणम्/अयोध्याकाण्डम्/सर्गः ११०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः १०९ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १११ →
दशाधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
क्रुद्धमाज्ञाय रामं तं वसिष्ठ: प्रत्युवाच ह । 
जाबालिरपि जानीते लोकस्यास्य गतागतिम् ।। २.११०.१ ।। 

निवर्त्तयितुकामस्तु त्वामेतद्वाक्यमुक्तवान् । 
इमां लोकसमुत्पत्तिं लोकनाथ निबोध मे ।। २.११०.२ ।। 

सर्वं सलिलमेवासीत् पृथिवी यत्र निर्मिता । 
तत: समभवद्ब्रह्मा स्वयम्भूर्दैवतै: सह । 
स वराहस्ततो भूत्वा प्रोज्जहार वसुन्धराम् ।। २.११०.३ ।। 

असृजच्च जगत् सर्वं सह पुत्रै: कृतात्मभि: । 
आकाशप्रभवो ब्रह्मा शाश्वतो नित्य अव्यय: ।। २.११०.४ ।। 

तस्मान्मरीचि: संजज्ञे मरीचे: काश्यप: सुत: ।। २.११०.५ ।। 

विवस्वान् काश्यपाज्जज्ञे मनुर्वैवस्वतस्सुत: । 
स तु प्रजापति: पूर्वमिक्ष्वाकुस्तु मनो: सुत: ।। २.११०.६ ।। 

यस्येयं प्रथमं दत्ता समृद्धा मनुना मही । 
तमिक्ष्वाकुमयोध्यायां राजानं विद्धि पूर्वकम् ।। २.११०.७ ।। 

इक्ष्वाकोस्तु सुत: श्रीमान् कुक्षिरेवेति विश्रुत: । 
कुक्षेरथात्मजो ऺवीरो विकुक्षिरुदपद्यत ।। २.११०.८ ।। 

विकुक्षेस्तु महातेजा बाण: पुत्र: प्रतापवान् । 
बाणस्य तु महाबाहुरनरण्यो महायशा: ।। २.११०.९ ।। 

नानावृष्टिर्बभूवास्मिन्न दुर्भिक्षं सतां वरे । 
अनरण्ये महाराजे तस्करो नापि कश्चन ।। २.११०.१० ।। 

अनरण्यान्महाबाहु: पृथू राजा बभूव ह । 
तस्मात् पृथोर्महाराजस्त्रिशङ्कुरुदपद्यत । 
स सत्यवचनाद्वीर: सशरीरो दिवङ्गत: ।। २.११०.११ ।। 

त्रिशङ्कोरभवत्सूनुर्धुन्धुमारो महायशा: । 
धुन्धुमारो महातेजा युवनाश्वो व्यजायत ।। २.११०.१२ ।। 

युवनाश्वसुत: श्रीमान् मान्धाता समपद्यत । 
मान्धातुस्तु महातेजा: सुसन्धिरुदपद्यत ।। २.११०.१३ ।। 

सुसन्धेरपि पुत्रौ द्वौ ध्रुवसन्धि: प्रसेनजित् । 
यशस्वी ध्रुवसन्धेस्तु भरतो रिपुसूदन: ।। २.११०.१४ ।। 

भरतात्तु महाबाहोरसितो नाम जायत । 
यस्यैते प्रतिराजान उदपद्यन्त शत्रव: । 
हैहयास्तालजङ्घाश्च शूराश्च शशिबिन्दव: ।। २.११०.१५ ।। 

तांस्तु सर्वान् प्रतिव्यूह्य युद्धे राजा प्रवासित: । 
स च शैलवरे रम्ये बभूवाभिरतो मुनि: ।। २.११०.१६ ।। 

द्वे चास्य भार्ये गर्भिण्यौ बभूवतुरिति श्रुति: । 
एका गर्भविनाशाय सपत्न्यै सगरं ददौ ।। २.११०.१७ ।। 

भार्गवश्च्यवनो नाम हिमवन्तमुपाश्रित: । 
तमृषिं समुपागम्य कालिन्दी त्वभ्यवादयत् ।। २.११०.१८ ।। 

स तामभ्यवदद्विप्रो वरेप्सुं पुत्रजन्मनि । 
पुत्रस्ते भविता देवि महात्मा लोकविश्रुत: । 
धार्मिकश्च सुशीलश्च वंशकर्त्ता ऽरिसूदन: ।। २.११०.१९ ।। 

कृत्वा प्रदक्षिणं हृष्टा मुनिं तमनुमान्य च । 
पद्मपत्रसमानाक्षं पद्मगर्भसमप्रभम् । 
तत: सा गृहमागम्य देवी पुत्रं व्यजायत ।। २.११०.२० ।। 

सपत्न्या तु गरस्तस्यै दत्तो गर्भजिघांसया । 
गरेण सह तेनैव जात: स सगरो ऽभवत् ।। २.११०.२१ ।। 

स राजा सगरो नाम य: समुद्रमखानयत् । 
इष्ट्वा पर्वणि वेगेन त्रासयन्तमिमा: प्रजा: ।। २.११०.२२ ।। 

असमञ्जस्तु पुत्रोभूत् सगरस्येति न: श्रुतम् । 
जीवन्नेव स पित्रा तु निरस्त: पापकर्मकृत् ।। २.११०.२३ ।। 

अंशुमानपि पुत्रो ऽभूदसमञ्जस्य वीर्य्यवान् । 
दिलीपों ऽशुमत: पुत्रो दिलीपस्य भगीरथ: ।। २.११०.२४ ।। 

भगीरथात् ककुत्स्थस्तु काकुत्स्था येन विश्रुता: । 
ककुत्स्थस्य च पुत्रो ऽभूद्रघुर्येन तु राघवा: ।। २.११०.२५ ।। 

रघोस्तु पुत्रस्तेजस्वी प्रवृद्ध: पुरुषादक: । 
कल्माषपाद: सौदास इत्येवं प्रथितो भुवि ।। २.११०.२६ ।। 

कल्माषपादपुत्रो ऽभूच्छङ्खणस्त्विति विश्रुत: । 
यस्तु तद्वीर्यमासाद्य सहसैन्यो व्यनीनशत् ।। २.११०.२७ ।। 

शङ्खणस्य च पुत्रो ऽभूच्छूर: श्रीमान् सुदर्शन: । 
सुदर्शनस्याग्निवर्ण अग्निवर्णस्य शीघ्रग: ।। २.११०.२८ ।। 

शीघ्रगस्य मरु: पुत्रो मरो: पुत्र: प्रशुश्रुक: । 
प्रशुश्रुकस्य पुत्रो ऽभूदम्बरीषो महाद्युति: ।। २.११०.२९ ।। 

अम्बरीषस्य पुत्रो ऽभून्नहुष: सत्यविक्रम: । 
नहुषस्य च नाभाग: पुत्र: परमधार्मिक: ।। २.११०.३० ।। 

अजश्च सुव्रतश्चैव नाभागस्य सुतावुभौ । 
अजस्य चैव धर्मात्मा राजा दशरथ: सुत: ।। २.११०.३१ ।। 

तस्य ज्येष्ठो ऽसि दायादो राम इत्यभिविश्रुत: । 
तद्गृहाण स्वकं राज्यमवेक्षस्व जनं नृप ।। २.११०.३२ ।। 

इक्ष्वाकूणां हि सर्वेषां राजा भवति पूर्वज: । 
पूर्वजे नावर: पुत्रो ज्येष्ठो राज्ये ऽभिषिच्यते ।। २.११०.३३ ।। 

स राघवाणां कुलधर्ममात्मन: सनातनं नाद्य विहन्तुमर्हसि । 
प्रभूतरत्नामनुशाधि मेदिनीं प्रभूतराष्ट्रां पितृवन्महायश: ।। २.११०.३४ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे दशोत्तरशततम: सर्ग: ।। ११० ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र