रामायणम्/अयोध्याकाण्डम्/सर्गः १०१

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १०० रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०२ →
रामायणम्/अयोध्याकाण्डम्
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह ।
किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.१ ।।

शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ ।
ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.२ ।।

स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव ।
अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.३ ।।

राजानं मानुषं प्राहुर्देवत्वे स मतो मम ।
यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.४ ।।

केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते ।
दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.५ ।।

निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे ।
दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.६ ।।

उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: ।
ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.७ ।।

प्रियेण खलु दत्तं हि पितृलोकेषु राघव ।
अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.८ ।।

त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् ।
त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.९ ।।

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। १०१ ।।