रामायणम्/अयोध्याकाण्डम्/सर्गः ९६

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ९५ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९७ →
रामायणम्/अयोध्याकाण्डम्
तां तथा दर्शयित्वा तु मैथिलीं गिरिनिम्नगाम् । 
निषसाद गिरिप्रस्थे सीतां मांसेन छन्दयन् ।। २.९६.१ ।। 

इदं मेध्यमिदं स्वादु निष्टप्तमिदमग्निना । 
एवमास्ते स धर्मात्मा सीतया सह राघव: ।। २.९६.२ ।। 

तथा तत्रासतस्तस्य भरतस्योपयायिन: । 
सैन्यरेणुश्च शब्दश्च प्रादुरास्तां नभस्स्पृशौ ।। २.९६.३ ।। 

एतस्मिन्नन्तरे त्रस्ता: शब्देन महता तत: । 
अर्दिता यूथपा मत्ता: सयूथा दुद्रुवुर्दिश: ।। २.९६.४ ।। 

स तं सैन्यसमुद्धूतं शब्दं शुश्राव राघव: । 
तांश्च विप्रद्रुतान् सर्वान् यूथपानन्ववैक्षत ।। २.९६.५ ।। 

तांश्च विद्रवतो दृष्ट्वा तं च श्रुत्वा च निस्वनम् । 
उवाच राम: सौमित्रिं लक्ष्मणं दीप्ततेजसम् ।। २.९६.६ ।। 

हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास्त्वया । 
भीमस्तनितगम्भीरस्तुमुल: श्रूयते स्वन: ।। २.९६.७ ।। 

गजयूथानि वा ऽरण्ये महिषा वा महावने । 
वित्रासिता मृगा: सिंहै: सहसा प्रद्रुता दिश: ।। २.९६.८ ।। 

राजा वा राजमात्रो वा मृगयामटते वने । 
अन्यद्वा श्वापदं किञ्चित् सौमित्रे ज्ञातुमर्हसि ।। २.९६.९ ।। 

सुदुश्चरो गिरिश्चायं पक्षिणामपि लक्ष्मण । 
सर्वमेतद्यथातत्त्वमचिराज्ज्ञातुमर्हसि ।। २.९६.१० ।। 

स लक्ष्मण: संत्वरित: सालमारुह्य पुष्पितम् । 
प्रेक्षमाणो दिश: सर्वा: पूर्वां दिशमुदैक्षत ।। २.९६.११ ।। 

उदङ्मुख: प्रेक्षमाणो ददर्श महतीं चमूम् । 
रथाश्वगजसम्बाधां यत्तैर्युक्तां पदातिभि: ।। २.९६.१२ ।। 

तामश्वगजसम्पूर्णां रथध्वजविभूषिताम् । 
शशंस सेनां रामाय वचनं चेदमब्रीत् ।। २.९६.१३ ।। 

अग्निं संशमयत्वार्य: सीता च भजतां गुहाम् । 
सज्यं कुरुष्व चापं च शरांश्च कवचं तथा ।। २.९६.१४ ।। 

तं राम: पुरुषव्याघ्रो लक्ष्मणं प्रत्युवाच ह । 
अङ्गावेक्षस्व सौमित्रे कस्येमां मन्यसे चमूम् ।। २.९६.१५ ।। 

एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् । 
दिधक्षन्निव तां सेनां रुषित: पावको यथा ।। २.९६.१६ ।। 

सम्पन्नं राज्यमिच्छंस्तु व्यक्तं प्राप्याभिषेचनम् । 
आवां हन्तुं समभ्येति कैकेय्या भरत: सुत: ।। २.९६.१७ ।। 

एष वै सुमहान् श्रीमान् विटपी सम्प्रकाशते । 
विराजत्युद्गतस्कन्ध: कोविदारध्वजो रथे ।। २.९६.१८ ।। 

भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् । 
एते भ्राजन्ति संहृष्टा गजानारुह्य सादिन: ।। २.९६.१९ ।। 

गृहीतधनुषौ चावां गिरिं वीरश्रयावहै । 
अथवेहैव तिष्ठाव: सन्नद्धावुद्यतायुधौ ।। २.९६.२० ।। 

अपि नौ वशमागच्छेत् कोविदारध्वजो दणे ।। २.९६.२१ ।। 

अपि द्रक्ष्यामि भरतं यत्कृते व्यसनं महत् । 
त्वया राघव सम्प्राप्तं सीतया च मया तथा ।। २.९६.२२ ।। 

यन्निमित्तं भवान् राज्याच्च्युतो राघव शाश्वतात् । 
सम्प्राप्तो ऽयमरिर्वीर भरतो वध्य एव मे ।। २.९६.२३ ।। 

भरतस्य वधे दोषं नाहं पश्यामि राघव । 
पूर्वापकारिणां त्यागे न ह्यधर्मो विधीयते ।। २.९६.२४ ।। 

पूर्वापकारी भरतस्त्यक्तधर्मश्च राघव । 
एतस्मिन्निहते कृत्स्नामनुशाधि वसुन्धराम् ।। २.९६.२५ ।। 

अद्य पुत्रं हतं सङ्ख्ये कैकेयी राज्यकामुका । 
मया पश्येत् सुदु:खार्त्ता हस्तिभग्नमिव द्रुमम् ।। २.९६.२६ ।। 

कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम् । 
कलुषेणाद्य महता मेदिनी परिमुच्यताम् ।। २.९६.२७ ।। 

अद्येमं संयतं क्रोधमसत्कारं च मानद । 
मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् ।। २.९६.२८ ।। 

अद्यैतच्चित्रकूटस्य काननं निशितै: शरै: । 
भिन्दन् शत्रुशरीराणि करिष्ये शोणितोक्षितम् ।। २.९६.२९ ।। 

शरैर्निर्भिन्नहृदयान् कुञ्जरांस्तुरगांस्तथा । 
श्वापदा: परिकर्षन्तु नरांश्च निहतान् मया ।। २.९६.३० ।। 

शराणां धनुषश्चाहमनृणो ऽस्मि महामृधे । 
ससैन्यं भरतं हत्वा भविष्यामि न संशय: ।। २.९६.३१ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षण्णवतितम: सर्ग: ।। ९६ ।।
</poem>