रामायणम्/अयोध्याकाण्डम्/सर्गः २२
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः २१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः २३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
अथ तम् व्यथया दीनम् सविशेषम् अमर्षितम् । श्वसन्तम् इव नाग इन्द्रम् रोष विस्फारित ईक्षणम् ॥२-२२-१॥ आसद्य रामः सौमित्रिम् सुह्Rदम् भ्रातरम् प्रियम् । उवाच इदम् स धैर्येण धारयन् सत्त्वम् आत्मवान् ॥२-२२-२॥ निगृह्य रोषं शोकं च खैर्यमाश्रित्य केवलम् । अवमानम् निरस्येमम् गृहीत्वा हर्षमुत्तमम् ॥२-२२-३॥ उपक्लुप्तम् हि यत्किम्चिदभिषेकार्थमद्य मे । स्र्वम् विसर्जय क्षिप्रम् कुरु कार्यम् निरत्ययम् ॥२-२२-४॥ सौमित्रे यो अभिषेक अर्थे मम सम्भार सम्भ्रमः । अभिषेक निवृत्ति अर्थे सो अस्तु सम्भार सम्भ्रमः ॥२-२२-५॥ यस्या मद् अभिषेक अर्थम् मानसम् परितप्यते । माता नः सा यथा न स्यात् सविशन्का तथा कुरु ॥२-२२-६॥ तस्याः शन्कामयम् दुह्खम् मुहूर्तम् अपि न उत्सहे । मनसि प्रतिसम्जातम् सौमित्रे अहम् उपेक्षितुम् ॥२-२२-७॥ न बुद्धि पूर्वम् न अबुद्धम् स्मरामि इह कदाचन । मातृणाम् वा पितुर् वाहम् कृतम् अल्पम् च विप्रियम् ॥२-२२-८॥ सत्यः सत्य अभिसम्धः च नित्यम् सत्य पराक्रमः । पर लोक भयात् भीतः निर्भयो अस्तु पिता मम ॥२-२२-९॥ तस्य अपि हि भवेद् अस्मिन् कर्मणि अप्रतिसम्ह्Rते । सत्यम् न इति मनः तापः तस्य तापः तपेच् च माम् ॥२-२२-१०॥ अभिषेक विधानम् तु तस्मात् सम्हृत्य लक्ष्मण । अन्वग् एव अहम् इच्चामि वनम् गन्तुम् इतः पुनः ॥२-२२-११॥ मम प्रव्राजनात् अद्य कृत कृत्या नृपात्मजा । सुतम् भरतम् अव्यग्रम् अभिषेचयिता ततः ॥२-२२-१२॥ मयि चीर अजिन धरे जटा मण्डल धारिणि । गते अरण्यम् च कैकेय्या भविष्यति मनः सुखम् ॥२-२२-१३॥ बुद्धिः प्रणीता येन इयम् मनः च सुसमाहितम् । तत् तु न अर्हामि सम्क्लेष्टुम् प्रव्रजिष्यामि माचिरम् ॥२-२२-१४॥ कृत अन्तः तु एव सौमित्रे द्रष्टव्यो मत् प्रवासने । राज्यस्य च वितीर्णस्य पुनर् एव निवर्तने ॥२-२२-१५॥ कैकेय्याः प्रतिपत्तिर् हि कथम् स्यान् मम पीडने । यदि भावो न दैवो अयम् कृत अन्त विहितः भवेत् ॥२-२२-१६॥ जानासि हि यथा सौम्य न मातृषु मम अन्तरम् । भूत पूर्वम् विशेषो वा तस्या मयि सुते अपि वा ॥२-२२-१७॥ सो अभिषेक निवृत्ति अर्थैः प्रवास अर्थैः च दुर्वचैः । उग्रैः वाक्यैः अहम् तस्या न अन्यद् दैवात् समर्थये ॥२-२२-१८॥ कथम् प्रकृति सम्पन्ना राज पुत्री तथा अगुणा । ब्रूयात् सा प्राकृता इव स्त्री मत् पीडाम् भर्तृ सम्निधौ ॥२-२२-१९॥ यद् अचिन्त्यम् तु तत् दैवम् भूतेष्व् अपि न हन्यते । व्यक्तम् मयि च तस्याम् च पतितः हि विपर्ययः ॥२-२२-२०॥ कश्चित् दैवेन सौमित्रे योद्धुम् उत्सहते पुमान् । यस्य न ग्रहणम् किम्चित् कर्मणो अन्यत्र दृश्यते ॥२-२२-२१॥ सुख दुह्खे भय क्रोधौ लाभ अलाभौ भव अभवौ । यस्य किम्चित् तथा भूतम् ननु दैवस्य कर्म तत् ॥२-२२-२२॥ ऋषयो प्युग्रतपसो दैवेनाभिप्रपीडिताः । उत्सृज्य नियमाम् स्तीव्रान् भ्रश्यन्ते काममन्युभिः ॥२-२२-२३॥ असम्क्ल्पितमेवेह यदकस्मात् प्रवर्तते । निवर्त्यारम्भमारब्धम् ननु दैवस्य कर्म तत् ॥२-२२-२४॥ एतया तत्त्वया बुद्ध्या सम्स्तभ्यात्मानमात्मना । व्याहते अपि अभिषेके मे परितापो न विद्यते ॥२-२२-२५॥ तस्मात् अपरितापः सम्स् त्वम् अपि अनुविधाय माम् । प्रतिसम्हारय क्षिप्रम् आभिषेचनिकीम् क्रियाम् ॥२-२२-२६॥ एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः । मम लक्स्मण तापस्ये व्रतस्नानम् भविष्यति ॥२-२२-२७॥ अथवा किम् ममैतेन राजद्रव्यमयेन तु । उद्धृतम् मे स्वयम् तो यम् व्रतादेशम् करिष्यति ॥२-२२-२८॥ मा च लक्ष्मण सम्तापम् कार्षीर्लक्ष्म्या विपर्यये । राज्यम् वा वनवासो वा वनवासो महोदयः ॥२-२२-२९॥ न लक्ष्मण अस्मिन् मम राज्य विघ्ने । माता यवीयस्य् अतिशन्कनीया । दैव अभिपन्ना हि वदन्ति अनिष्टम् । जानासि दैवम् च तथा प्रभावम् ॥२-२२-३०॥ ॥ इत्यार्षे श्र्रिमद्रामायणे आदिकाव्ये अयोध्याकाण्डे द्वाविम्शः सरगः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥