रामायणम्/अयोध्याकाण्डम्/सर्गः ९२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ९१ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९३ →
रामायणम्/अयोध्याकाण्डम्
ततस्तां रजनीं व्युष्य भरत: सपरिच्छद: । 
कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ।। २.९२.१ ।। 

तमृषि: पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । 
हुताग्निहोत्रो भरतं भरद्वाजो ऽभ्यभाषत ।। २.९२.२ ।। 

कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । 
समग्रस्ते जन: कच्चिदातिथ्ये शंस मे ऽनघ ।। २.९२.३ ।। 

तमुवाचाञ्जलिं कृत्वा भरतो ऽभिप्रणम्य च । 
आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ।। २.९२.४ ।। 

सुखोषितो ऽस्मि भगवन् समग्रबलवाहन: । 
तर्पित: सर्वकामैश्च सामात्यो बलवत्त्वया ।। २.९२.५ ।। 

अपेतक्लमसन्तापा: सुभिक्षा: सुप्रतिश्रया: । 
अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिता: ।। २.९२.६ ।। 

आमन्त्रये ऽहं भगवन् कामं त्वामृषिसत्तम । 
समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ।। २.९२.७ ।। 

आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मन: । 
आचक्ष्व कतमो मार्ग: कियानिति च शंस मे ।। २.९२.८ ।। 

इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । 
प्रत्युवाच महातेजा भरद्वाजो महातपा: ।। २.९२.९ ।। 

भरतार्द्धतृतीयेषु योजनेष्वजने वने । 
चित्रकूटो गिरिस्तत्र रम्यनिर्दरकानन: ।। २.९२.१० ।। 

उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । 
पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ।। २.९२.११ ।। 

अनन्तरं तत्सरितश्चित्रकूटश्च पर्वत: । 
तयो: पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ।। २.९२.१२ ।। 

दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । 
गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । 
वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ।। २.९२.१३ ।। 

प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषित: । 
हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ।। २.९२.१४ ।। 

वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । 
कौसल्या तत्र जग्राह कराभ्यां चरणौ मुने: ।। २.९२.१५ ।। 

असमृद्धेन कामेन सर्वलोकस्य गर्हिता । 
कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ।। २.९२.१६ ।। 

तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । 
अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ।। २.९२.१७ ।। 

तत: पप्रच्छ भरतं भरद्वाजो दृढव्रत: । 
विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ।। २.९२.१८ ।। 

एवमुक्तस्तु भरतो भरद्वाजेन धार्मिक: । 
उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविद: ।। २.९२.१९ ।। 

यामिमां भगवन् दीनां शोकानशनकर्शिताम् । 
पितुर्हि महिषीं देवीं देवतामिव पश्यसि ।। २.९२.२० ।। 

एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । 
कौसल्या सुषुवे रामं धातारमदितिर्यथा ।। २.९२.२१ ।। 

अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मना: । 
कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ।। २.९२.२२ ।। 

एतस्यास्तु सुतौ देव्या: कुमारौ देववर्णिनौ । 
उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ।। २.९२.२३ ।। 

यस्या: कृते नरव्याघ्रौ जीवनाशमितो गतौ । 
राजपुत्रविहीनश्च स्वर्गं दशरथो गत: ।। २.९२.२४ ।। 

क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । 
ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ।। २.९२.२५ ।। 

ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । 
यतो मूलं हि पश्यामि व्यसनं महदात्मन: ।। २.९२.२६ ।। 

इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । 
स निशश्वास ताम्राक्षो नाग: क्रुद्ध इव श्वसन् ।। २.९२.२७ ।। 

भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । 
प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ।। २.९२.२८ ।। 

न दोषेणावगन्तव्या कैकेयी भरत त्वया । 
रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ।। २.९२.२९ ।। 

देवानां दानवानां च ऋषीणां भावितात्मनाम् । 
हितमेव भविष्यद्धि रामप्रव्राजनादिह ।। २.९२.३० ।। 

अभिवाद्य तु संसिद्ध: कृत्वा चैनं प्रदक्षिणम् । 
आमन्त्र्य भरत: सेन्यं युज्यतामित्यचोदयत् ।। २.९२.३१ ।। 

ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । 
अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जन: ।। २.९२.३२ ।। 

गजकन्या गजाश्चैव हेमकक्ष्या: पताकिन: । 
जीमूता इव घर्मान्ते सघोषा: सम्प्रतस्थिरे ।। २.९२.३३ ।। 

विविधान्यपि यानानि महान्ति च लघूनि च । 
प्रययु: सुमहार्हाणि पादैरेव पदातय: ।। २.९२.३४ ।। 

अथ यानप्रवेकैस्तु कौसल्याप्रमुखा: स्त्रिय: । 
रामदर्शनकांक्षिण्य: प्रययुर्मुदितास्तदा ।। २.९२.३५ ।। 

चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । 
आस्थाय प्रययौ श्रीमान् भरत: सपरिच्छद: ।। २.९२.३६ ।। 

सा प्रयाता महासेना गजवाजिरथाकुला । 
दक्षिणां दिशमावृत्य महामेघ इवोत्थित: ।। २.९२.३७ ।। 

वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभि: । 
गङ्गाया: परवेलायां गिरिष्वपि नदीषु च ।। २.९२.३८ ।। 

सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । 
महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ।। २.९२.३९ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्विनवतितम: सर्ग: ।। ९२ ।।
</poem>