रामायणम्/अयोध्याकाण्डम्/सर्गः ११२

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १११ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ११३ →
रामायणम्/अयोध्याकाण्डम्
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । 
विस्मिता: सङ्गमं प्रेक्ष्य समवेता महर्षय: ।। २.११२.१ ।। 

अन्तर्हितास्त्वृषिगणा: सिद्धाश्च परमर्षय: । 
तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ।। २.११२.२ ।। 

स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । 
श्रुत्वा वयं हि सम्भाषामुभयो: स्पृहयामहे ।। २.११२.३ ।। 

ततस्त्वृषिगणा: क्षिप्रं दशग्रीववधैषिण: । 
भरतं राजशार्दूलमित्यूचु: सङ्गता वच: ।। २.११२.४ ।। 

कुले जात महाप्राज्ञ महावृत्त महायश: । 
ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ।। २.११२.५ ।। 

सदानृणमिमं रामं वयमिच्छामहे पितु: । 
अनृणत्वाच्च कैकेय्या: स्वर्गं दशरथो गत: ।। २.११२.६ ।। 

एतावदुक्त्वा वचनं गन्धर्वा: समहर्षय: । 
राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गता: ।। २.११२.७ ।। 

ह्लादितस्तेन वाक्येन शुभेन शुभदर्शन: । 
राम: संहृष्टवदनस्तानृषीनभ्यपूजयत् ।। २.११२.८ ।। 

स्रस्तगात्रस्तु भरत: स वाचा सज्जमानया । 
कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ।। २.११२.९ ।। 

राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । 
कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ।। २.११२.१० ।। 

रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे । 
पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ।। २.११२.११ ।। 

ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च न: । 
त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षका: ।। २.११२.१२ ।। 

इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । 
शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ।। २.११२.१३ ।। 

इत्युक्त्वा न्यपतद् भ्रातु: पादयोर्भरतस्तदा । 
भृशं सम्प्रार्थयामास राममेव प्रियंवद: ।। २.११२.१४ ।। 

तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । 
श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ।। २.११२.१५ ।। 

आगता त्वामियं बुद्धि: स्वजा वैनयिकी च या । 
भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ।। २.११२.१६ ।। 

अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभि: । 
सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ।। २.११२.१७ ।। 

लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । 
अतीयात् सागरो वेलां न प्रतिज्ञामहं पितु: ।। २.११२.१८ ।। 

कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । 
न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ।। २.११२.१९ ।। 

एवं ब्रुवाणं भरत: कौसल्यासुतमब्रवीत् । 
तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ।। २.११२.२० ।। 

अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । 
एते हि सर्वलोकस्य योगक्षेमं विधास्यत: ।। २.११२.२१ ।। 

सो ऽधिरुह्य नरव्याघ्र: पादुके ह्यवरुह्य च । 
प्रायच्छत् सुमहातेजा भरताय महात्मने ।। २.११२.२२ ।। 

स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । 
चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ।। २.११२.२३ ।। 

फलमूलाशनो वीर भवेयं रघुनन्दन । 
तवागमनमाकांक्षन् वसन् वै नगराद्बहि: ।। २.११२.२४ ।। 

तव पादुकयोर्न्यस्तराज्यतन्त्र: परन्तप । 
चतुर्दशे हि सम्पूर्णे वर्षे ऽहनि रघूत्तम । 
न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ।। २.११२.२५ ।। 

तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । 
शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ।। २.११२.२६ ।। 

मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । 
मया च सीतया चैव शप्तो ऽसि रघुसत्तम ।। २.११२.२७ ।। 

इत्युक्त्वा ऽश्रुपरीताक्षो भ्रातरं विससर्ज ऺह ।। २.११२.२८ ।। 

स पादुके ते भरत: प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् । 
प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ।। २.११२.२९ ।। 

अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । 
व्यसर्जयद्राघववंशवर्द्धन: स्थिर: स्वधर्मे हिमवानिवाचल: ।। २.११२.३० ।। 

तं मातरो बाष्पगृहीतकण्ठ्यो दु:खेन नामन्त्रयितुं हि शेकु: । 
स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश राम: ।। २.११२.३१ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्वादशोत्तरशततम: सर्ग: ।। ११२ ।।
</poem>