रामायणम्/अयोध्याकाण्डम्/सर्गः १२
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ७ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ९ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततः श्रुत्वा महाराजः कैकेय्या दारुणम् वचः । चिन्तामभिसमापेदे मुहूर्तम् प्रतताप च ॥२-१२-१॥ किम् नु मे यदि वा स्वप्नश्चित्तमोहोओऽपि वामम । अनुभूतोपसर्गो वा मनसो वाप्युपद्रवः ॥२-१२-२॥ इति सम्चिन्त्य तद्राजा नाध्यगच्छ त्तदा सुखम् । प्रतिलभ्य चिरात्सम्ज्ञाम् कैकेयीवाक्यताडितः ॥२-१२-३॥ व्यथितो विक्लबशचैव व्याघ्रीम् दृष्ट्वा यथा मृगः । असम्वृतायामासीनो जगत्याम् दीर्घमुच्छ्वसन् ॥२-१२-४॥ मण्ड्ले पन्नगो रुद्धो मन्त्रैरिव महाविषः । अहोधिगिति सामर्षो वाचमुक्त्वा नराधिपः ॥२-१२-५॥ मोहमापेदिवान्भूयः शोकोपहतचेतनः । चिरेण तु नृपः सम्ज्ञाम् प्रतिलभ्य सुदुःखितः ॥२-१२-६॥ कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा । नृशम्से दुष्टचारित्रे कुलस्यास्य विनाशिनि ॥२-१२-७॥ किम् कृतम् तव रामेण पापं पापे मयापि वा । त्वं ममात्मविनाशार्थम् भवनम् स्वं प्रवेशिता ॥२-१२-८॥ अविज्ञानान्नृपसुता व्याLई तीक्ष्णविषा यथा । जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-९॥ अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् । जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ॥२-१२-१०॥ अपराधम् कमुद्दिश्य त्यक्ष्यामीष्टमहम् सुतम् । कौसल्याम् वा सुमित्राम् वा त्यजेयमपि वा श्रियम् ॥२-१२-११॥ जीवितम् वात्मनो रामम् न त्वेव पितृवत्सलम् । परा भवति मे प्रीतिर्धृष्ट्वा तनयमग्रजम् ॥२-१२-१२॥ अपश्यतस्तु मे रामम् नष्टा भवति चेतना । तिष्ठेल्लोको विना सूर्यम् सस्यम् वा सलिलम् विना ॥२-१२-१३॥ न तु रामम् विना देहे तिष्ठेत्तु मम जीवितम् । तदलम् त्यज्यतामेष निश्चयः पापनिश्चये ॥२-१२-१४॥ अपिते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे । किमिदम् चिन्तितम् पापे त्वया परमदारुणम् ॥२-१२-१५॥ अथ जीज्ञाससे माम् त्वम् भरतस्य प्रियाप्रिये । अस्तुयत्तत्त्वयाअपूर्वम् व्याहृतम्राघवम्प्रति ॥२-१२-१६॥ स मे ज्येष्ठः सुतः श्रीमान् धर्मज्येष्ठ इतीव मे । तत्त्वया प्रियवादिन्या सेवार्थम् कथितम् भवेत् ॥२-१२-१७॥ तच्छ्रुत्वा शोकसम्तप्ता सम्तापयसि माम् भृशम् । आविष्टासि गृहम् शून्यम् सा त्वम् परवशम् गता ॥२-१२-१८॥ इक्ष्वाकूणाम् कुले देवि सम्प्राप्तः सुमहानयम् । अनयो नयसम्पन्ने यत्र ते विकृता मतिः ॥२-१२-१९॥ न हि किम्चिदयुक्तम् वा विप्रियम् वा पुरा मम । अकरोस्त्वम् विशालाक्षि तेन न श्रद्दधाम्यहम् ॥२-१२-२०॥ ननु ते राघवस्तुल्यो भरतेन महात्मना । बहुशो हि स्म बाले त्वम् कथयसे मम ॥२-१२-२१॥ तस्य धर्मात्मनो देवि वनवासम् यशस्विनः । कथम् रोचयसे भीरु नव वर्षाणि पञ्च च ॥२-१२-२२॥ अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः । कथम् रोचयसे वासमरण्ये भृशदारुणे ॥२-१२-२३॥ रोचयस्यभिरामस्य रामस्य शुभलोचने । तवशुश्रूषमाणस्य किम्मर्थम् विप्रवासनम् ॥२-१२-२४॥ रामो हि भरताद्भूयस्तव शुश्रूष्ते सदा । विशेषम् त्वयि तस्मात्तु भरतस्य न लक्षये ॥२-१२-२५॥ शुश्रूषाम् गौरवम् चैव प्रमाणम् वचनक्रियाम् । कस्ते भूयस्तरम् कुर्यादन्यत्र मनुजर्षभात् ॥२-१२-२६॥ बहूनाम् स्त्रीसहस्राणाम् बहूनाम् चोपजीविनाम् । परिवादोऽपवादो वा राघवे नोपपद्यते ॥२-१२-२७॥ सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा । गृह्णाति मनुजव्याग्रः प्रियैर्विषयवासिनः ॥२-१२-२८॥ सत्येन लोकान् जयति दीनान् दानेन राघवः । गुरून् शुश्रूषया वीरो धनुशा युधि शात्रवान् ॥२-१२-२९॥ सत्यम् दानम् तपस्त्यगो वित्रता शौचमार्जवम् । विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ॥२-१२-३०॥ तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम् । पापमाशम्ससे रामे महर्षिसमतेजसि ॥२-१२-३१॥ न स्मराम्यप्रियम् वाक्यम् लोकस्य प्रियवादिनः । स कथम् त्वत्कृते रामम् वक्ष्यामि प्रियमप्रियम् ॥२-१२-३२॥ क्षमा यस्मिन् दमस्त्यागः सत्यम् धर्मः कृतज्ञता । अप्यहिम्सा च भूतानाम् तमृते का गतिर्मम ॥२-१२-३३॥ मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः । दीनम् लालप्यमानस्य कारुण्यम् कर्तुमर्हसि ॥२-१२-३४॥ पृथिव्याम् सागरान्तायाम् यत्किञ्चैदधिगम्यते । तत्सर्वम् तव दास्यामि मा च त्वाम् मन्युराविशेत् ॥२-१२-३५॥ अञ्जलिम् कुर्मि कैकेयि पादौ चापि स्पृशामि ते । शरणम् भव रामस्य माऽधर्मो मामिह स्पृशेत् ॥२-१२-३६॥ इति दुःखाभिसन्तप्तम् विलपन्तमचेतनम् । घूर्णमानम् महाराजम् शोकेन समभिप्लुतम् ॥२-१२-३७॥ पारम् शोकार्णवस्याशु प्रार्थयन्तम् पुनः पुनः । प्रत्युवाचाथ कैकेयी रौद्रा रौद्रातरम् वचः ॥२-१२-३८॥ यदि दत्वा वरौ राजन् पुनः प्रत्यनुतप्यसे । धार्मिकत्वम् कथम् वीर पृथिव्याम् कथयिष्यसि ॥२-१२-३९॥ यदा समेता बहवस्त्वया राजर्षयस्सह । कथयिष्यन्ति धर्मज्ञ तत्र किम् प्रतिवक्ष्यसि ॥२-१२-४०॥ यस्याः प्रसादे जीवामि या च मामभ्यपालयत् । तस्याः कृतम् मया मिथ्या कैकेय्या इति वक्ष्यसि ॥२-१२-४१॥ किल्बिषम् नरेन्ध्राणाम् करिष्यसि नराधिप । यो दत्त्वा वरमद्यैव पुनरन्यानि भाषसे ॥२-१२-४२॥ शैब्यः श्येनकपोतीये स्वमाम्सं पक्षिते ददौ । अलर्कश्चक्षुषी दत्वा जगाम गतिमुत्तमाम् ॥२-१२-४३॥ सागरः समयम् कृत्वान वेलामतिवर्तते । समयम् माऽनृतम् कार्षीः पुर्ववृत्तमनुस्मरन् ॥२-१२-४४॥ स त्वम् धर्मम् परित्यज्य रामम् राज्येऽभिषिच्यच । सह कौलस्यया नित्यम् रन्तुमिच्छसि दुर्मते ॥२-१२-४५॥ भवत्वधर्मो धर्मो वा सत्यम् वा यदि वानृतम् । यत्त्वया सम्श्रुतम् मह्यम् तस्य नास्ति व्यतिक्रमः ॥२-१२-४६॥ अहम् हि विषमद्यैव पीत्वा बहु तवाग्रतः । पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ॥२-१२-४७॥ एकाहमपि पश्येयम् यद्यहम् राममातरम् । अञ्जलिम् प्रतिगृह्णन्तीम् श्रेयो ननु मृतिर्मम ॥२-१२-४८॥ भरतेनात्मना चाहम् शपे ते मनुजाधिप । यथा नान्येन तुष्येयमृते रामविवासनात् ॥२-१२-४९॥ एतावदुक्त्वा वचनम् कैकेयी विरराम ह । विलपन्तम् च राजानम् न प्रतिव्याजहार सा ॥२-१२-५०॥ श्रुत्वा तु राजा कैकेय्या वृतम् परमशोभनम् । रामस्य च वने वासमैश्वर्यम् भरतस्य च ॥२-१२-५१॥ नाभ्यभाषत कैकेय्यिम् मुहूर्तम् व्याकुलेन्द्रियः । प्रैक्षतानिमिषो देवीम् प्रियामप्रियवादिनीम् ॥२-१२-५२॥ ताम् हि वज्रसमाम् वाचमाकर्ण्य हृदया प्रियाम् । दुःखशोकमयीम् घोराम् राजा न सुखितोऽभवत् ॥२-१२-५३॥ स देव्या व्यवसायम् च घोरम् च शपथम् कृतम् । ध्यात्वा रामेति निश्श्वस्य छिन्नस्तरुरिवापतत् ॥२-१२-५४॥ नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः । हृततेजा यथा सर्पो बभूव जगतीपतिः ॥२-१२-५५॥ दीनया तु गिरा राजा इति होवाच कैकयिम् । अनर्थमिममर्थाभम् केन त्वमुपदर्शिता ॥२-१२-५६॥ भूतोपहतचित्तेव ब्रुवन्ती माम् न लज्जसे । शीलव्यसनमेतत्ते नाभिजानाम्यहम् पुरा । ब३लायास्तत्त्विदानीम् ते लक्षये विपरीतवत् ॥२-१२-५७॥ कुतो वा ते भयम् जातम् या त्वमेवम्विदम् वरम् । राष्ट्रे भरतमासीनम् वृणीषे राघवम् वने ॥२-१२-५८॥ विरमैतेन भावेन त्वमेतेनानृतेन वा ॥२-१२-५९॥ यदि भर्तुः प्रियम् कार्यम् लोकस्य भरतस्य च । वृशम्से पापसम्कल्पे क्षुद्रे दुष्कृतकारिणि ॥२-१२-६०॥ किम् नु कुःखमLईकम् वा मयि रामे च पश्यसि । न कथम्चि दृते रामाद्भरतो राज्यमावसेत् ॥२-१२-६१॥ रामादपि हि तम् मन्ये धर्मतो बलवत्तरम् । कथम् द्रक्ष्यामि रामस्य वनम् गच्छेति भाषिते ॥२-१२-६२॥ मुखवर्णम् विवर्णम् तम् यथैवेन्दुमुपप्लुतम् । ताम् हि मे सुकृताम् बुद्धिम् सुहृद्भिः सह निश्चिताम् ॥२-१२-६३॥ कथम् द्रक्ष्याम्यपावृत्ताम् परैरिव हताम् चमूम् । किम् माम् वक्ष्यन्ति राजानो नानादिग्भ्यः समागताह् ॥२-१२-६४॥ बालो बताय मैक्ष्वाकश्चिरम् राज्यमकारयत् । यदा तु बहवो वृद्धा गुणवन्तो बहुश्रुताह् ॥२-१२-६५॥ परिप्रक्ष्यन्ति काकुत्थ्सम् वक्ष्यामि किम्महाम् तदा । कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ॥२-१२-६६॥ यदि सत्यम् ब्रवीम्येतत्तदसत्यम् भविष्यति । किम् माम् वक्ष्यति कौसल्या राघवे वनमास्थिते ॥२-१२-६७॥ किम् चैनाम् प्रतिवक्ष्यामि कृत्वा चाप्रियमीदृशम् । यदा यदा ही कौसल्या दासीवच्च सखीव च ॥२-१२-६८॥ भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति । सततम् प्रियकामा मे प्रियपुत्रा प्रियम्वदा ॥२-१२-६९॥ न मया सत्कृता देवि सत्कारार्हा कृते तव । इदानीम् तत्तपति माम् यन्मया सुकृतम् त्वयि ॥२-१२-७०॥ अवथ्यव्यञ्जनोनोपेतम् भुक्तमन्नमिवातुरम् । विप्रकारम् च रामस्य सम्प्रयाणम् वनस्य च ॥२-१२-७१॥ सुमित्रा प्रेक्ष्यवै भीता कथम् मे विश्वसिष्यति । कृपणम् बत वैदेही श्रोष्यति द्वयमप्रियम् ॥२-१२-७२॥ माम् च पञ्चत्वमापन्नम् रामम् च वनमाश्रितम् । वैदेही बत मे प्राणान् शोचन्ती क्षपयिष्यति ॥२-१२-७३॥ हीना हिमवतः पार्श्वए किन्नरेणेन किन्नरा । न हि राममहम् दृष्ट्व प्रवसन्तम् महावने ॥२-१२-७४॥ चिरम् जीवितुमाशम्से रुदतीम् चापि मैथिलीम् । सा नूनम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-७५॥ न हि प्रवाजिते रामे देवि जीवितुमुत्सहे । सतीम् त्वामहमत्यन्तम् व्यवस्याम्यसतीम् सतीम् ॥२-१२-७६॥ रूपिणीम् विषसम्युक्ताम् पीत्वेव मदिराम् नरह् । अनृतैर्बहु माम् सान्वैःसा न्त्वयन्ती स्म स्मभाषसे ॥२-१२-७७॥ गीतशब्देन सम्रुध्य लुब्धो मृगमिवावधीः । अनार्य इति मामार्याः पुत्रविक्रायिकम् ध्रुवम् ॥२-१२-७८॥ धिक्करिष्यन्ति रथ्यासु सुरापम् ब्राह्मणम् यथा । अहो दुःखमहो कृच्छ्रम् यत्र वाचः क्षमे तव ॥२-१२-७९॥ दुःखमेवम्विधम् प्राप्तम् पुराकृतमिवाशुभम् । चिरम् खलु मया पापे त्वम् पापेनाभिरक्षिता ॥२-१२-८०॥ अज्ञानादुपसम्पन्ना रज्जुरुद्बम्धिनी यथा । रममाणस्त्वया सार्धम् मृत्युम् त्वा नाभिलक्षये ॥२-१२-८१॥ बालो रहसि हस्तेन कृष्णसर्पमिवास्पृशम् । मया ह्यपितृकः पुत्रःस महात्मा दुरात्मना ॥२-१२-८२॥ यः स्त्रीकृते प्रियम् पुत्रम् वनम् प्रस्थापयिष्यति । व्रतैश्च ब्रह्मचर्यैश्च गुरुभिश्चपकर्शितः ॥२-१२-८३॥ भोगकाले महत्कृच्छ्रम् पुनरेव प्रपत्स्यते । नालम् द्वितीयम् वचनम् पुत्रो माम् प्रति भाषितुम् ॥२-१२-८४॥ स वनम् प्रव्रजेत्युक्तो बाढमित्येव वक्ष्यति । यदि मे राघवः कुर्याद्वनम् गच्चेति चोदितः ॥२-१२-८५॥ प्रतिकूलम् प्रियम् मे स्यान्न तु वत्सः करिष्यति । शुद्धिभावो हि भावम् मे न तु ज्ञास्यति राघवः ॥२-१२-८६॥ स वनम् प्रव्रजे त्युक्तोबाढ वित्येव वक्ष्यति । राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८७॥ मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् । राघवे हि वनम् प्राप्ते सर्वलोकस्य धिक्कृतम् ॥२-१२-८८॥ मृत्युरक्षमणीयम् माम् नयिष्यति यमक्षयम् । मृते मयि गते रामे वनम् मनुजपुङ्गवे ॥२-१२-८९॥ इष्टे मम जने शेषे किम् पापम् प्रतिवत्स्यसे । कौसल्या माम् च रामम् च पुत्रौ च यदि हास्यति ॥२-१२-९०॥ दुःखान्यसहती देवी मामेवानुमरिष्यति । कौसल्याम् च सुमित्राम् च माम् च पुत्रैस्त्रिभिः सह ॥२-१२-९१॥ प्रक्षिव्य नरके सा त्वम् कैकेयि सुखिता भव । मया रामेण च त्यक्तम् शाश्वतम् सत्कृतम् गुणैः ॥२-१२-९२॥ इक्ष्वाकुकुलमक्षोभ्यमाकुलम् पालयिष्यसि । प्रियम् चेद्भरतस्यैतद्रामप्रव्राजनम् भवेत् ॥२-१२-९३॥ मा स्म मे भरतः कार्षीत् प्रेतकृत्यम् गतायुषः । हन्तानार्ये ममामित्रे सकामा भव कैकयि ॥२-१२-९४॥ मृते मयि गते रामे वनम् पुरुषपुङ्गवे । सेदानीम् विधवा राज्यम् सपुत्रा कारयिष्यसि ॥२-१२-९५॥ त्वम् राजपुत्रीवादेन न्यवसो मम वेश्मनि । अकीर्तिश्चातुला लोके ध्रुवः परिभवश्च मे ॥२-१२-९६॥ सर्वभूतेषु चावज्ञा यथा पापकृतस्तथा । कथम् रथैर्विभुर्गत्वा गजाश्वैएश्च मुहूर्महुः ॥२-१२-९७॥ पद्भ्याम् रामो महारण्ये वत्सो मे विचरिष्यति । यस्य त्वाहारसमये सूदाः कुण्डलधारिणः ॥२-१२-९८॥ अहम्पुर्वाः पचन्ति स्म प्रशस्तम् पानभोजनम् । स कथन्नु कषायाणि तिक्तानि कटुकानि च ॥२-१२-९९॥ भक्षयन्वन्यमाहारम् सुतो मे वर्तयिष्यति । महार्हवस्त्रसम्वीतो भूत्वा चिरसुखोषितः ॥२-१२-१००॥ काशायपरिधानस्तु कथम् भूमौ निवत्स्यति । कस्यैतद्धारुणम् वाक्यमेवम् विधमचिन्तितम् ॥२-१२-१०१॥ रामस्यारण्यगवनम् भरतस्यैव मातरम् । धिगस्तु योषितो नाम शठाः स्वार्थपरास्सदा ॥२-१२-१०२॥ न ब्रवीमि स्त्रियः सर्वा भरतस्यैव मातरम् । अनर्थभावेऽ र्थपरे नृशम्से । ममानुतापाय निविष्टभावे । किमप्रियम् पश्यसि मन्निमित्तम् । हितानुकारिण्यथवापि रामे ॥२-१२-१०३॥ परित्यजेयुः पितरो हि पुत्रान् । भार्याः वतीम्श्चापि कृतानुरागाः । कृत्स्नम् हि सर्वम् कुपितम् जगत्स्या । द्दृष्ट्वे रानन् व्तसबे बुनग्बन् ॥२-१२-१०४॥ अहम् पुनर्देवकुमाररूप । मलकृतम् तम् सुतमाव्रजन्तम् । नन्दामि पश्यन्नपि दर्शनेन । भवामि दृष्ट्वा च पुनर्युवेव ॥२-१२-१०५॥ विनापि सूर्येण भवेत्प्रवृत्ति । रवर्ष्ता वज्रधरेण वापि । रामम् तु गच्छन्तमितः समीक्ष्य । जीवेन्न कश्चित्त्विति चेतना मे ॥२-१२-१०६॥ विनाशकामामहिताममित्रा । मावासयम् मृत्युमिवात्मनस्त्वम् । चिरम् बताङ्केन धृतासि सर्पी । महाविष तेन हतोऽस्मि मोहात् ॥२-१२-१०७॥ मया च रामेण सलक्ष्मणेन । प्रशास्तु हीनो भरतस्त्वया सह । पुरम् च राष्ट्रम् च निहत्य बान्धवान् । ममाहितानाम् च भवाभिहर्षिणी ॥२-१२-१०८॥ नृशम्सवृत्ते व्यसनप्रहारिणि । प्रसह्य वाक्यम् यदिहाद्य भाषसे । न नाम ते केन मुखात्पतन्त्यधो । विशीर्यमाणा दशना स्सहस्रधा ॥२-१२-१०९॥ न किम्चिदाहाहितमप्रियम् वचो । न वेत्ति रामः परुशाणि Bहाषितुम् । कथन्नु रामे ह्यभिरामवादिनि । ब्रवीषि दोषान् गुणनित्यसम्मते ॥२-१२-११०॥ प्रताम्य वा प्रज्वल वा प्रणश्य वा । सहस्रशो वा स्फुटिता महीम् व्रज । न ते करिष्यमि वचः सुदारुणम् । ममाहितम् केकयराजपाम्सनि ॥२-१२-१११॥ क्षुरोपमाम् नित्यमसत्प्रियम्वदाम् । प्रदुष्टभावाम् स्वकुलोपघातिनीम् । न जीवितुम् त्वाम् विषहेऽमनोरमाम् । दिधक्षमाणाम् हृदयम् सबन्धनम् ॥२-१२-११२॥ न जीवितम् मेऽस्ति पुनः कुतः सुखम् । विनात्मजेनात्मवतः कुतो रतिः । ममाहितम् देवि न क् कर्तुमर्हसि । स्पृशामि पादावपि ते प्रसीद मे ॥२-१२-११३॥ स भूमिपलो विलपन्ननाथवत् । स्त्रीया गृहीतो हृदयेऽतिमात्रया । पपात देव्याश्चरणौ प्रसारिता । पुभावसम्प्राप्य यथातुरस्तथा ॥२-१२-११४॥ ॥ इति अयोध्यकन्दे द्वदसः सर्गः ॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वादशः सर्गः ॥२-१२॥