रामायणम्/अयोध्याकाण्डम्/सर्गः ९०

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ८९ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ९१ →
रामायणम्/अयोध्याकाण्डम्
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभ: । 
बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभि: ।। २.९०.१ ।। 

पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छद: । 
वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ।। २.९०.२ ।। 

तत: सन्दर्शने तस्य भरद्वाजस्य राघव: । 
मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ।। २.९०.३ ।। 

वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपा: । 
सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ।। २.९०.४ ।। 

वसिष्ठसाहचर्य्यादिति भाव: ।। २.९०.५ ।। 

ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । 
आनुपूर्व्याच्च धर्मज्ञ: पप्रच्छ कुशलं कुले ।। २.९०.६ ।। 

अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । 
जानन् दशरथं वृत्तं न राजानमुदाहरत् ।। २.९०.७ ।। 

वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । 
शरीरे ऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ।। २.९०.८ ।। 

तथेति तत्प्रतिज्ञाय भरद्वाजो महातपा: । 
भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ।। २.९०.९ ।। 

किमिहागमने कार्य्यं तव राज्यं प्रशासत: । 
एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मन: ।। २.९०.१० ।। 

सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । 
भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ।। २.९०.११ ।। 

नियुक्त: स्त्रीनियुक्तेन पित्रा यो ऽसौ महायशा: । 
वनवासी भवेतीह समा: किल चतुर्दश ।। २.९०.१२ ।। 

कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । 
अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ।। २.९०.१३ ।। 

एवमुक्तो भरद्वाजं भरत: प्रत्युवाच ह । 
पर्य्यश्रुनयनो दु:खाद्वाचा संसज्जमानया ।। २.९०.१४ ।। 

हतो ऽस्मि यदि मामेवं भगवानपि मन्यते । 
मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ।। २.९०.१५ ।। 

न चैतदिष्टं माता मे यदवोचन्मदन्तरे । 
नाहमेतेन तुष्टश्च न तद्वचनमाददे ।। २.९०.१६ ।। 

अहं तु तं नरव्याघ्रमुपयात: प्रसादक: । 
प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ।। २.९०.१७ ।। 

त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । 
शंस मे भगवन् राम: क्व सम्प्रति महीपति: ।। २.९०.१८ ।। 

वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्तत: । 
उवाच तं भरद्वाज: प्रसादाद्भरतं वच: ।। २.९०.१९ ।। 

त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । 
गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ।। २.९०.२० ।। 

जाने चैतन्मन:स्थं ते दृढीकरणमस्त्विति । 
अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ।। २.९०.२१ ।। 

जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । 
असौ वसति ते भ्राता चित्रकूटे महागिरौ ।। २.९०.२२ ।। 

श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभि: । 
एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ।। २.९०.२३ ।। 

ततस्तथेत्येवमुदारदर्शन: प्रतीतरूपो भरतो ऽब्रवीद्वच: । 
चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मज: ।। २.९०.२४ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवतितम: सर्ग: ।। ९० ।।
</poem>