रामायणम्/अयोध्याकाण्डम्/सर्गः ३०
< रामायणम् | अयोध्याकाण्डम्
नेविगेशन पर जाएँ
खोज पर जाएँ
← सर्गः २९ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३१ → |
रामायणम्/अयोध्याकाण्डम् |
---|
सान्त्व्यमाना तु रामेण मैथिली जनक आत्मजा । वन वास निमित्ताय भर्तारम् इदम् अब्रवीत् ॥२-३०-१॥ सा तम् उत्तम सम्विग्ना सीता विपुल वक्षसम् । प्रणयाच् च अभिमानाच् च परिचिक्षेप राघवम् ॥२-३०-२॥ किम् त्वा अमन्यत वैदेहः पिता मे मिथिला अधिपः । राम जामातरम् प्राप्य स्त्रियम् पुरुष विग्रहम् ॥२-३०-३॥ अनृतम् बल लोको अयम् अज्ञानात् यद्द् हि वक्ष्यति । तेजो न अस्ति परम् रामे तपति इव दिवा करे ॥२-३०-४॥ किम् हि कृत्वा विषण्णः त्वम् कुतः वा भयम् अस्ति ते । यत् परित्यक्तु कामः त्वम् माम् अनन्य परायणाम् ॥२-३०-५॥ द्युमत्सेन सुतम् वीर सत्यवन्तम् अनुव्रताम् । सावित्रीम् इव माम् विद्धि त्वम् आत्म वश वर्तिनीम् ॥२-३०-६॥ न तु अहम् मनसा अपि अन्यम् द्रष्टा अस्मि त्वद् ऋते अनघ । त्वया राघव गच्चेयम् यथा अन्या कुल पाम्सनी ॥२-३०-७॥ स्वयम् तु भार्याम् कौमारीम् चिरम् अध्युषिताम् सतीम् । शैलूषैव माम् राम परेभ्यो दातुम् इच्चसि ॥२-३०-८॥ यस्य पथ्यम् च रामात्थ यस्य चार्थेऽवरुध्यसे । त्वम् तस्य भव वश्यश्च विधेयश्छ सदानघ॥२-३०-९॥ स माम् अनादाय वनम् न त्वम् प्रस्थातुम् अर्हसि । तपो वा यदि वा अरण्यम् स्वर्गो वा स्यात् सह त्वया ॥२-३०-१०॥ न च मे भविता तत्र कश्चित् पथि परिश्रमः । पृष्ठतः तव गच्चन्त्या विहार शयनेष्व् अपि ॥२-३०-११॥ कुश काश शर इषीका ये च कण्टकिनो द्रुमाः । तूल अजिन सम स्पर्शा मार्गे मम सह त्वया ॥२-३०-१२॥ महा वात समुद्धूतम् यन् माम् अवकरिष्यति । रजो रमण तन् मन्ये पर अर्ध्यम् इव चन्दनम् ॥२-३०-१३॥ शाद्वलेषु यद् आसिष्ये वन अन्ते वन गोरचा । कुथा आस्तरण तल्पेषु किम् स्यात् सुखतरम् ततः ॥२-३०-१४॥ पत्रम् मूलम् फलम् यत् त्वम् अल्पम् वा यदि वा बहु । दास्यसि स्वयम् आहृत्य तन् मे अमृत रस उपमम् ॥२-३०-१५॥ न मातुर् न पितुस् तत्र स्मरिष्यामि न वेश्मनः । आर्तवानि उपभुन्जाना पुष्पाणि च फलानि च ॥२-३०-१६॥ न च तत्र गतः किम्चित् द्रष्टुम् अर्हसि विप्रियम् । मत् कृते न च ते शोको न भविष्यामि दुर्भरा ॥२-३०-१७॥ यः त्वया सह स स्वर्गो निरयो यः त्वया विना । इति जानन् पराम् प्रीतिम् गच्च राम मया सह ॥२-३०-१८॥ अथ माम् एवम् अव्यग्राम् वनम् न एव नयिष्यसि । विषम् अद्य एव पास्यामि मा विशम् द्विषताम् वशम् ॥२-३०-१९॥ पश्चात् अपि हि दुह्खेन मम न एव अस्ति जीवितम् । उज्झितायाः त्वया नाथ तदा एव मरणम् वरम् ॥२-३०-२०॥ इदम् हि सहितुम् शोकम् मुहूर्तम् अपि न उत्सहे । किम् पुनर् दश वर्षाणि त्रीणि च एकम् च दुह्खिता ॥२-३०-२१॥ इति सा शोक सम्तप्ता विलप्य करुणम् बहु । चुक्रोश पतिम् आयस्ता भृशम् आलिन्ग्य सस्वरम् ॥२-३०-२२॥ सा विद्धा बहुभिर् वाक्यैः दिग्धैः इव गज अन्गना । चिर सम्नियतम् बाष्पम् मुमोच अग्निम् इव अरणिः ॥२-३०-२३॥ तस्याः स्फटिक सम्काशम् वारि सम्ताप सम्भवम् । नेत्राभ्याम् परिसुस्राव पन्कजाभ्याम् इव उदकम् ॥२-३०-२४॥ तच्चैवामलचन्ध्रभम् मुखमायतलोचनम् । पर्यशुष्यत बाष्पेण जलोद्धृतमिवामुबुजम् ॥२-३०-२५॥ ताम् परिष्वज्य बाहुभ्याम् विसम्ज्ञाम् इव दुह्खिताम् । उवाच वचनम् रामः परिविश्वासयम्स् तदा ॥२-३०-२६॥ न देवि तव दुह्खेन स्वर्गम् अपि अभिरोचये । न हि मे अस्ति भयम् किम्चित् स्वयम्भोर् इव सर्वतः ॥२-३०-२७॥ तव सर्वम् अभिप्रायम् अविज्ञाय शुभ आनने । वासम् न रोचये अरण्ये शक्तिमान् अपि रक्षणे ॥२-३०-२८॥ यत् सृष्टा असि मया सार्धम् वन वासाय मैथिलि । न विहातुम् मया शक्या कीर्तिर् आत्मवता यथा ॥२-३०-२९॥ धर्मः तु गज नास ऊरु सद्भिर् आचरितः पुरा । तम् च अहम् अनुवर्ते अद्य यथा सूर्यम् सुवर्चला ॥२-३०-३०॥ न खल्वहम् न गच्छेयम् वनम् जनकनन्दिनि । वचनम् त्न्नयति माम् पितुः सत्योपबृंहितम् ॥२-३०-३१॥ एष धर्मः तु सुश्रोणि पितुर् मातुः च वश्यता । अतः च आज्ञाम् व्यतिक्रम्य न अहम् जीवितुम् उत्सहे ॥२-३०-३२॥ अस्वाधीनम् कथम् दैवम् प्रकारैरभिराध्यते । स्वाधीनम् समतिक्रम्य मातरम् पितरम् गुरुम् ॥२-३०-३३॥ यत्त्रयम् तत्त्रयो लोकाः पवित्रम् तत्समम् भुवि । नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते ॥२-३०-३४॥ न सत्यम् दानमानौ वा न यज्ञाश्चाप्तदक्षिणाः । तथा बलकराः सीते यथा सेवा पितुर्मता ॥२-३०-३५॥ स्वर्गो धनम् वा धान्यम् वा विद्याः पुत्राः सुखानि च । गुरुवृत्त्यनुरोधेन न किम्चित्\दपि दुर्लभम् ॥२-३०-३६॥ देवगन्धर्वगोलोकान् ब्रह्मलोकम् तथापरान् । प्राप्नुवन्ति महात्मानो मातापितृपरायणाः ॥२-३०-३७॥ स माम् पिता यथा शास्ति सत्य धर्म पथे स्थितः । तथा वर्तितुम् इच्चामि स हि धर्मः सनातनः ॥२-३०-३८॥ मम सन्ना मतिः सीते त्वाम् नेतुम् दण्डकावनम् । वसिष्यामीति सात्वम् मामनुयातुम् सुनिश्चिता ॥२-३०-३९॥ सा हि दिष्टाऽनवद्याङ्गी वनाय वदिरेक्षणे । अनुगच्चस्व माम् भीरु सह धर्म चरी भव ॥२-३०-४०॥ सर्वथा सदृशम् सीते मम स्वस्य कुलस्य च । व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम् ॥२-३०-४१॥ आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः । नेदानीम् त्वदृते सीते स्वर्गोऽपि मम रोचते ॥२-३०-४२॥ ब्राह्मणेभ्यः च रत्नानि भिक्षुकेभ्यः च भोजनम् । देहि च आशम्समानेभ्यः सम्त्वरस्व च माचिरम् ॥२-३०-४३॥ भूषणानि महार्हाणि वरवस्त्राणि यानि च । रमणीयाश्च ये केचित्क्रीडार्थाश्चापुयुपस्कराः ॥२-३०-४४॥ शयनीयानि यानानि मम चान्यानि यानि च । देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम् ॥२-३०-४५॥ अनुकूलम् तु सा भर्तुर् ज्ञात्वा गमनम् आत्मनः । क्षिप्रम् प्रमुदिता देवी दातुम् एव उपचक्रमे ॥२-३०-४६॥ ततः प्रहृष्टा परिपूर्ण मानसा । यशस्विनी भर्तुर् अवेक्ष्य भाषितम् । धनानि रत्नानि च दातुम् अन्गना । प्रचक्रमे धर्मभृताम् मनस्विनी ॥२-३०-४७॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥स्रोतः[सम्पाद्यताम्]
पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।