रामायणम्/अयोध्याकाण्डम्/सर्गः ४३
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ४२ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ४४ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततः समीक्ष्य शयने सन्नम् शोकेन पार्थिवम् । कौसल्या पुत्र शोक आर्ता तम् उवाच मही पतिम् ॥२-४३-१॥ राघवो नर शार्दूल विषम् उप्त्वा द्विजिह्ववत् । विचरिष्यति कैकेयी निर्मुक्ता इव हि पन्नगी ॥२-४३-२॥ विवास्य रामम् सुभगा लब्ध कामा समाहिता । त्रासयिष्यति माम् भूयो दुष्ट अहिर् इव वेश्मनि ॥२-४३-३॥ अथ स्म नगरे रामः चरन् भैक्षम् गृहे वसेत् । काम कारः वरम् दातुम् अपि दासम् मम आत्मजम् ॥२-४३-४॥ पातयित्वा तु कैकेय्या रामम् स्थानात् यथा इष्टतः । प्रदिष्टः रक्षसाम् भागः पर्वणि इव आहित अग्निना ॥२-४३-५॥ गज राज गतिर् वीरः महा बाहुर् धनुर् धरः । वनम् आविशते नूनम् सभार्यः सह लक्ष्मणः ॥२-४३-६॥ वने तु अदृष्ट दुह्खानाम् कैकेय्या अनुमते त्वया । त्यक्तानाम् वन वासाय का न्व् अवस्था भविष्यति ॥२-४३-७॥ ते रत्न हीनाः तरुणाः फल काले विवासिताः । कथम् वत्स्यन्ति कृपणाः फल मूलैः कृत अशनाः ॥२-४३-८॥ अपि इदानीम् स कालः स्यान् मम शोक क्षयः शिवः । सभार्यम् यत् सह भ्रात्रा पश्येयम् इह राघवम् ॥२-४३-९॥ श्रुत्वा एव उपस्थितौ वीरौ कदा अयोध्या भविष्यति । यशस्विनी हृष्ट जना सूच्च्रित ध्वज मालिनी ॥२-४३-१०॥ कदा प्रेक्ष्य नर व्याघ्राव् अरण्यात् पुनर् आगतौ । नन्दिष्यति पुरी हृष्टा समुद्रैव पर्वणि ॥२-४३-११॥ कदा अयोध्याम् महा बाहुः पुरीम् वीरः प्रवेक्ष्यति । पुरः कृत्य रथे सीताम् वृषभो गो वधूम् इव ॥२-४३-१२॥ कदा प्राणि सहस्राणि राज मार्गे मम आत्मजौ । लाजैः अवकरिष्यन्ति प्रविशन्ताव् अरिम् दमौ ॥२-४३-१३॥ प्रविशनौ कदाऽपियोध्याम् द्रक्ष्यामि शुभकुण्डता । उदग्रायुधनिस्त्रीम्शौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥ कदा सुमनसः कन्या द्विजातीनाम् फलानि च । प्रदिशन्त्यः पुरीम् हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥ कदा परिणतः बुद्ध्या वयसा च अमर प्रभः । अभ्युपैष्यति धर्मज्ञः त्रिवर्षैव माम् ललन् ॥२-४३-१६॥ निह्सम्शयम् मया मन्ये पुरा वीर कदर्यया । पातु कामेषु वत्सेषु मातृऋणाम् शातिताः स्तनाः ॥२-४३-१७॥ सा अहम् गौर् इव सिम्हेन विवत्सा वत्सला कृता । कैकेय्या पुरुष व्याघ्र बाल वत्सा इव गौर् बलात् ॥२-४३-१८॥ न हि तावद् गुणैः जुष्टम् सर्व शास्त्र विशारदम् । एक पुत्रा विना पुत्रम् अहम् जीवितुम् उत्सहे ॥२-४३-१९॥ न हि मे जीविते किम्चित् सामर्थम् इह कल्प्यते । अपश्यन्त्याः प्रियम् पुत्रम् महा बाहुम् महा बलम् ॥२-४३-२०॥ अयम् हि माम् दीपयते समुत्थितः । तनूज शोक प्रभवो हुत अशनः । महीम् इमाम् रश्मिभिर् उत्तम प्रभो । यथा निदाघे भगवान् दिवा करः ॥२-४३-२१॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे त्रिचत्वारिंशः सर्गः ॥२-४३॥