सामग्री पर जाएँ

रामायणम्/अयोध्याकाण्डम्/सर्गः १०२

विकिस्रोतः तः
← सर्गः १०१ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०३ →
द्व्यधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । 
राघवो भरतेनोक्तां बभूव गतचेतन: ।। २.१०२.१ ।। 

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । 
वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तप: ।। २.१०२.२ ।। 

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुम: । 
वने परशुना कृत्तस्तथा भुवि पपात ह ।। २.१०२.३ ।। 

तथा निपतितं रामं जगत्यां जगतीपतिम् । 
कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।। २.१०२.४ ।। 

भ्रातरस्ते महेष्वासं सर्वत: शोककर्शितम् । 
रुदन्त: सह वैदेह्या सिषिचु: सलिलेन वै ।। २.१०२.५ ।। 

स तु संज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । 
उपाक्रामत काकुत्स्थ: कृपणं बहु भाषितुम् ।। २.१०२.६ ।। 

स राम: स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । 
उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।। २.१०२.७ ।। 

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । 
कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।। २.१०२.८ ।। 

किं नु तस्य मया कार्य्यं दुर्जातेन महात्मन: । 
यो मृतो मम शोकेन मया चापि न संस्कृत: ।। २.१०२.९ ।। 

अहो भरत सिद्धार्थो येन राजा त्वया ऽनघ । 
शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृत: ।। २.१०२.१० ।। 

निष्प्रधानामनेकाग्रां नरेन्द्रेण विना कृताम् । 
निवृत्तवनवासोपि नायोध्यां गन्तुमुत्सहे ।। २.१०२.११ ।। 

समाप्तवनवासं मामयोध्यायां परन्तप । 
को नु शासिष्यति पुनस्ताते लोकान्तरं गते ।। २.१०२.१२ ।। 

पुरा प्रेक्ष्य सुवृत्तं मां पिता यान्याह सान्त्वयन् । 
वाक्यानि तानि श्रोष्यामि कुत: कर्णसुखान्यहम् ।। २.१०२.१३ ।। 

एवमुक्त्वा स भरतं भार्यामभ्येत्य राघव: । 
उवाच शोकसन्तप्त: पूर्णचन्द्रनिभाननाम् ।। २.१०२.१४ ।। 

सीते मृतस्ते श्वशुर: पित्रा हीनो ऽसि लक्ष्मण । 
भरतो दु:खमाचष्टे स्वर्गतं पृथिवीपतिम् ।। २.१०२.१५ ।। 

ततो बहुगुणं तेषां बाष्पं नेत्रेष्वजायत । 
तथा ब्रुवति काकुत्स्थे कुमाराणां यशस्विनाम् ।। २.१०२.१६ ।। 

ततस्ते भ्रातर: सर्वे भृशमाश्वास्य राघवम् । 
अब्रुवन् जगतीभर्त्तु: क्रियतामुदकं पितु: ।। २.१०२.१७ ।। 

सा सीता श्वशुरं श्रुत्वा स्वर्गलोकगतं नृपम् । 
नेत्राभ्यामश्रुपूर्णाभ्यामशकन्नेक्षितुं पतिम् ।। २.१०२.१८ ।। 

सान्त्वयित्वा तु तां रामो रुदन्तीं जनकात्मजाम् । 
उवाच लक्ष्मणं तत्र दु:खितो दु:खितं वच: ।। २.१०२.१९ ।। 

आनयेङ्गुदिपिण्याकं चीरमाहर चोत्तरम् । 
जलक्रियार्थं तातस्य गमिष्यामि महात्मन: ।। २.१०२.२० ।। 

सीता पुरस्ताद्व्रजतुत्वमेनामभितो व्रज । 
अहं पश्चाद्गमिष्यामि गतिर्ह्येषा सुदारुणा ।। २.१०२.२१ ।। 

ततो नित्यानुगस्तेषां विदितात्मा महामति: । 
मृदुर्दान्तश्च शान्तश्च रामे च दृढभक्तिमान् ।। २.१०२.२२ ।। 

सुमन्त्रस्तैर्नृपसुतै: सार्द्धमाश्वास्य राघवम् । 
अवातारयदालम्ब्य नदीं मन्दाकिनीं शिवाम् ।। २.१०२.२३ ।। 

ते सुतीर्थां तत: कृच्छ्रादुपागम्य यशस्विन: । 
नदीं मन्दाकिनीं रम्यां सदा पुष्पितकाननाम् ।। २.१०२.२४ ।। 

शीघ्रस्रोतसमासाद्य तीर्थं शिवमकर्द्दमम् । 
सिषिचुस्तूदकं राज्ञे तत्रैतत्ते भवत्विति ।। २.१०२.२५ ।। 

प्रगृह्य च महीपालो जलपूरितमञ्जलिम् । 
दिशं याम्यामभिमुखो रुदन् वचनमब्रवीत् ।। २.१०२.२६ ।। 

एतत्ते राजशार्दूल विमलं तोयमक्षयम् । 
पितृलोकगतस्याद्य मद्दत्तमुपतिष्ठतु ।। २.१०२.२७ ।। 

ततो मन्दाकिनीतीरात् प्रत्युत्तीर्य्य स राघव: । 
पितुश्चकार तेजस्वी निवापं भ्रातृभि: सह ।। २.१०२.२८ ।। 

ऐङ्गुदं बदरीमिश्रं पिण्याकं दर्भसंस्तरे । 
न्यस्य राम: सुदु:खार्त्तो रुदन् वचनमब्रवीत् ।। २.१०२.२९ ।। 

इदं भुङ्क्ष्व महाराज प्रीतो यदशना वयम् । 
यदन्न: पुरुषो भवति तदन्नास्तस्य देवता: ।। २.१०२.३० ।। 

ततस्तेनैव मार्गेण प्रत्युत्तीर्य्य नदीतटात् । 
आरुरोह नरव्याघ्रो रम्यसानुं महीधरम् ।। २.१०२.३१ ।। 

तत: पर्णकुटीद्वारमासाद्य जगतीपति: । 
परिजग्राह बाहुभ्यामुभौ भरतलक्ष्मणौ ।। २.१०२.३२ ।। 

तेषां तु रुदतां शब्दात् प्रतिश्रुत्को ऽभवद्गिरौ । 
भ्रातऽणां सह वैदेह्या: सिंहानामिव नर्दताम् ।। २.१०२.३३ ।। 

महाबलानां रुदतां कुर्वतामुदकं पितु: । 
विज्ञाय तुमुलं शब्दं त्रस्ता भरतसैनिका: ।। २.१०२.३४ ।। 

अब्रुवंश्चापि रामेण भरत: सङ्गतो ध्रुवम् । 
तेषामेव महाञ्छब्द: शोचतां पितरं मृतम् ।। २.१०२.३५ ।। 

अथ वासान् परित्यज्य तं सर्वे ऽभिमुखा: स्वनम् । 
अप्येकमनसो जग्मुर्यथास्थानं प्रधाविता: ।। २.१०२.३६ ।। 

हयैरन्ये गजैरन्ये रथैरन्ये स्वलङ्कृतै: । 
सुकुमारास्तथैवान्ये पद्भिरेव नरा ययु: ।। २.१०२.३७ ।। 

अचिरप्रोषितं रामं चिरविप्रोषितं यथा । 
द्रष्टुकामो जन: सर्वो जगाम सहसाश्रमम् ।। २.१०२.३८ ।। 

भ्रातऽणां त्वरितास्तत्र द्रष्टुकामा: समागमम् । 
ययुर्बहुविधैर्यानै: खुरनेमिस्वनाकुलै: ।। २.१०२.३९ ।। 

सा भूमिर्बहुभिर्यानै: खुरनेमिसमाहता । 
मुमोच तुमुलं शब्दं द्यौरिवाभ्रसमागमे ।। २.१०२.४० ।। 

तेन वित्रासिता नागा: करेणुपरिवारिता: । 
आवासयन्तो गन्धेन जग्मुरन्यद्वनं तत: ।। २.१०२.४१ ।। 

वराहवृकसङ्घाश्च महिषा: सर्प्पवानरा: । 
व्याघ्रगोकर्णगवया: वित्रेसु: पृषतैः सह ।। २.१०२.४२ ।। 

रथाङ्गसाह्वा नत्यूहा: हंसा: कारण्डवा: प्लवा: । 
तथा पुंस्कोकिला: क्रौञ्चा विसंज्ञा भेजिरे दिश: ।। २.१०२.४३ ।। 

तेन शब्देन वित्रस्तैराकाशं पक्षिभिर्वृतम् । 
मनुष्यैरावृता भूमिरुभयं प्रबभौ तदा ।। २.१०२.४४ ।। 

ततस्तं पुरुषव्याघ्रं यशस्विनमरिन्दमम् । 
आसीनं स्थण्डिले रामं ददर्श सहसा जन: ।। २.१०२.४५ ।। 

विगर्हमाण: कैकेयीं सहितो मन्थरामपि । 
अभिगम्य जनो रामं बाष्पपूर्णमुखो ऽभवत् ।। २.१०२.४६ ।। 

तान्नरान् बाष्पपूर्णाक्षान् समीक्ष्याथ सुदु:खितान् । 
पर्य्यष्वजत धर्मज्ञ: पितृवन्मातृवच्च स: ।। २.१०२.४७ ।। 

स तत्र कांच्चित् परिषस्वजे नरान्नराश्च केचित्तु तमभ्यवादयन् । 
चकार सर्वान् सवयस्य बान्धवान् यथार्हमासाद्य तदा नृपात्मज: ।। २.१०२.४८ ।। 

स तत्र तेषां रुदतां महात्मनां भुवं च खं चानुनिनादयन् स्वन: । 
गुहा गिरीणां च दिशश्च सन्ततं मृदङ्गघोषप्रतिम: प्रशुश्रुवे ।। २.१०२.४९ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे द्व्युत्तरशततम:सर्ग: ।। १०२ ।।


पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र

</poem>