रामायणम्/अयोध्याकाण्डम्/सर्गः ५२
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ५१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ५३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥ प्रभातायाम् तु शर्वर्याम् पृथु वृक्षा महा यशाः । उवाच रामः सौमित्रिम् लक्ष्मणम् शुभ लक्षणम् ॥२-५२-१॥ भास्कर उदय कालो अयम् गता भगवती निशा । असौ सुकृष्णो विहगः कोकिलः तात कूजति ॥२-५२-२॥ बर्हिणानाम् च निर्घोषः श्रूयते नदताम् वने । तराम जाह्नवीम् सौम्य शीघ्रगाम् सागरम् गमाम् ॥२-५२-३॥ विज्ञाय रामस्य वचः सौमित्रिर् मित्र नन्दनः । गुहम् आमन्त्र्य सूतम् च सो अतिष्ठद् भ्रातुर् अग्रतः ॥२-५२-४॥ स तु रामस्य वचनम् निशम्य प्रतिगृह्य च । स्थपतिस्तूर्णमाहुय सचिवानिदमब्रवीत् ॥२-५२-५॥ अस्य वाहनसम्युक्ताम् कर्णग्राहवतीम् शुभाम् । सुप्रताराम् दृढाम् तीर्खे शीग्रम् नावमुपाहर ॥२-५२-६॥ तम् निशम्य समादेशम् गुहामात्यगणो महान् । उपोह्य रुचिराम् नावम् गुहाय प्रत्यवेदयत् ॥२-५२-७॥ ततः सप्राञ्जलिर्भूत्वा गुहो राघवमब्रवीत् । उपस्थितेयम् नौर्देव भूयः किम् करवाणि ते ॥२-५२-८॥ तवामरसुतप्रख्य तर्तुम् सागरगाम् नदीम् । नौरियम् पुरुषव्याग्र! ताम् त्वमारोह सुव्रत! ॥२-५२-९॥ अथोवाच महातेजा रामो गुहमिदम् वचः । कृतकामोऽस्मि भवता शीघ्रमारोप्यतामिति ॥२-५२-१०॥ ततः कलापान् सम्नह्य खड्गौ बद्ध्वा च धन्विनौ । जग्मतुर् येन तौ गन्गाम् सीतया सह राघवौ ॥२-५२-११॥ रामम् एव तु धर्मज्ञम् उपगम्य विनीतवत् । किम् अहम् करवाणि इति सूतः प्रान्जलिर् अब्रवीत् ॥२-५२-१२॥ ततोऽब्रवीद्दाशरथिः सुमन्त्रम् । स्पृशन् करेणोत्तमदक्षिणेन । सुमन्त्र शीघ्रम् पुनरेव याहि । राज्ञः सकाशे भवचाप्रमत्तः ॥२-५२-१३॥ निवर्तस्व इति उवाच एनम् एतावद्द् हि कृतम् मम । रथम् विहाय पद्भ्याम् तु गमिष्यामि महावनम् ॥२-५२-१४॥ आत्मानम् तु अभ्यनुज्ञातम् अवेक्ष्य आर्तः स सारथिः । सुमन्त्रः पुरुष व्याघ्रम् ऐक्ष्वाकम् इदम् अब्रवीत् ॥२-५२-१५॥ न अतिक्रान्तम् इदम् लोके पुरुषेण इह केनचित् । तव सभ्रातृ भार्यस्य वासः प्राकृतवद् वने ॥२-५२-१६॥ न मन्ये ब्रह्म चर्ये अस्ति स्वधीते वा फल उदयः । मार्दव आर्जवयोः वा अपि त्वाम् चेद् व्यसनम् आगतम् ॥२-५२-१७॥ सह राघव वैदेह्या भ्रात्रा चैव वने वसन् । त्वम् गतिम् प्राप्स्यसे वीर त्रीम्ल् लोकाम्स् तु जयन्न् इव ॥२-५२-१८॥ वयम् खलु हता राम ये तया अपि उपवन्चिताः । कैकेय्या वशम् एष्यामः पापाया दुह्ख भागिनः ॥२-५२-१९॥ इति ब्रुवन्न् आत्म समम् सुमन्त्रः सारथिस् तदा । दृष्ट्वा दुर गतम् रामम् दुह्ख आर्तः रुरुदे चिरम् ॥२-५२-२०॥ ततः तु विगते बाष्पे सूतम् स्पृष्ट उदकम् शुचिम् । रामः तु मधुरम् वाक्यम् पुनः पुनर् उवाच तम् ॥२-५२-२१॥ इक्ष्वाकूणाम् त्वया तुल्यम् सुहृदम् न उपलक्षये । यथा दशरथो राजा माम् न शोचेत् तथा कुरु ॥२-५२-२२॥ शोक उपहत चेताः च वृद्धः च जगती पतिः । काम भार अवसन्नः च तस्मात् एतत् ब्रवीमि ते ॥२-५२-२३॥ यद् यद् आज्ञापयेत् किम्चित् स महात्मा मही पतिः । कैकेय्याः प्रिय काम अर्थम् कार्यम् तत् अविकान्क्षया ॥२-५२-२४॥ एतत् अर्थम् हि राज्यानि प्रशासति नर ईश्वराः । यद् एषाम् सर्व कृत्येषु मनो न प्रतिहन्यते ॥२-५२-२५॥ यद्यथा स महा राजो न अलीकम् अधिगच्चति । न च ताम्यति दुह्खेन सुमन्त्र कुरु तत् तथा ॥२-५२-२६॥ अदृष्ट दुह्खम् राजानम् वृद्धम् आर्यम् जित इन्द्रियम् । ब्रूयाः त्वम् अभिवाद्य एव मम हेतोर् इदम् वचः ॥२-५२-२७॥ न एव अहम् अनुशोचामि लक्ष्मणो न च मैथिली । अयोध्यायाः च्युताः च इति वने वत्स्यामह इति वा (महेति!)॥२-५२-२८॥ चतुर् दशसु वर्षेषु निवृत्तेषु पुनः पुनः । लक्ष्मणम् माम् च सीताम् च द्रक्ष्यसि क्षिप्रम् आगतान् ॥२-५२-२९॥ एवम् उक्त्वा तु राजानम् मातरम् च सुमन्त्र मे । अन्याः च देवीः सहिताः कैकेयीम् च पुनः पुनः ॥२-५२-३०॥ आरोग्यम् ब्रूहि कौसल्याम् अथ पाद अभिवन्दनम् । सीताया मम च आर्यस्य वचनाल् लक्ष्मणस्य च ॥२-५२-३१॥ ब्रूयाः च हि महा राजम् भरतम् क्षिप्रम् आनय । आगतः च अपि भरतः स्थाप्यो नृप मते पदे ॥२-५२-३२॥ भरतम् च परिष्वज्य यौवराज्ये अभिषिच्य च । अस्मत् सम्तापजम् दुह्खम् न त्वाम् अभिभविष्यति ॥२-५२-३३॥ भरतः च अपि वक्तव्यो यथा राजनि वर्तसे । तथा मातृषु वर्तेथाः सर्वास्व् एव अविशेषतः ॥२-५२-३४॥ यथा च तव कैकेयी सुमित्रा च अविशेषतः । तथैव देवी कौसल्या मम माता विशेषतः ॥२-५२-३५॥ तातस्य प्रियकामेन यौवराज्यमपेक्षता । लोकयोरुभयोः शक्यम् त्वया यत्सुखमेधितुम् ॥२-५२-३६॥ निवर्त्यमानो रामेण सुमन्त्रः शोक कर्शितः । तत् सर्वम् वचनम् श्रुत्वा स्नेहात् काकुत्स्थम् अब्रवीत् ॥२-५२-३७॥ यद् अहम् न उपचारेण ब्रूयाम् स्नेहात् अविक्लवः । भक्तिमान् इति तत् तावद् वाक्यम् त्वम् क्षन्तुम् अर्हसि ॥२-५२-३८॥ कथम् हि त्वद् विहीनो अहम् प्रतियास्यामि ताम् पुरीम् । तव तात वियोगेन पुत्र शोक आकुलाम् इव ॥२-५२-३९॥ सरामम् अपि तावन् मे रथम् दृष्ट्वा तदा जनः । विना रामम् रथम् दृष्ट्वा विदीर्येत अपि सा पुरी ॥२-५२-४०॥ दैन्यम् हि नगरी गच्चेद् दृष्ट्वा शून्यम् इमम् रथम् । सूत अवशेषम् स्वम् सैन्यम् हत वीरम् इव आहवे ॥२-५२-४१॥ दूरे अपि निवसन्तम् त्वाम् मानसेन अग्रतः स्थितम् । चिन्तयन्त्यो अद्य नूनम् त्वाम् निराहाराः कृताः प्रजाः ॥२-५२-४२॥ दृष्टं तद्धि त्वया राम! यादृशम् त्वत्प्रवासने । प्रजानाम् सम्कुलम् वृत्तम् त्वच्छोकक्लान्तचेतसाम् ॥२-५२-४३॥ आर्त नादो हि यः पौरैः मुक्तः तत् विप्रवासने । रथस्थम् माम् निशाम्य एव कुर्युः शत गुणम् ततः ॥२-५२-४४॥ अहम् किम् च अपि वक्ष्यामि देवीम् तव सुतः मया । नीतः असौ मातुल कुलम् सम्तापम् मा कृथाइति ॥२-५२-४५॥ असत्यम् अपि न एव अहम् ब्रूयाम् वचनम् ईदृशम् । कथम् अप्रियम् एव अहम् ब्रूयाम् सत्यम् इदम् वचः ॥२-५२-४६॥ मम तावन् नियोगस्थाः त्वद् बन्धु जन वाहिनः । कथम् रथम् त्वया हीनम् प्रवक्ष्यन्ति हय उत्तमाः ॥२-५२-४७॥ तन्न शक्ष्याम्यहम् गन्तुमयोध्याम् त्वदृतेऽनघ । वनवासानुयानाय मामनुज्ञातुमर्हसि ॥२-५२-४८॥ यदि मे याचमानस्य त्यागम् एव करिष्यसि । सरथो अग्निम् प्रवेक्ष्यामि त्यक्त मात्रैह त्वया ॥२-५२-४९॥ भविष्यन्ति वने यानि तपो विघ्न कराणि ते । रथेन प्रतिबाधिष्ये तानि सत्त्वानि राघव ॥२-५२-५०॥ तत् कृतेन मया प्राप्तम् रथ चर्या कृतम् सुखम् । आशम्से त्वत् कृतेन अहम् वन वास कृतम् सुखम् ॥२-५२-५१॥ प्रसीद इच्चामि ते अरण्ये भवितुम् प्रत्यनन्तरः । प्रीत्या अभिहितम् इच्चामि भव मे पत्यनन्तरः ॥२-५२-५२॥ इमे चापि हया वीर यदि ते वनवासिनः । परिचर्याम् करिष्यन्ति प्राप्स्यन्ति परमाम् गतिम् ॥२-५२-५३॥ तव शुश्रूषणम् मूर्ध्ना करिष्यामि वने वसन् । अयोध्याम् देव लोकम् वा सर्वथा प्रजहाम्य् अहम् ॥२-५२-५४॥ न हि शक्या प्रवेष्टुम् सा मया अयोध्या त्वया विना । राज धानी महा इन्द्रस्य यथा दुष्कृत कर्मणा ॥२-५२-५५॥ वन वासे क्षयम् प्राप्ते मम एष हि मनो रथः । यद् अनेन रथेन एव त्वाम् वहेयम् पुरीम् पुनः ॥२-५२-५६॥ चतुर् दश हि वर्षाणि सहितस्य त्वया वने । क्षण भूतानि यास्यन्ति शतशः तु ततः अन्यथा ॥२-५२-५७॥ भृत्य वत्सल तिष्ठन्तम् भर्तृ पुत्र गते पथि । भक्तम् भृत्यम् स्थितम् स्थित्याम् त्वम् न माम् हातुम् अर्हसि ॥२-५२-५८॥ एवम् बहु विधम् दीनम् याचमानम् पुनः पुनः । रामः भृत्य अनुकम्पी तु सुमन्त्रम् इदम् अब्रवीत् ॥२-५२-५९॥ जानामि परमाम् भक्तिम् मयि ते भर्तृ वत्सल । शृणु च अपि यद् अर्थम् त्वाम् प्रेषयामि पुरीम् इतः ॥२-५२-६०॥ नगरीम् त्वाम् गतम् दृष्ट्वा जननी मे यवीयसी । कैकेयी प्रत्ययम् गच्चेद् इति रामः वनम् गतः ॥२-५२-६१॥ परितुष्टा हि सा देवि वन वासम् गते मयि । राजानम् न अतिशन्केत मिथ्या वादी इति धार्मिकम् ॥२-५२-६२॥ एष मे प्रथमः कल्पो यद् अम्बा मे यवीयसी । भरत आरक्षितम् स्फीतम् पुत्र राज्यम् अवाप्नुयात् ॥२-५२-६३॥ मम प्रिय अर्थम् राज्ञः च सरथः त्वम् पुरीम् व्रज । सम्दिष्टः च असि या अनर्थाम्स् ताम्स् तान् ब्रूयाः तथा तथा ॥२-५२-६४॥ इति उक्त्वा वचनम् सूतम् सान्त्वयित्वा पुनः पुनः । गुहम् वचनम् अक्लीबम् रामः हेतुमद् अब्रवीत् ॥२-५२-६५॥ नेदानीम् गुह योग्योऽयम् वसो मे सजने वने । अवश्यम् ह्याश्रमे वासह् कर्तव्यस्तद्गतो विधिः ॥२-५२-६६॥ सोऽहम् गृहीत्वा नियमम् तपस्विजनभूषणम् । हितकामः पितुर्भूयः सीताया लक्ष्मणस्य च ॥२-५२-६७॥ जटाः कृत्वा गमिष्यामि न्यग्रोध क्षीरम् आनय । तत् क्षीरम् राज पुत्राय गुहः क्षिप्रम् उपाहरत् ॥२-५२-६८॥ लक्ष्मणस्य आत्मनः चैव रामः तेन अकरोज् जटाः । दीर्घबाहुर्नरव्याघ्रो जटिलत्व मधारयत् ॥२-५२-६९॥ तौ तदा चीर वसनौ जटा मण्डल धारिणौ । अशोभेताम् ऋषि समौ भ्रातरौ राम रक्ष्मणौ ॥२-५२-७०॥ ततः वैखानसम् मार्गम् आस्थितः सह लक्ष्मणः । व्रतम् आदिष्टवान् रामः सहायम् गुहम् अब्रवीत् ॥२-५२-७१॥ अप्रमत्तः बले कोशे दुर्गे जन पदे तथा । भवेथा गुह राज्यम् हि दुरारक्षतमम् मतम् ॥२-५२-७२॥ ततः तम् समनुज्ञाय गुहम् इक्ष्वाकु नन्दनः । जगाम तूर्णम् अव्यग्रः सभार्यः सह लक्ष्मणः ॥२-५२-७३॥ स तु दृष्ट्वा नदी तीरे नावम् इक्ष्वाकु नन्दनः । तितीर्षुः शीघ्रगाम् गन्गाम् इदम् लक्ष्मणम् अब्रवीत् ॥२-५२-७४॥ आरोह त्वम् नर व्याघ्र स्थिताम् नावम् इमाम् शनैः । सीताम् च आरोपय अन्वक्षम् परिगृह्य मनस्विनीम् ॥२-५२-७५॥ स भ्रातुः शासनम् श्रुत्वा सर्वम् अप्रतिकूलयन् । आरोप्य मैथिलीम् पूर्वम् आरुरोह आत्मवाम्स् ततः ॥२-५२-७६॥ अथ आरुरोह तेजस्वी स्वयम् लक्ष्मण पूर्वजः । ततः निषाद अधिपतिर् गुहो ज्ञातीन् अचोदयत् ॥२-५२-७७॥ राघवोऽपि महातेजा नावमारुह्य ताम् ततः । ब्रह्मवत् क्षत्रवच्चैव जजाप हितमात्मनः ॥२-५२-७८॥ आचम्य च यथाशास्त्रम् नदीम् ताम् सह सीतया । प्राणमत्प्रीतिसम्हृष्टो लक्ष्मणश्चामितप्रभः ॥२-५२-७९॥ अनुज्ञाय सुमन्त्रम् च सबलम् चैव तम् गुहम् । आस्थाय नावम् रामः तु चोदयाम् आस नाविकान् ॥२-५२-८०॥ ततः तैः चोदिता सा नौः कर्ण धार समाहिता । शुभ स्फ्य वेग अभिहता शीघ्रम् सलिलम् अत्यगात् ॥२-५२-८१॥ मध्यम् तु समनुप्राप्य भागीरथ्याः तु अनिन्दिता । वैदेही प्रान्जलिर् भूत्वा ताम् नदीम् इदम् अब्रवीत् ॥२-५२-८२॥ पुत्रः दशरथस्य अयम् महा राजस्य धीमतः । निदेशम् पालयतु एनम् गन्गे त्वद् अभिरक्षितः ॥२-५२-८३॥ चतुर् दश हि वर्षाणि समग्राणि उष्य कानने । भ्रात्रा सह मया चैव पुनः प्रत्यागमिष्यति ॥२-५२-८४॥ ततः त्वाम् देवि सुभगे क्षेमेण पुनर् आगता । यक्ष्ये प्रमुदिता गन्गे सर्व काम समृद्धये ॥२-५२-८५॥ त्वम् हि त्रिपथगा देवि ब्रह्म लोकम् समीक्षसे । भार्या च उदधि राजस्य लोके अस्मिन् सम्प्रदृश्यसे ॥२-५२-८६॥ सा त्वाम् देवि नमस्यामि प्रशम्सामि च शोभने । प्राप्त राज्ये नर व्याघ्र शिवेन पुनर् आगते ॥२-५२-८७॥ गवाम् शत सहस्राणि वस्त्राणि अन्नम् च पेशलम् । ब्राह्मणेभ्यः प्रदास्यामि तव प्रिय चिकीर्षया ॥२-५२-८८॥ सुराघटसहस्रेण माम्सभूतोदनेन च । यक्ष्ये त्वाम् प्रयता देवि पुरीम् पुनरुपागता ॥२-५२-८९॥ यानि त्वत्तीरवासीनि दैवतानि च सन्ति हि । तानि सर्वाणि यक्ष्यामि तीर्थान्यायतनानि च ॥२-५२-९०॥ पुनरेव महाबाउर्मया भ्रात्रा च सम्गतः । अयोध्याम् वनवासात्तु प्रविशत्वनघोऽनघे ॥२-५२-९१॥ तथा सम्भाषमाणा सा सीता गन्गाम् अनिन्दिता । दक्षिणा दक्षिणम् तीरम् क्षिप्रम् एव अभ्युपागमत् ॥२-५२-९२॥ तीरम् तु समनुप्राप्य नावम् हित्वा नर ऋषभः । प्रातिष्ठत सह भ्रात्रा वैदेह्या च परम् तपः ॥२-५२-९३॥ अथ अब्रवीन् महा बाहुः सुमित्र आनन्द वर्धनम् । भव सम्रक्षणार्थाय सजने विजनेऽपि वा ॥२-५२-९४॥ अवश्यम् रक्षणम् कार्यमदृष्टे विजने वने । अग्रतः गच्च सौमित्रे सीता त्वाम् अनुगच्चतु ॥२-५२-९५॥ पृष्ठतः अहम् गमिष्यामि त्वाम् च सीताम् च पालयन् । अद्य दुह्खम् तु वैदेही वन वासस्य वेत्स्यति ॥२-५२-९६॥ न हि तावदतिक्रान्ता सुकरा काचन क्रिया । अद्य दुःखम् तु वैदेही वनवासस्य वेत्स्यति ॥२-५२-९७॥ प्रणष्टजनसम्बाधम् क्षेत्रारामविवर्बितम् । विषमम् च प्रपातम् च वनमद्य प्रवेक्ष्यति ॥२-५२-९८॥ श्रुत्वा रामस्य वचनम् प्रतिस्थे लक्ष्मण्Oऽग्रतः । अनन्तरम् च सीताया राघवो रघनन्धनः ॥२-५२-९९॥ गतम् तु गन्गा पर पारम् आशु । रामम् सुमन्त्रः प्रततम् निरीक्ष्य । अध्व प्रकर्षात् विनिवृत्त दृष्टिर् । र्मुमोच बाष्पम् व्यथितः तपस्वी ॥२-५२-१००॥ स लोकपालप्रतिमप्रभाववाम् । स्तीर्त्वा महात्मा वरदो महानदीम् । ततः समृद्धान् शुभसस्यमालिनः । क्रमेण वत्सान् मुदितानुपागमत् ॥२-५२-१०१॥ तौ तत्र हत्वा चतुरः महा मृगान् । वराहम् ऋश्यम् पृषतम् महा रुरुम् । आदाय मेध्यम् त्वरितम् बुभुक्षितौ। वासाय काले ययतुर् वनः पतिम् ॥२-५२-१०२॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्विपञ्चाशः सर्गः ॥२-५२॥ =