रामायणम्/अयोध्याकाण्डम्/सर्गः ११९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
रामायणम्/अयोध्याकाण्डम्
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । 
पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। २.११९.१ ।। 

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । 
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । 
रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। २.११९.२ ।। 

रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । 
दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । 
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। २.११९.३ ।। 

एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: । 
सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। २.११९.४ ।। 

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । 
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। २.११९.५ ।। 

अल्पपर्णाहि तरवो घनीभूता: समन्तत: । 
विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। २.११९.६ ।। 

रजनीचरसत्त्वानि प्रचरन्ति समन्तत: । 
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २.११९.७ ।। 

सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । 
जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। २.११९.८ ।। 

गम्यतामनुजानामि रामस्यानुचरी भव । 
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। २.११९.९ ।। 

अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । 
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। २.११९.१० ।। 

सा तथा समलंकृत्य सीता सुरसुतोपमा । 
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। २.११९.११ ।। 

तथा तु भूषितां सीतां ददर्श वदतां वर: । 
राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। २.११९.१२ ।। 

न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । 
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। २.११९.१३ ।। 

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । 
मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। २.११९.१४ ।। 

ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । 
अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। २.११९.१५ ।। 

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । 
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। २.११९.१६ ।। 

तावूचुस्ते वनचरास्तापसा धर्मचारिण: । 
वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। २.११९.१७ ।। 

रक्षांसि पुरुषादानि नानारूपाणि राघव । 
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। २.११९.१८ ।। 

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । 
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। २.११९.१९ ।। 

एष पन्था महर्षीणां फलान्याहरतां वने । 
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। २.११९.२० ।। 

इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । 
वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। २.११९.२१ ।। 

इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ऺात्युत्तरशततम: सर्ग: ।। ११९ ।। 

।। इत्ययोध्याकाण्ड: समाप्तः ।। 
।। श्रीसीतारामचन्द्रार्पणमस्तु ।।
</poem>