रामायणम्/अयोध्याकाण्डम्/सर्गः ३७

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ३६ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ३८ →
रामायणम्/अयोध्याकाण्डम्
महा मात्र वचः श्रुत्वा रामः दशरथम् तदा ।
अन्वभाषत वाक्यम् तु विनयज्ञो विनीतवत् ॥२-३७-१॥

त्यक्त भोगस्य मे राजन् वने वन्येन जीवतः ।
किम् कार्यम् अनुयात्रेण त्यक्त सन्गस्य सर्वतः ॥२-३७-२॥

यो हि दत्त्वा द्विप श्रेष्ठम् कक्ष्यायाम् कुरुते मनः ।
रज्जु स्नेहेन किम् तस्य त्यजतः कुन्जर उत्तमम् ॥२-३७-३॥

तथा मम सताम् श्रेष्ठ किम् ध्वजिन्या जगत् पते ।
सर्वाणि एव अनुजानामि चीराणि एव आनयन्तु मे ॥२-३७-४॥

खनित्र पिटके च उभे मम आनयत गच्चतः ।
चतुर् दश वने वासम् वर्षाणि वसतः मम ॥२-३७-५॥

अथ चीराणि कैकेयी स्वयम् आहृत्य राघवम् ।
उवाच परिधत्स्व इति जन ओघे निरपत्रपा ॥२-३७-६॥

स चीरे पुरुष व्याघ्रः कैकेय्याः प्रतिगृह्य ते ।
सूक्ष्म वस्त्रम् अवक्षिप्य मुनि वस्त्राणि अवस्त ह ॥२-३७-७॥

लक्ष्मणः च अपि तत्र एव विहाय वसने शुभे ।
तापसाच् चादने चैव जग्राह पितुर् अग्रतः ॥२-३७-८॥

अथ आत्म परिधान अर्थम् सीता कौशेय वासिनी ।
समीक्ष्य चीरम् सम्त्रस्ता पृषती वागुराम् इव ॥२-३७-९॥

सा व्यपत्रपमाणा इव प्रतिगृह्य च दुर्मनाः ।
गन्धर्व राज प्रतिमम् भर्तारम् इदम् अब्रवीत् ॥२-३७-१०॥
अश्रुसंपूर्ण्नेत्रा च धर्मज्ञा धर्मदर्शिनी ।
गन्धर्वराजप्रतिमम् भर्तारमिदमब्रवीत् ॥२-३७-११॥

कथम् नु चीरम् बध्नन्ति मुनयो वन वासिनः ।
इति ह्यकुशला सीता सामुमोह मुहुर्मुहुः ॥२-३७-१२॥

कृत्वा कण्ठे च सा चीरम् एकम् आदाय पाणिना ।
तस्थौ हि अकुषला तत्र व्रीडिता जनक आत्मज ॥२-३७-१३॥

तस्याः तत् क्षिप्रम् आगम्य रामः धर्मभृताम् वरः ।
चीरम् बबन्ध सीतायाः कौशेयस्य उपरि स्वयम् ॥२-३७-१४॥

रामम् प्रेक्ष्य तु सीतायाः बध्नन्तम् चीरमुत्तमम् ।
अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ॥२-३७-१५॥

उचुश्च परमायस्ता रामम् ज्वलिततेजसम् ।
वत्स नैवम् नियुक्तेयम् वनवासे मनस्विनी ॥२-३७-१६॥

पितुर्वाक्यानुरोधेन गतस्य विजनम् वनम् ।
तावद्दर्शनमस्या नः सफलम् भवतु प्रभो ॥२-३७-१७॥

लक्ष्मणेन सहायेन वनम् गच्छस्व पुत्रक ।
नेयमर्हति कल्याणी वस्तुम् तापसवद्वने ॥२-३७-१८॥

कुरु नो याचनाम् पुत्र! सीता तिष्ठतु भामिनी  ।
धर्मनित्यः स्वयम् स्थातुम् न हीदानीम् त्वमिच्छसि ॥२-३७-१९॥

तासामेवम्विधा वाचः शृण्वन् दशरथात्मजः ।
बबन्धैव तदा चीरम् सीतया तुल्यशीलया ॥२-३७-२०॥

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः ।
निवार्य सीताम् कैकेयीम् वसिष्ठो वाक्यमब्रवीत् ॥२-३७-२१॥

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपाम्सनि ।
वञ्यित्वा च राजानम् न प्रमाणेऽवतिष्ठसे ॥२-३७-२२॥

न गन्तव्यम् वनम् देव्या सीतया शीलवर्जिते ।
अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ॥२-३७-२३॥

आत्मा हि दाराः सर्वेषाम् दारसम्ग्रहवर्तिनाम् ।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ॥२-३७-२४॥

अथ यास्यति वैदेही वनम् रामेण सम्गता ।
वयमप्यनुयास्यामः पुरम् चेदम् गमिष्यति ॥२-३७-२५॥

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः ।
सहोपजीव्यम् राष्ट्रम् च पुरम् च सपरिच्छदम् ॥२-३७-२६॥

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः ।
वने वसन्तम् काकुत्थ्समनुवत्स्यति पूर्वजम् ॥२-३७-२७॥

ततह् शून्याम् गतजनाम् वसुधाम् पादपैः सह ।
त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ॥२-३७-२८॥

न हि तद्भविता राष्ट्रम् यत्र रामो न भूपतिः ।
तद्वनम् भविता राष्ट्रम् यत्र रामो निवत्स्यति ॥२-३७-२९॥

न ह्यदत्ताम् महीम् पित्रा भरतः शास्तुमर्हति ।
त्वयि वा पुत्रवद्वस्तुम् यदि जातो महीपतेः ॥२-३७-३०॥

यद्यपि त्वम् क्षितितलाद्गगनम् चोत्पतिष्यसि ।
पितुर्व्म्शचरित्रज्ञः सोऽन्यथा न करिष्यति ॥२-३७-३१॥

तत्त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम् ।
लोके हि स न विद्येत यो न राममनुव्रतः ॥२-३७-३२॥

द्रक्ष्यस्यद्यैव कैकेयि पशुव्याLअमृगद्विजान् ।
गच्छतः सह रामेण पादपाम्श्च तदुन्मुखान् ॥२-३७-३३॥

अथोत्तमान्याभरणानि देवि ।
देहि स्नुषायै व्यपनीय चीरम् ।
न चीरमस्याः प्रविधीयतेति ।
न्यवारयत् तद्वसनम् वसिष्ठः ॥२-३७-३४॥

एकस्य रामस्य वने निवास ।
स्त्वया वृतह् केकयराजपुत्रि ।
विभूषितेयम् प्रतिकर्मनित्या ।
वसत्वरण्ये सह राघवेण ॥२-३७-३५॥

यानैश्च मुख्यैः परिचारकैश्च ।
सुसम्वृता गच्छतु राजपुत्री ।
वस्रैश्च सर्वैः सहितैर्विधानै ।
र्नेयम् वृता ते वरसम्प्रदाने ॥२-३७-३६॥

तस्मिम्स्तथा जल्पति विप्रमुख्ये ।
गुरौ नृपस्याप्रतिमप्रभावे ।
नैव स्म सीता विनिवृत्तभावा ।
प्रियस्य भर्तुः प्रतिकारकामा  ॥२-३७-३७॥



इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥
=