रामायणम्/अयोध्याकाण्डम्/सर्गः ११४

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः ११३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ११५ →
रामायणम्/अयोध्याकाण्डम्

स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । 
अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.१ ।। 

बिडालोलूकचरितामालीननरवारणाम् । 
तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.२ ।। 

राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । 
ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.३ ।। 

अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । 
लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। २.११४.४ ।। 

विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् । 
हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। २.११४.५ ।। 

विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । 
हतप्रवीरामापन्नां चमूमिव महाहवे ।। २.११४.६ ।। 

सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । 
प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। २.११४.७ ।। 

त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: । 
सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। २.११४.८ ।। 

गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । 
गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। २.११४.९ ।। 

प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: । 
वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। २.११४.१० ।। 

सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । 
संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। २.११४.११ ।। 

पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । 
द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। २.११४.१२ ।। 

सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । 
प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। २.११४.१३ ।। 

क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । 
हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.१४ ।। 

वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । 
उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.१५ ।। 

विपुलां विततां चैव युक्तपाशां तरस्विनाम् । 
भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.१६ ।। 

सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । 
निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.१७ ।। 

शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । 
प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.१८ ।। 

पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । 
सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.१९ ।। 

प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । 
प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.२० ।। 

भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । 
वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.२१ ।। 

किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । 
यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.२२ ।। 

वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । 
धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.२३ ।। 

यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: । 
प्रमत्तगजनादश्च महांश्च रथनिस्वन: । 
नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। २.११४.२४ ।। 

चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: । 
गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। २.११४.२५ ।। 

बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: । 
नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। २.११४.२६ ।। 

सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । 
नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। २.११४.२७ ।। 

कदा नु खलु मे भ्राता महोत्सव इवागत: । 
जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। २.११४.२८ ।। 

तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: । 
सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। २.११४.२९ ।। 

एवं बहुविधं जल्पन् विवेश वसतिं पितु: । 
तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २.११४.३० ।। 

तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । 
निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। २.११४.३१ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। ११४ ।।
</poem>