रामायणम्/अयोध्याकाण्डम्/सर्गः ११६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ११५ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ११७ →
षोडशाधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
प्रतिप्रयाते भरते वसन् रामस्तपोवने । 
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। २.११६.१ ।। 

ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । 
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। २.११६.२ ।। 

नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: । 
अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ।। २.११६.३ ।। 

तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: । 
कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ।। २.११६.४ ।। 

न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । 
दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ।। २.११६.५ ।। 

प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे । 
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ।। २.११६.६ ।। 

कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि । 
प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ।। २.११६.७ ।। 

अथर्षिर्जरया वृद्धस्तपसा च जरां गत: । 
वेपमान इवोवाच रामं भूतदयापरम् ।। २.११६.८ ।। 

कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा । 
चलनं तात वैदेह्यास्तपस्विषु विशेषत: ।। २.११६.९ ।। 

त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते । 
रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ।। २.११६.१० ।। 

रावणावरज: कश्चित् खरो नामेह राक्षस: । 
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ।। २.११६.११ ।। 

धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: । 
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ।। २.११६.१२ ।। 

त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । 
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। २.११६.१३ ।। 

दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि । 
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ।। २.११६.१४ ।। 

अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् । 
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ।। २.११६.१५ ।। 

तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च । 
रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ।। २.११६.१६ ।। 

अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा । 
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ।। २.११६.१७ ।। 

तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: । 
गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ।। २.११६.१८ ।। 

तत्पुरा राम शारीरीमुपहिंसां तपस्विषु । 
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ।। २.११६.१९ ।। 

बहुमूलफलं चित्रमविदूरादितो वनम् । 
पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ।। २.११६.२० ।। 

खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । 
सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ।। २.११६.२१ ।। 

सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । 
समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ।। २.११६.२२ ।। 

इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् । 
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ।। २.११६.२३ ।। 

अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । 
स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ।। २.११६.२४ ।। 

राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । 
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ।। २.११६.२५ ।। 

आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: । 
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ।। २.११६.२६ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग: ।। ११६ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र