रामायणम्/अयोध्याकाण्डम्/सर्गः ९९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः ९८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०० →
नववतितमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
निविष्टायां तु सेनायामुत्सुको भरतस्तदा। 
जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ।। २.९९.१ ।। 

ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय। 
इति त्वरितमग्रे स जगाम गुरुवत्सल: ।। २.९९.२ ।। 

सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत। 
रामदर्शनजस्तर्षो भरतस्येव तस्य च ।। २.९९.३ ।। 

गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम्। 
भ्रातु: पर्णकुटीं श्रीमानुटजं च ददर्श ह ।। २.९९.४ ।। 

शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा। 
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ।। २.९९.५ ।। 

सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुष:। 
कृतं वृक्षेष्वभिज्ञानं कुशचीरै: क्वचित् क्वचित् ।। २.९९.६ ।। 

ददर्श च वने तस्मिन् महत: सञ्चयान् कृतान्। 
मृगाणां महिषाणां च कऺरीषै: शीतकारणात् ।। २.९९.७ ।। 

गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा। 
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वश: ।। २.९९.८ ।। 

मन्ये प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत्। 
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमित: ।। २.९९.९ ।। 

उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम्। 
अभिज्ञानकृत: पन्था विकाले गन्तुमिच्छता ।। २.९९.१० ।। 

इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम्। 
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ।। २.९९.११ ।। 

यमेवाधातुमिच्छन्ति तापसा: सततं वने। 
तस्यासौ दृश्यते धूम: सङ्कुल: कृष्णवर्त्मन: ।। २.९९.१२ ।। 

अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम्। 
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ।। २.९९.१३ ।। 

अथ गत्वा मुहूर्तं तु चित्रकूटं स राघव:। 
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ।। २.९९.१४ ।। 

जगत्यां पुरुषव्याघ्र आस्ते वीरासने रत:। 
जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ।। २.९९.१५ ।। 

मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युति:। 
सर्वान् कामान् परित्यज्य वने वसति राघव: ।। २.९९.१६ ।। 

इति लोकसमाक्रुष्ट: पादेष्वद्य प्रसादयन्। 
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ।। २.९९.१७ ।। 

एवं स विलपंस्तस्मिन् वने दशरथात्मज:। 
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ।। २.९९.१८ ।। 

सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम्। 
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ।। २.९९.१९ ।। 

शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनै:। 
रुक्मपृष्टष्ठैर्महासारै: शोभितां शत्रुबाधकै: ।। २.९९.२० ।। 

अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतै: शरै:। 
शोभितां दीप्तवदनै: सर्प्पैर्भोगवतीमिव ।। २.९९.२१ ।। 

महारजतवासोभ्यामसिभ्यां च विराजिताम्। 
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ।। २.९९.२२ ।। 

गोधाङ्गुलित्रैरासक्तैश्चित्रै: काञ्चनभूषितै:। 
अरिसङ्घैरनाधृष्यां मृगै: सिंहगुहामिव ।। २.९९.२३ ।। 

प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम्। 
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ।। २.९९.२४ ।। 

निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम्। 
उटजे राममासीनं जटामण्डलधारिणम् ।। २.९९.२५ ।। 

तं तु कृष्णाजिनधरं चीरवल्कलवाससम्। 
ददर्श राममासीनमभित: पावकोपमम् ।। २.९९.२६ ।। 

सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम्। 
पृथिव्या: सागरान्ताया भर्त्तारं धर्मचारिणम् ।। २.९९.२७ ।। 

उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम्। 
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ।। २.९९.२८ ।। 

तं दृष्ट्वा भरत: श्रीमान् दु:खशोकपरिप्लुत:। 
अभ्यधावत धर्मात्मा भरत: कैकयीसुत: ।। २.९९.२९ ।। 

दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा। 
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ।। २.९९.३० ।। 

य: संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम्। 
वन्यैर्मृगैरुपासीन: सोऽयमास्ते ममाग्रज: ।। २.९९.३१ ।। 

वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचित:। 
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ।। २.९९.३२ ।। 

अधारयद्यो विविधाश्चित्रा: सुमनसस्तदा 
सोऽयं जटाभारमिमं वहते राघव: कथम् ।। २.९९.३३ ।। 

यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चय:। 
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ।। २.९९.३४ ।। 

चन्दनेन महार्हेण यस्याङ्गमुपसेवितम्। 
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ।। २.९९.३५ ।। 

मन्निमित्तमिदं दु:खं प्राप्तो राम: सुखोचित:। 
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ।। २.९९.३६ ।। 

इत्येवं विलपन् दीन: प्रस्विन्नमुखपङ्कज:। 
पादावप्राप्य रामस्य पपात भरतो रुदन् ।। २.९९.३७ ।। 

दु:खाभितप्तो भरतो राजपुत्रो महाबल:। 
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ।। २.९९.३८ ।। 

बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम्। 
आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ।। २.९९.३९ ।। 

शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन्। 
तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ।। २.९९.४० ।। 

तत: सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये। 
दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ।। २.९९.४१ ।। 

तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये। 
वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ।। २.९९.४२ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनशततम: सर्ग: ।। ९९ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र