रामायणम्/अयोध्याकाण्डम्/सर्गः ७५
दिखावट
← सर्गः ७४ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ७६ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥ दीर्घकालात्समुत्थाय सम्ज्ञाम् लब्ध्वा च वीर्यवान् । नेत्राभ्यामश्रुपूर्णाभ्याम् दीनामुद्वीक्ष्य मातरम् ॥२-७५-१॥ सोऽमात्यमध्येभरतो जननीमभ्यकुत्सयत् । राज्यम् न कामये जातु मन्त्रये नापि मातरम् ॥२-७५-२॥ अभिषेकम् न जानामि यो.भूद्रज्Jना समीक्षितः । विप्रकृष्टे ह्यहम् देशे शत्रुघ्न सहितोऽवसम् ॥२-७५-३॥ वनवासम् न जानामि रामस्यहम् महात्मनः । विवासनम् वा सौमित्रेः सीतायाश्च यथाभवत् ॥२-७५-४॥ तथैव क्रोशतः तस्य भरतस्य महात्मनः । कौसल्या शब्दम् आज्ञाय सुमित्राम् इदम् अब्रवीत् ॥२-७५-५॥ आगतः क्रूर कार्यायाः कैकेय्या भरतः सुतः । तम् अहम् द्रष्टुम् इच्चामि भरतम् दीर्घ दर्शिनम् ॥२-७५-६॥ एवम् उक्त्वा सुमित्राम् सा विवर्णा मलिन अम्बरा । प्रतस्थे भरतः यत्र वेपमाना विचेतना ॥२-७५-७॥ स तु राम अनुजः च अपि शत्रुघ्न सहितः तदा । प्रतस्थे भरतः यत्र कौसल्याया निवेशनम् ॥२-७५-८॥ ततः शत्रुघ्न भरतौ कौसल्याम् प्रेक्ष्य दुह्खितौ । पर्यष्वजेताम् दुह्ख आर्ताम् पतिताम् नष्ट चेतनाम् ॥२-७५-९॥ रुदन्तौ रुदतीम् दुःखात्समेत्यार्याम् मनस्स्विनीम् । भरतम् प्रत्युवाच इदम् कौसल्या भृश दुह्खिता ॥२-७५-१०॥ इदम् ते राज्य कामस्य राज्यम् प्राप्तम् अकण्टकम् । सम्प्राप्तम् बत कैकेय्या शीघ्रम् क्रूरेण कर्मणा ॥२-७५-११॥ प्रस्थाप्य चीर वसनम् पुत्रम् मे वन वासिनम् । कैकेयी कम् गुणम् तत्र पश्यति क्रूर दर्शिनी ॥२-७५-१२॥ क्षिप्रम् माम् अपि कैकेयी प्रस्थापयितुम् अर्हति । हिरण्य नाभो यत्र आस्ते सुतः मे सुमहा यशाः ॥२-७५-१३॥ अथवा स्वयम् एव अहम् सुमित्र अनुचरा सुखम् । अग्नि होत्रम् पुरः कृत्य प्रस्थास्ये यत्र राघवः ॥२-७५-१४॥ कामम् वा स्वयम् एव अद्य तत्र माम् नेतुम् अर्हसि । यत्र असौ पुरुष व्याघ्रः तप्यते मे तपः सुतः ॥२-७५-१५॥ इदम् हि तव विस्तीर्णम् धन धान्य समाचितम् । हस्ति अश्व रथ सम्पूर्णम् राज्यम् निर्यातितम् तया ॥२-७५-१६॥ इत्यादिबहुभिर्वाक्यैः क्रूरैः सम्भर्स्तितोऽनघः । विव्यथे भरतस्तीव्रम् व्रणे तुद्येव सूचिना ॥२-७५-१७॥ पपात चरणौ तस्यास्तदा सम्भ्रान्तचेतनः । विलप्य बहुधाऽसम्ज्ञो लब्धसम्ज्ञ्स्ततः स्थितः ॥२-७५-१८॥ एवम् विलपमानाम् ताम् भरतः प्रान्जलिस् तदा । कौसल्याम् प्रत्युवाच इदम् शोकैः बहुभिर् आवृताम् ॥२-७५-१९॥ आर्ये कस्मात् अजानन्तम् गर्हसे माम् अकिल्बिषम् । विपुलाम् च मम प्रीतिम् स्थिराम् जानासि राघवे ॥२-७५-२०॥ कृता शास्त्र अनुगा बुद्धिर् मा भूत् तस्य कदाचन । सत्य सम्धः सताम् श्रेष्ठो यस्य आर्यो अनुमते गतः ॥२-७५-२१॥ प्रैष्यम् पापीयसाम् यातु सूर्यम् च प्रति मेहतु । हन्तु पादेन गाम् सुप्ताम् यस्य आर्यो अनुमते गतः ॥२-७५-२२॥ कारयित्वा महत् कर्म भर्ता भृत्यम् अनर्थकम् । अधर्मः यो अस्य सो अस्याः तु यस्य आर्यो अनुमते गतः ॥२-७५-२३॥ परिपालयमानस्य राज्ञो भूतानि पुत्रवत् । ततः तु द्रुह्यताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२४॥ बलि षड् भागम् उद्धृत्य नृपस्य अरक्षतः प्रजाः । अधर्मः यो अस्य सो अस्य अस्तु यस्य आर्यो अनुमते गतः ॥२-७५-२५॥ सम्श्रुत्य च तपस्विभ्यः सत्रे वै यज्ञ दक्षिणाम् । ताम् विप्रलपताम् पापम् यस्य आर्यो अनुमते गतः ॥२-७५-२६॥ हस्ति अश्व रथ सम्बाधे युद्धे शस्त्र समाकुले । मा स्म कार्षीत् सताम् धर्मम् यस्य आर्यो अनुमते गतः ॥२-७५-२७॥ उपदिष्टम् सुसूक्ष्म अर्थम् शास्त्रम् यत्नेन धीमता । स नाशयतु दुष्ट आत्मा यस्य आर्यो अनुमते गतः ॥२-७५-२८॥ मा च तम् प्यूढबाह्वम्सम् चन्द्रार्कसम्तेजनम् । द्राक्षीद्राज्यस्थमासीनम् यस्यार्योऽनुमते गतः ॥२-७५-२९॥ पायसम् कृसरम् चागम् वृथा सो अश्नातु निर्घृणः । गुरूमः च अपि अवजानातु यस्य आर्यो अनुमते गतः ॥२-७५-३०॥ गाश्च स्पृशतु पादेन गुरून् परिवदेत्स्वयम् । मित्रे द्रुह्येत सोऽत्यन्तम् यस्यार्योऽनुमते गतः ॥२-७५-३१॥ विश्वासात्कथितम् किम्चित्परिवादम् मिथः क्वचित् । विवृणोतु स दुष्टात्मा यस्यार्योओऽनुमते गतः ॥२-७५-३२॥ अकर्ता ह्यकृतज्ञश्च त्यक्तात्मा निरपत्रपः । लोके भवतु विद्वेष्यो यस्यार्योऽनुमते गतः ॥२-७५-३३॥ पुत्रैः दारैः च भृत्यैः च स्व गृहे परिवारितः । स एको मृष्टम् अश्नातु यस्य आर्यो अनुमते गतः ॥२-७५-३४॥ अप्राप्य सदृशान् दाराननपत्यः प्रमीयताम् । अनवाप्य क्रियाम् धर्म्याम् यश्यार्योऽनुमते गतः ॥२-७५-३५॥ मात्मनः सम्ततिम् द्राक्षीत्स्वेषु दारेषु दुःखितः । आयुः समग्रमप्राप्य यस्यार्योऽनुमते गतः ॥२-७५-३६॥ राज स्त्री बाल वृद्धानाम् वधे यत् पापम् उच्यते । भृत्य त्यागे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-३७॥ लाक्षया मधुमाम्सेन लोहेन च विषेण च । सदैव बिभृयाद्भृत्यान् यस्यार्योऽसुमते गतः ॥२-७५-३८॥ सम्ग्रामे समुपोढे स शत्रुपक्ष्भयम्करे । पलायामानो वध्येत यस्यार्योऽनुमे गतः ॥२-७५-३९॥ कपालपाणिः पृथिवीमटताम् चीरसम्वृतः । भिक्समाणो यथोन्मत्तो यस्यार्योऽनुमते गतह् ॥२-७५-४०॥ पाने प्रसक्तो भवतु स्त्रीष्वक्षेषु च नित्यशः । काम्क्रोधाभिभूतस्तु यस्यार्योऽनुमते गतः ॥२-७५-४१॥ यस्य धर्मे मनो भूयादधर्मम् स निषेवताम् । अपात्रवर्षी भवतु यस्यार्योऽनुमते गतः ॥२-७५-४२॥ सम्चितान्यस्य वित्तानि विविधानि सहस्रशः । दस्युभिर्विप्रलुप्यन्ताम् यश्यार्योऽनुमते गतः ॥२-७५-४३॥ उभे सम्ध्ये शयानस्य यत् पापम् परिकल्प्यते । तच् च पापम् भवेत् तस्य यस्य आर्यो अनुमते गतः ॥२-७५-४४॥ यद् अग्नि दायके पापम् यत् पापम् गुरु तल्पगे । मित्र द्रोहे च यत् पापम् तत् पापम् प्रतिपद्यताम् ॥२-७५-४५॥ देवतानाम् पितृऋणाम् च माता पित्रोस् तथैव च । मा स्म कार्षीत् स शुश्रूषाम् यस्य आर्यो अनुमते गतः ॥२-७५-४६॥ सताम् लोकात् सताम् कीर्त्याः सज् जुष्टात् कर्मणः तथा । भ्रश्यतु क्षिप्रम् अद्य एव यस्य आर्यो अनुमते गतः ॥२-७५-४७॥ अपास्य मातृशुश्रूषामनर्थे सोऽवतिष्ठताम् । दीर्घबाहुर्महावक्षा यस्यार्योऽसुमते गतः ॥२-७५-४८॥ बहुपुत्रो दरिद्रश्च ज्वररोगसमन्वितः । स भूयात्सततक्लेशी यस्यार्योऽनुमते गतः ॥२-७५-४९॥ आशामाशम् समानानाम् दीनानामूर्ध्वचक्षुषाम् । आर्थिनाम् वितथाम् कुर्याद्यस्यार्योऽनुमते गतः ॥२-७५-५०॥ मायया रमताम् नित्यम् परुषः पिशुनोऽशुचिः । राज्Jनो भीत स्त्वधर्मात्मा यस्यार्योऽनुमते गतः ॥२-७५-५१॥ ऋतुस्नाताम् सतीम् भार्यामृतुकालानुरोधिनीम् । अतिवर्तेत दुष्टात्मा यस्यार्योऽनुमते गतः ॥२-७५-५२॥ धर्मदारान् परित्यज्य परदारान्नि षेवताम् । त्यक्तधर्मरतिर्मूढो यस्यार्योऽनुमते गतः ॥२-७५-५३॥ विप्रलु प्तप्रजातस्य दुष्कृतम् ब्राह्मणस्य यत् । तदेव प्रतिपद्येत यस्यार्योऽनुमते गतः ॥२-७५-५४॥ पानीयदूषके पापम् तथैव विषदायके । यत्तदेकः स लभताम् यस्यार्योऽनुमते गतः ॥२-७५-५५॥ ब्राह्मणायोद्यताम् पूजाम् विहन्तु कलुषेन्द्रियः । बालवत्साम् च गाम् दोग्दु यस्यर्योऽनुमते गतः ॥२-७५-५६॥ तृष्णार्तम् सति पानीये विप्रलम्भेन योजयेत् । लभेत तस्य यत्पापम् यस्यार्योऽनुमते गतः ॥२-७५-५७॥ भक्त्या विवदमानेषु मार्गमाश्रित्य पश्यतः । तस्य पापेन युज्येत यस्यार्योऽनुमते गतः ॥२-७५-५८॥ विहीनाम् पति पुत्राभ्याम् कौसल्याम् पार्थिव आत्मजः । एवम् आश्वसयन्न् एव दुह्ख आर्तः निपपात ह ॥२-७५-५९॥ तथा तु शपथैः कष्टैः शपमानम् अचेतनम् । भरतम् शोक सम्तप्तम् कौसल्या वाक्यम् अब्रवीत् ॥२-७५-६०॥ मम दुह्खम् इदम् पुत्र भूयः समुपजायते । शपथैः शपमानो हि प्राणान् उपरुणत्सि मे ॥२-७५-६१॥ दिष्ट्या न चलितः धर्मात् आत्मा ते सह लक्ष्मणः । वत्स सत्य प्रतिज्ञो मे सताम् लोकान् अवाप्स्यसि ॥२-७५-६२॥ इत्युक्त्वा चाङ्कमानीय भरतम् भ्रातृवत्सलम् । परिष्वज्य महाबाहुम् रुरोद भृशदुःखिता ॥२-७५-६३॥ एवम् विलपमानस्य दुह्ख आर्तस्य महात्मनः । मोहाच् च शोक सम्रोधात् बभूव लुलितम् मनः ॥२-७५-६४॥ लालप्यमानस्य विचेतनस्य । प्रनष्ट बुद्धेः पतितस्य भूमौ । मुहुर् मुहुर् निह्श्वसतः च दीर्घम् । सा तस्य शोकेन जगाम रात्रिः ॥२-७५-६५॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चसप्ततितमः सर्गः ॥२-७५॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
[सम्पाद्यताम्]