सामग्री पर जाएँ

रामायणम्/अयोध्याकाण्डम्/सर्गः १०४

विकिस्रोतः तः
← सर्गः १०३ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०५ →
चतुरधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
तं तु राम: समाज्ञाय भ्रातरं गुरुवत्सलम् । 
लक्ष्मणेन सह भ्रात्रा प्रष्टुं समुपचक्रमे ।। २.१०४.१ ।। 

किमेतदिच्छेयमहं श्रोतुं प्रव्याहृतं त्वया । 
यस्मात्त्वमागतो देशमिमं चीरजटाजिनी ।। २.१०४.२ ।। 

किं निमित्तमिमं देशं कृष्णाजिनजटाधर: । 
हित्वा राज्यं प्रविष्टस्त्वं तत्सर्वं वक्तुमर्हसि ।। २.१०४.३ ।। 

इत्युक्त: कैकयीपुत्र: काकुत्स्थेन महात्मना । 
प्रगृह्य बलवद्भूय: प्राञ्जलिर्वाक्यमब्रवीत् ।। २.१०४.४ ।। 

आर्य्यं तात: परित्यज्य कृत्वा कर्म सुदुष्करम् । 
गत: स्वर्गं महाबाहु: पुत्रशोकाभिपीडित: ।। २.१०४.५ ।। 

स्त्रिया नियुक्त: कैकेय्या मम मात्रा परन्तप । 
चकार सुमहत्पापमिदमात्मयशोहरम् ।। २.१०४.६ ।। 

सा राज्यफलमप्राप्य विधवा शोककर्शिता । 
पतिष्यति महाघोरे निरये जननी मम ।। २.१०४.७ ।। 

तस्य मे दासभूतस्य प्रसादं कर्त्तुमर्हसि । 
अभिषिञ्चस्व चाद्यैव राज्येनप मघवानिव ।। २.१०४.८ ।। 

इमा: प्रकृतय: सर्वा विधवा मातरश्च या: । 
त्वत्सकाशमनुप्राप्ता: प्रसादं कर्त्तुमर्हसि ।। २.१०४.९ ।। 

तदानुपूर्व्या युक्तं च युक्तं चात्मनि मानद । 
राज्यं प्राप्नुहि धर्मेण सकामान् सुहृद: कुरु ।। २.१०४.१० ।। 

भवत्वविधवा भूमि: समग्रा पतिना त्वया । 
शशिना विमलेनेव शारदी रजनी यथा ।। २.१०४.११ ।। 

एभिश्च सचिवै: सार्द्धं शिरसा याचितो मया । 
भ्रातु: शिष्यस्य दासस्य प्रसादं कर्त्तुमर्हसि ।। २.१०४.१२ ।। 

तदिदं शाश्वतं पित्र्यं सर्वं प्रकृतिमण्डलम् । 
पूजितं पुरुषव्याघ्र नातिक्रमितुमर्हसि ।। २.१०४.१३ ।। 

एवमुक्त्वा महाबाहु: सबाष्प: कैकयीसुत: । 
रामस्य शिरसा पादौ जग्राह विधिवत्पुन: ।। २.१०४.१४ ।। 

तं मत्तमिव मातङ्गं नि:श्वसन्तं पुन:पुन: । 
भ्रातरं भरतं राम: परिष्वज्येदमब्रवीत् ।। २.१०४.१५ ।। 

कुलीन: सत्त्वसम्पन्नस्तेजस्वी चरितव्रत: । 
राज्यहेतो: कथं पापमाचरेत्त्वद्विधो जन: ।। २.१०४.१६ ।। 

न दोषं त्वयि पश्यामि सूक्ष्ममप्यरिसूदन । 
न चापि जननीं बाल्यात्त्वं विगर्हितुमर्हसि ।। २.१०४.१७ ।। 

कामकारो महाप्राज्ञ गुरूणां सर्वदा ऽनघ । 
उपपन्नेषु दारेषु पुत्रेषु च विधीयते ।। २.१०४.१८ ।। 

वयमस्य यथा लोके सङ्ख्याता: सौम्य साधुभि: । 
भार्य्या: पुत्राश्च शिष्याश्च त्वमनु ज्ञातुमर्हसि ।। २.१०४.१९ ।। 

वने वा चीरवसनं सौम्य कृष्णाजिनाम्बरम् । 
राज्ये वापि महाराजो मां वासयितुमीश्वर: ।। २.१०४.२० ।। 

यावत्पितरि धर्मज्ञे गौरवं लोकसत्कृतम् । 
तावद्धर्मभृतां श्रेष्ठ जनन्यामपि गौरवम् ।। २.१०४.२१ ।। 

एताभ्यां धर्मशीलाभ्यां वनं गच्छेति राघव । 
मातापितृभ्यामुक्तो ऽहं कथमन्यत् समाचरे ।। २.१०४.२२ ।। 

त्वया राज्यमयोध्यायां प्राप्तव्यं लोकसत्कृतम् । 
वस्तव्यं दण्डकारण्ये मया वल्कलवाससा ।। २.१०४.२३ ।। 

एवं कृत्वा महाराजो विभागं लोकसन्निधौ । 
व्यादिश्य च महातेजा दिवं दशरथो गत: ।। २.१०४.२४ ।। 

स च प्रमाणं धर्मात्मा राजा लोकगुरुस्तव । 
पित्रा दत्तं यथाभागमुपभोक्तुं त्वमर्हसि ।। २.१०४.२५ ।। 

चतुर्दशसमा: सौम्य दण्डकारण्यमाश्रित: । 
उपभोक्ष्ये त्वहं दत्तं भागं पित्रा महात्मना ।। २.१०४.२६ ।। 

यदब्रवीन्मां नरलोकसत्कृत: पिता महात्मा विबुधाधिपोपम: । 
तदेव मन्ये परमात्मनो हितं न सर्वलोकेश्वरभावमप्यहम् ।। २.१०४.२७ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुरधिकशततम: सर्ग: ।। १०४ ।।


पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र