रामायणम्/अयोध्याकाण्डम्/सर्गः १०५

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← सर्गः १०४ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः १०६ →
पञ्चाधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
तत: पुरुषसिंहानां वृतानां तै: सुहृद्गणै: । 
शोचतामेव रजनी दु:खेन व्यत्यवर्त्तत ।। २.१०५.१ ।। 

रजन्यां सुप्रभातायां भ्रातरस्ते सुहृद्वृता: । 
मन्दाकिन्यां हुतं जप्यं कृत्वा राममुपागमन् ।। २.१०५.२ ।। 

तूष्णीं ते समुपासीना न कश्चित्किञ्चिदब्रवीत् । 
भरतस्तु सुहृन्मध्ये रामं वचनमब्रवीत् ।। २.१०५.३ ।। 

सान्त्विता मामिका माता दत्तं राज्यमिदं मम । 
तद्ददामि तवैवाहं भुङ्क्ष्व राज्यमकण्टकम् ।। २.१०५.४ ।। 

महतेवाम्बुवेगेन भिन्न: सेतुर्जलागमे । 
दुरावारं त्वदन्येन राज्यखण्डमिदं महत् ।। २.१०५.५ ।। 

गतिं खर इवाश्वस्य तार्क्ष्यस्येव पतत्ऺित्रण: । 
अनुगन्तुं न शक्तिर्मे गतिं तव महीपते ।। २.१०५.६ ।। 

सुजीवं नित्यशस्तस्य य: परैरुपजीव्यते । 
राम तेन तु दुर्जीवं य: परानुपजीवति ।। २.१०५.७ ।। 

यथा तु रोपितो वृक्ष: पुरुषेण विवर्द्धित: । 
ह्रस्वकेन दुरारोहो रूढस्कन्धो महाद्रुम: ।। २.१०५.८ ।। 

स यथा पुष्पितो भूत्वा फलानि न विदर्शयेत् । 
स तां नानुभवेत्प्रीतिं यस्य हेतो: प्ररोपित: ।। २.१०५.९ ।। 

एषोपमा महाबाहो तमर्थं वेत्तुमर्हसि । 
यदि त्वमस्मान् वृषभो भर्त्ता भृत्यान्न शाधि हि ।। २.१०५.१० ।। 

श्रेणयस्त्वां महाराज पश्यन्त्वग्र्याश्च सर्वश: । 
प्रतपन्तमिवादित्यं राज्ये स्थितमरिन्दमम् ।। २.१०५.११ ।। 

तवा ऽनुयाने काकुत्स्थ मत्ता नर्दन्तु कुञ्जरा: । 
अन्त:पुरगता नार्यो नन्दन्तु सुसमाहिता: ।। २.१०५.१२ ।। 

तस्य साध्वित्यमन्यन्त नागरा विविधा जना: । 
भरतस्य वच: श्रुत्वा रामं प्रत्यनुयाचत: ।। २.१०५.१३ ।। 

तमेवं दु:खितं प्रेक्ष्य विलपन्तं यशस्विनम् । 
राम: कृतात्मा भरतं समाश्वासय दात्मवान् ।। २.१०५.१४ ।। 

नात्मन: कामकारो ऽस्ति पुरुषो ऽयमनीश्वर: । 
इतश्चेतरतश्चैनं कृतान्त: परिकर्षति ।। २.१०५.१५ ।। 

सर्वे क्षयान्ता निचया: पतनान्ता: समुच्छ्रया: । 
संयोगा विप्रयोगान्ता मरणान्तं च जीवितम् ।। २.१०५.१६ ।। 

यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । 
एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ।। २.१०५.१७ ।। 

यथागारं दृढस्थूणं जीर्णं भूत्वा ऽवसीदति । 
तथैव सीदन्ति नरा जरामृत्युवशङ्गता: ।। २.१०५.१८ ।। 

अत्येति रजनी या तु सा न प्रतिनिवर्त्तते । 
यात्येव यमुना पूर्णा समुद्रमुदकाकुलम् ।। २.१०५.१९ ।। 

अहोरात्राणि गच्छन्ति सर्वेषां प्राणिनामिह । 
आयूंषि क्षपयन्त्याशु ग्रीष्मे जलमिवांशव: ।। २.१०५.२० ।। 

आत्मानमनुशोच त्वं किमन्यमनुशोचसि । 
आयुस्ते हीयते यस्य स्थितस्य च गतस्य च ।। २.१०५.२१ ।। 

सहैव मृत्युर्व्रजति सह मृत्युर्निषीदति । 
गत्वा सुदीर्घमध्वानं सहमृत्युर्निवर्तते ।। २.१०५.२२ ।। 

गात्रेषु वलय: प्राप्ता: श्वेताश्चैव शिरोरुहा: । 
जरया पुरुषो जीर्ण: किं हि कृत्वा प्रभावयेत् ।। २.१०५.२३ ।। 

नन्दन्त्युदित आदित्ये नन्दन्त्यस्तमिते रवौ । 
आत्मनो नावबुध्यन्ते मनुष्या जीवितक्षयम् ।। २.१०५.२४ ।। 

हृष्यन्त्यृतुमखं दृष्ट्वा नवं नवमिहागतम् । 
ऋतूनां परिवर्त्तेन प्राणिनां प्राणसंक्षय: ।। २.१०५.२५ ।। 

यथा काष्ठं च काष्ठं च समेयातां महार्णवे । 
समेत्य च व्यपेयातां कालमासाद्य कञ्चन ।। २.१०५.२६ ।। 

एवं भार्याश्च पुत्राश्च ज्ञातयश्च घनानि च । 
समेत्य व्यवधावन्ति ध्रुवो ह्येषां विनाभव: ।। २.१०५.२७ ।। 

नात्र कश्चिद्यथाभावं प्राणी समभिवर्त्तते । 
तेन तस्मिन्न सामर्थ्यं प्रेतस्यास्त्यनुशोचत: ।। २.१०५.२८ ।। 

यथा हि सार्थं गच्छन्तं ब्रूयात् कश्चित् पथि स्थित: । 
अहमप्यागमिष्यामि पृष्ठतो भवतामिति ।। २.१०५.२९ ।। 

एवं पूर्वैर्गतो मार्ग: पितृपैतामहो ध्रुव: । 
तमापन्न: कथं शोचेद्यस्ऺय नास्ति व्यतिक्रम: ।। २.१०५.३० ।। 

वयस: पतमानस्य स्रोतसो वा ऽनिवर्तिन: । 
आत्मा सुखे नियोक्तव्य: सुखभाज: प्रजा: स्मृता: ।। २.१०५.३१ ।। 

धर्मात्मा स शुभै: कृत्स्नै: क्रतुभिश्चाप्तदक्षिणैः । 
धूतपापो गत: स्वर्गं पिता न: पृथिवीपति: ।। २.१०५.३२ ।। 

भृत्यानां भरणात् सम्यक् प्रजानां परिपालनात् । 
अर्थादानाच्च धर्मेण पिता नस्त्रिदिवं गत: ।। २.१०५.३३ ।। 

कर्मभिस्तु शुभैरिष्टै: क्रतुभिश्चाप्तदक्षिणै: । 
स्वर्गं दशरथ: प्राप्त: पिता न: पृथिवीपति: ।। २.१०५.३४ ।। 

इष्ट्वा बहुविधैर्यज्ञैर्भोगांश्चावाप्य पुष्कलान् । 
उत्तमं चायुरासाद्य स्वर्गत: पृथिवीपति: ।। २.१०५.३५ ।। 

आयुरुत्तममासाद्य भोगानपि च राघव: । 
स न शोच्य: पिता तात: स्वर्गत: सत्कृत: सताम् ।। २.१०५.३६ ।। 

स जीर्णं मानुषं देहं परित्यज्य पिता हि न: । 
दैवीमृद्धिमनुप्राप्तो ब्रह्मलोकविहारिणीम् ।। २.१०५.३७ ।। 

तं तु नैवंविध: कश्चित् प्राज्ञ: शोचितुमर्हति । 
तद्विधो यद्विधश्चापि श्रुतवान् बुद्धिमत्तर: ।। २.१०५.३८ ।। 

एते बहुविधा: शोका विलापरुदिते तथा । 
वर्जनीया हि धीरेण सर्वावस्थासु धीमता ।। २.१०५.३९ ।। 

स स्वस्थो भव माशोचीर्यात्वा चावस तां पुरीम् । 
तथा पित्रा नियुक्तो ऽसि वशिना वदतां वर ।। २.१०५.४० ।। 

यत्राहमपि तेनैव नियुक्त: पुण्यकर्मणा । 
तत्रैवाहं करिष्यामि पितुरार्य्यस्य शासनम् ।। २.१०५.४१ ।। 

न मया शासनं तस्य त्यक्तुं न्याय्यमरिन्दम । 
तत् त्वयापि सदा मान्यं स वै बन्धु: स न: पिता ।। २.१०५.४२ ।। 

तद्वच: पितुरेवाहं सम्मतं धर्मचारिण: । 
कर्मणा पालयिष्यामि वनवासेन राघव ।। २.१०५.४३ ।। 

धीर्मिकेणानृशंसेन नरेण गुरुवर्त्तिना । 
भवितव्यं नरव्याघ्र परलोकं जिगीषता ।। २.१०५.४४ ।। 

आत्मानमनुतिष्ठ त्वं स्वभावेन नरर्षभ । 
निशाम्य तु शुभं वृत्तं पितुर्दशरथस्य न: ।। २.१०५.४५ ।। 

इत्येवमुक्त्वा वचनं महात्मा पितुर्निदेशप्रतिपालनार्थम् । 
यवीयसं भ्रातरमर्थवच्च प्रभुर्मुहूर्ताद्विरराम राम: ।। २.१०५.४६ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चोत्तरशततम: सर्ग: ।। १०५ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र