रामायणम्/अयोध्याकाण्डम्/सर्गः ३५
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३४ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३६ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततो निर्धूय सहसा शिरो निःश्वस्व चासकृत् । पाणौ पाणिम् विनिष्पिष्य दन्तान् कटकटाय्य च ॥२-३५-१॥ लोचने कोपसम्रक्ते वर्णम् पूर्वोचितम् जहत् । कोपाभिभूतः सहसा सम्तापमशुभम् गतः ॥२-३५-२॥ मनः समीक्षमाणश्च सूतो दशरथस्य सः । कम्पयन्निव कैकेय्या हृदयम् वाक्छरैश्शितैः ॥२-३५-३॥ वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुगैः । कैकेय्या सर्वमर्माणि सुमन्त्रः प्रत्यभाषत ॥२-३५-४॥ यश्यास्तव पतिस्त्यक्तोराजा दशरथः स्वयम् । भर्ता सर्वस्य जगतः स्थावरस्य चरश्य च ॥२-३५-५॥ न ह्यकार्यतमम् किम्चित् तव देवीह विद्यते । पतिघ्नीम् त्वामहम् मन्ये कुलघ्नीमपि चान्ततः ॥२-३५-६॥ यन्म हेम्द्रमिवाजय्यम् दुष्प्रकम्प्यमिवाचलम् । महोदधिमिवाक्षोभ्यम् सन्तापयसि कर्मभिः ॥२-३५-७॥ मावमम्स्था दशरथम् भर्तारम् वरदम् पतिम् । भर्तुरिच्छा हि नारीणाम्पुत्रकोट्या विशिष्यते ॥२-३५-८॥ यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये । इक्ष्वाकुकुलनाथेऽस्मिम्स्तल्लोपयितुमिच्छसि ॥२-३५-९॥ राजा भवतु ते पुत्रो भरतश्शास्तु मेदिनीम् । वयम् तत्र गमिष्यामो रामो यत्र गमिष्यति ॥२-३५-१०॥ न हि ते विषये कश्चिद्ब्राह्मणो वस्तुमर्हति । तादृशम् त्वममर्यादमद्य कर्म चिकीर्षसि ॥२-३५-११॥ नूनम् सर्वे गमिष्यामो मार्गम् रामनिषेवितम् । त्यक्ताया बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा ॥२-३५-१२॥ का प्रीती राज्यलाभेन तव देवि भविष्यति । तादृशम् त्वममर्यादम् कर्म कर्तुम् चिकीर्षसि ॥२-३५-१३॥ आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम् । आचरन्त्या न विदृता सद्यो भवति मेदिनी ॥२-३५-१४॥ महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शना । धिग्वाग्दण्डणा न हिम्सन्ति रामप्रव्राजने स्थिताम् ॥२-३५-१५॥ आम्रम् चित्वा कुठारेन निम्बम् परिचरेत्तु यः । यश्चेनम् पयसा सिञ्चेन्नैवास्य मधुरो भवेत् ॥२-३५-१६॥ अभिजात्यम् हि ते मन्ये यथा मातुस्तथैव च । न हि निम्बात्स्रवेत्क्षौद्रम् लोके निगदितम् वचः ॥२-३५-१७॥ तव मातुरसद्ग्राहम् विद्मः पूर्वम् यथाश्रुतम् । पितुस्ते वरदः कश्चिद्ददौ वरमनुत्तमम् ॥२-३५-१८॥ सर्वभूतरुतम् तस्मात्सम्जज्ञे वसुधाधिपः । तेन तिर्यग्गतानाम् च भूतानाम् विदितम् वचः ॥२-३५-१९॥ ततो जृम्भस्य शयने विरुताद्भूरिवर्चसा । पितुस्ते विदितो भावः स तत्र बहुधाऽहसत् ॥२-३५-२०॥ तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती । हासम् ते नृपते सौम्य जिज्ञासामीति भाब्रवीत् ॥२-३५-२१॥ नृपश्चोवाच ताम् देवीम् देवि शम्सामि ते यदि । ततो मे मरणम् सद्यो भविष्यति न सम्शयः ॥२-३५-२२॥ माता ते पितरम् देवि ततह् केकयमब्रवीत् । शम्स मे जीव वा मा वा न मामपहसिष्यसि ॥२-३५-२३॥ प्रियया च तथोक्तः सन् केकयः पृथीवीपतिः । तस्मै तम् वरदायार्थम् कथयामास तत्त्वतः ॥२-३५-२४॥ ततः स वरदह् साधु राजानम् प्रत्यभाषत । म्रियताम् ध्वम्सताम् वेयम् मा कृथास्त्वम् महीपते ॥२-३५-२५॥ स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः । मातरम् ते निरस्याशु विजहार कुबेरवत् ॥२-३५-२६॥ तथा त्वमपि राजानम् दुर्जनाचरिते पथि । असद्ग्राहमिमम् मोहात्कुरुषे पापदर्शिनि ॥२-३५-२७॥ सत्यश्चाद्य प्रवादोऽयम् लौकिकः प्रतिभाति मा । पित्R^ऊन् समनुजायन्ते नरा मातरमङ्गनाः ॥२-३५-२८॥ नैवम् भव Gऋहाणेदम् यदाह वसुधाधिपः । भर्तुरिच्चामुपास्वेह जनस्यास्य गतिर्भव ॥२-३५-२९॥ मा त्वम् प्रोत्साहिता पापैर्देवराजसमप्रभम् । भर्तारम् लोकभर्तारमसद्धर्ममुपादधाः ॥२-३५-३०॥ न हि मिथ्या प्रतिज्ञातम् करिष्यति तवानघः । श्रीमान्दशरथो राजा देवि राजीवलोचनः ॥२-३५-३१॥ ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मपरिरक्षिता । रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम् ॥२-३५-३२॥ परिवादो हि ते देवि महान्लोके चरिष्यति । यदि रामो वनम् याति विहाय पितरम् नृपम् ॥२-३५-३३॥ स राज्यम् राघवः पातु भवत्वम् विगतज्वरा । न हि ते राघवादन्यः क्षमः पुरवरे वसेत् ॥२-३५-३४॥ रामे हि यौवराज्यस्थे राजा दशरथो वनम् । प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन् ॥२-३५-३५॥ इति सान्वैश्च तीक्ष्णै कैकेयीम् राजसम्सदि । सुवन्त्रः क्षोभयामास भूय एव कृताञ्जलिः ॥२-३५-३६॥ नैवसाक्षुभ्यते देवी न च स्म परिदूयते । न चास्या मुखवर्णस्य विक्रिया लक्ष्यते तदा ॥२-३५-३७॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥