रामायणम्/अयोध्याकाण्डम्/सर्गः ६४
दिखावट
← सर्गः ६३ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ६५ → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥ वधमप्रतिरूपम् तु महर्षेस्तस्य राघवः । विलपन्ने व धर्मात्मा कौसल्याम् पुन रब्रवीत् ॥२-६४-१॥ तत् अज्ञानान् महत् पापम् कृत्वा सम्कुलित इन्द्रियः । एकः तु अचिन्तयम् बुद्ध्या कथम् नु सुकृतम् भवेत् ॥२-६४-२॥ ततः तम् घटम् आदय पूर्णम् परम वारिणा । आश्रमम् तम् अहम् प्राप्य यथा आख्यात पथम् गतः ॥२-६४-३॥ तत्र अहम् दुर्बलाव् अन्धौ वृद्धाव् अपरिणायकौ । अपश्यम् तस्य पितरौ लून पक्षाव् इव द्विजौ ॥२-६४-४॥ तन् निमित्ताभिर् आसीनौ कथाभिर् अपरिक्रमौ । ताम् आशाम् मत् कृते हीनाव् उदासीनाव् अनाथवत् ॥२-६४-५॥ शोकोपहतचित्तश्च भयसम्त्रस्तचेतनः । तच्चाश्रमपदम् गत्वा भूयः शोकमहम् गतः ॥२-६४-६॥ पद शब्दम् तु मे श्रुत्वा मुनिर् वाक्यम् अभाषत । किम् चिरायसि मे पुत्र पानीयम् क्षिप्रम् आनय ॥२-६४-७॥ यन् निमित्तम् इदम् तात सलिले क्रीडितम् त्वया । उत्कण्ठिता ते माता इयम् प्रविश क्षिप्रम् आश्रमम् ॥२-६४-८॥ यद् व्यलीकम् कृतम् पुत्र मात्रा ते यदि वा मया । न तन् मनसि कर्तव्यम् त्वया तात तपस्विना ॥२-६४-९॥ त्वम् गतिस् तु अगतीनाम् च चक्षुस् त्वम् हीन चक्षुषाम् । समासक्ताः त्वयि प्राणाः किम्चिन् नौ न अभिभाषसे ॥२-६४-१०॥ मुनिम् अव्यक्तया वाचा तम् अहम् सज्जमानया । हीन व्यन्जनया प्रेक्ष्य भीतः भीतैव अब्रुवम् ॥२-६४-११॥ मनसः कर्म चेष्टाभिर् अभिसम्स्तभ्य वाग् बलम् । आचचक्षे तु अहम् तस्मै पुत्र व्यसनजम् भयम् ॥२-६४-१२॥ क्षत्रियो अहम् दशरथो न अहम् पुत्रः महात्मनः । सज्जन अवमतम् दुह्खम् इदम् प्राप्तम् स्व कर्मजम् ॥२-६४-१३॥ भगवमः च अपहस्तः अहम् सरयू तीरम् आगतः । जिघाम्सुः श्वा पदम् किम्चिन् निपाने वा आगतम् गजम् ॥२-६४-१४॥ ततः श्रुतः मया शब्दो जले कुम्भस्य पूर्यतः । द्विपो अयम् इति मत्वा हि बाणेन अभिहतः मया ॥२-६४-१५॥ गत्वा नद्याः ततः तीरम् अपश्यम् इषुणा हृदि । विनिर्भिन्नम् गत प्राणम् शयानम् भुवि तापसम् ॥२-६४-१६॥ भगवन् शब्दम् आलक्ष्य मया गज जिघाम्सुना । विसृष्टः अम्भसि नाराचः तेन ते निहतः सुतः ॥२-६४-१७॥ ततस्तस्यैव वचनादुपेत्य परितप्यतः । स मया सहसा बण उद्धृतो मर्मतस्तदा ॥२-६४-१८॥ स च उद्धृतेन बाणेन तत्र एव स्वर्गम् आस्थितः । भगवन्ताव् उभौ शोचन्न् अन्धाव् इति विलप्य च ॥२-६४-१९॥ अज्ञानात् भवतः पुत्रः सहसा अभिहतः मया । शेषम् एवम् गते यत् स्यात् तत् प्रसीदतु मे मुनिः ॥२-६४-२०॥ स तत् श्रुत्वा वचः क्रूरम् निह्श्वसन् शोक कर्शितः । नाशकत्तीव्रमायासमकर्तुम् भगवानृषिः ॥२-६४-२१॥ सबाष्पपूर्णवदनो निःश्वसन् शोककर्शितः । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-२२॥ यद्य् एतत् अशुभम् कर्म न स्म मे कथयेः स्वयम् । फलेन् मूर्धा स्म ते राजन् सद्यः शत सहस्रधा ॥२-६४-२३॥ क्षत्रियेण वधो राजन् वानप्रस्थे विशेषतः । ज्ञान पूर्वम् कृतः स्थानाच् च्यावयेद् अपि वज्रिणम् ॥२-६४-२४॥ सप्तधा तु फलेन्मूर्धा मुनौ तपसि तिष्ठति । ज्ञानाद्विसृजतः शस्त्रम् तादृशे ब्रह्मचारिणि ॥२-६४-२५॥ अज्ञानाद्द् हि कृतम् यस्मात् इदम् तेन एव जीवसि । अपि हि अद्य कुलम् नस्यात् राघवाणाम् कुतः भवान् ॥२-६४-२६॥ नय नौ नृप तम् देशम् इति माम् च अभ्यभाषत । अद्य तम् द्रष्टुम् इच्चावः पुत्रम् पश्चिम दर्शनम् ॥२-६४-२७॥ रुधिरेण अवसित अन्गम् प्रकीर्ण अजिन वाससम् । शयानम् भुवि निह्सम्ज्ञम् धर्म राज वशम् गतम् ॥२-६४-२८॥ अथ अहम् एकः तम् देशम् नीत्वा तौ भृश दुह्खितौ । अस्पर्शयम् अहम् पुत्रम् तम् मुनिम् सह भार्यया ॥२-६४-२९॥ तौ पुत्रम् आत्मनः स्पृष्ट्वा तम् आसाद्य तपस्विनौ । निपेततुः शरीरे अस्य पिता च अस्य इदम् अब्रवीत् ॥२-६४-३०॥ न न्व् अहम् ते प्रियः पुत्र मातरम् पश्य धार्मिक । किम् नु न आलिन्गसे पुत्र सुकुमार वचो वद ॥२-६४-३१॥ न त्वहम् ते प्रियः पुत्र मातरम् पस्य धार्मिक । किम् नु नालिङ्गसे पुत्र सुकुमार वचो वद ॥२-६४-३२॥ कस्य वा अपर रात्रे अहम् श्रोष्यामि हृदयम् गमम् । अधीयानस्य मधुरम् शास्त्रम् वा अन्यद् विशेषतः ॥२-६४-३३॥ को माम् सम्ध्याम् उपास्य एव स्नात्वा हुत हुत अशनः । श्लाघयिष्यति उपासीनः पुत्र शोक भय अर्दितम् ॥२-६४-३४॥ कन्द मूल फलम् हृत्वा को माम् प्रियम् इव अतिथिम् । भोजयिष्यति अकर्मण्यम् अप्रग्रहम् अनायकम् ॥२-६४-३५॥ इमाम् अन्धाम् च वृद्धाम् च मातरम् ते तपस्विनीम् । कथम् पुत्र भरिष्यामि कृपणाम् पुत्र गर्धिनीम् ॥२-६४-३६॥ तिष्ठ मा मा गमः पुत्र यमस्य सदनम् प्रति । श्वो मया सह गन्ता असि जनन्या च समेधितः ॥२-६४-३७॥ उभाव् अपि च शोक आर्ताव् अनाथौ कृपणौ वने । क्षिप्रम् एव गमिष्यावः त्वया हीनौ यम क्षयम् ॥२-६४-३८॥ ततः वैवस्वतम् दृष्ट्वा तम् प्रवक्ष्यामि भारतीम् । क्षमताम् धर्म राजो मे बिभृयात् पितराव् अयम् ॥२-६४-३९॥ दातुमर्हति धर्मात्मा लोकपालो महायशाः । ईदृषस्य ममाक्षय्या मेकामभयदक्षिणाम् ॥२-६४-४०॥ अपापो असि यथा पुत्र निहतः पाप कर्मणा । तेन सत्येन गच्च आशु ये लोकाः शस्त्र योधिनाम् ॥२-६४-४१॥ यान्ति शूरा गतिम् याम् च सम्ग्रामेष्व् अनिवर्तिनः । हताः तु अभिमुखाः पुत्र गतिम् ताम् परमाम् व्रज ॥२-६४-४२॥ याम् गतिम् सगरः शैब्यो दिलीपो जनमेजयः । नहुषो धुन्धुमारः च प्राप्ताः ताम् गच्च पुत्रक ॥२-६४-४३॥ या गतिः सर्व साधूनाम् स्वाध्यायात् पतसः च या । भूमिदस्य आहित अग्नेः चएक पत्नी व्रतस्य च ॥२-६४-४४॥ गो सहस्र प्रदातृऋणाम् या या गुरुभृताम् अपि । देह न्यास कृताम् या च ताम् गतिम् गच्च पुत्रक ॥२-६४-४५॥ न हि तु अस्मिन् कुले जातः गच्चति अकुशलाम् गतिम् । स तु यास्यति येन त्वम् निहतो मम बान्धवः ॥२-६४-४६॥ एवम् स कृपणम् तत्र पर्यदेवयत असकृत् । ततः अस्मै कर्तुम् उदकम् प्रवृत्तः सह भार्यया ॥२-६४-४७॥ स तु दिव्येन रूपेण मुनि पुत्रः स्व कर्मभिः । स्वर्गमाध्यारुहत् ख्षिप्रम् शक्रेण सह खर्मवित् ॥२-६४-४८॥ आबभाषे च वृद्धौ तौ सह शक्रेण तापसः । आश्वास्य च मुहूर्तम् तु पितरौ वाक्यम् अब्रवीत् ॥२-६४-४९॥ स्थानम् अस्मि महत् प्राप्तः भवतोह् परिचारणात् । भवन्ताव् अपि च क्षिप्रम् मम मूलम् उपैष्यतः ॥२-६४-५०॥ एवम् उक्त्वा तु दिव्येन विमानेन वपुष्मता । आरुरोह दिवम् क्षिप्रम् मुनि पुत्रः जित इन्द्रियः ॥२-६४-५१॥ स कृत्वा तु उदकम् तूर्णम् तापसः सह भार्यया । माम् उवाच महा तेजाः कृत अन्जलिम् उपस्थितम् ॥२-६४-५२॥ अद्य एव जहि माम् राजन् मरणे न अस्ति मे व्यथा । यत् शरेण एक पुत्रम् माम् त्वम् अकार्षीर् अपुत्रकम् ॥२-६४-५३॥ त्वया तु यद् अविज्ञानान् निहतः मे सुतः शुचिः । तेन त्वाम् अभिशप्स्यामि सुदुह्खम् अतिदारुणम् ॥२-६४-५४॥ पुत्र व्यसनजम् दुह्खम् यद् एतन् मम साम्प्रतम् । एवम् त्वम् पुत्र शोकेन राजन् कालम् करिष्यसि ॥२-६४-५५॥ अज्ञानात्तु हतो यस्मात् क्षत्रियेण त्वया मुनिः । तस्मात्त्वाम् नाविशत्याशु ब्रह्महत्या नराधिप ॥२-६४-५६॥ त्वामप्येतादृशो भावः क्षिप्रमेव गमिष्यति । जीवितान्तकरो घोरो दातारमिव दक्षिणा ॥२-६४-५७॥ एवम् शापम् मयि न्यस्य विलप्य करुणम् बहु । चितामारोप्य देहम् तन्मिथुनम् स्वर्गमभ्ययात् ॥२-६४-५८॥ तदेतच्चिन्तयानेन स्मऋतम् पापम् मया स्वयम् । तदा बाल्यात्कृतम् देवि शब्दवेध्यनुकर्षिणा ॥२-६४-५९॥ तस्यायम् कर्मणो देवि विपाकः समुपस्थितः । अपथ्यैः सह सम्भुक्ते व्याधिरन्नरसे यथा ॥२-६४-६०॥ तस्मान् माम् आगतम् भद्रे तस्य उदारस्य तत् वचः । यद् अहम् पुत्र शोकेन सम्त्यक्ष्याम्य् अद्य जीवितम् ॥२-६४-६१॥ चक्षुर्भ्याम् त्वाम् न पश्यामि कौसल्ये साधु माम्स्फृश । इत्युक्त्वा स रुदम्स्त्रस्तो भार्यामाह च भूमिपः ॥२-६४-६२॥ एतन्मे सदृशम् देवि यन्मया राघवे कृतम् । सदृशम् तत्तु तस्यैव यदनेन कृतम् मयि ॥२-६४-६३॥ दुर्वृत्तमपि कः पुत्रम् त्यजेद्भुवि विचक्षणः । कश्च प्रव्राज्यमानो वा नासूयेत्पितरम् सुतः ॥२-६४-६४॥ यदि माम् सम्स्पृशेद् रामः सकृदद्य लभेत वा । यमक्षयमनुप्राप्ता द्रक्ष्यन्ति न हि मानवाः ॥२-६४-६५॥ चक्षुषा त्वाम् न पश्यामि स्मृतिर् मम विलुप्यते । दूता वैवस्वतस्य एते कौसल्ये त्वरयन्ति माम् ॥२-६४-६६॥ अतः तु किम् दुह्खतरम् यद् अहम् जीवित क्षये । न हि पश्यामि धर्मज्ञम् रामम् सत्य पराक्यमम् ॥२-६४-६७॥ तस्यादर्शनजः शोकः सुतस्याप्रतिकर्मणः । उच्चोषयति मे प्राणान्वारि स्तोकमिवातवः ॥२-६४-६८॥ न ते मनुष्या देवाः ते ये चारु शुभ कुण्डलम् । मुखम् द्रक्ष्यन्ति रामस्य वर्षे पन्च दशे पुनः ॥२-६४-६९॥ पद्म पत्र ईक्षणम् सुभ्रु सुदम्ष्ट्रम् चारु नासिकम् । धन्या द्रक्ष्यन्ति रामस्य तारा अधिप निभम् मुखम् ॥२-६४-७०॥ सदृशम् शारदस्य इन्दोह् फुल्लस्य कमलस्य च । सुगन्धि मम नाथस्य धन्या द्रक्ष्यन्ति तन् मुखम् ॥२-६४-७१॥ निवृत्त वन वासम् तम् अयोध्याम् पुनर् आगतम् । द्रक्ष्यन्ति सुखिनो रामम् शुक्रम् मार्ग गतम् यथा ॥२-६४-७२॥ कौसल्ये चित्त मोहेन हृदयम् सीदतीव मे । वेदये न च समुक्तान् शब्दस्पर्शरसानहम् ॥२-६४-७३॥ चित्तनाशाद्विपद्यन्ते सर्वाण्येवेन्द्रियाणि मे । क्षिणस्नेहस्य दीपस्य सम्सक्ता रश्मयो यथा ॥२-६४-७४॥ अयम् आत्म भवः शोको माम् अनाथम् अचेतनम् । सम्सादयति वेगेन यथा कूलम् नदी रयः ॥२-६४-७५॥ हा राघव महा बाहो हा मम आयास नाशन । हा पितृप्रिय मे नाथ हाद्य क्वासि गतः सुत ॥२-६४-७६॥ हा कौसल्ये नशिष्यामि हा सुमित्रे तपस्विनि । हा नृशम्से ममामित्रे कैकेयि कुलपाम्सनि ॥२-६४-७७॥ इति रामस्य मातुश्च सुमित्रायाश्च सन्निधौ । राजा दशरथः शोचन् जीवित अन्तम् उपागमत् ॥२-६४-७८॥ यथा तु दीनम् कथयन् नर अधिपः । प्रियस्य पुत्रस्य विवासन आतुरः । गते अर्ध रात्रे भृश दुह्ख पीडितः । तदा जहौ प्राणम् उदार दर्शनः ॥२-६४-७९॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे चतुःषष्ठितमः सर्गः ॥२-६४॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
[सम्पाद्यताम्]