रामायणम्/अयोध्याकाण्डम्/सर्गः १०९

विकिस्रोतः तः
Jump to navigation Jump to search
← सर्गः १०८ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ११० →
रामायणम्/अयोध्याकाण्डम्
जाबालेस्तु वच: श्रुत्वा राम: सत्यात्मनां वर: । 
उवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ।। २.१०९.१ ।। 

भवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् । 
अकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ।। २.१०९.२ ।। 

निर्मर्यादस्तु पुरुष: पापाचारसमन्वित: । 
मानं न लभते सत्सु भिन्नचारित्रदर्शन: ।। २.१०९.३ ।। 

कुलीनमकुलीनं वा वीरं पुरुषमानिनम् । 
चारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ।। २.१०९.४ ।। 

अनार्यस्त्वार्यसङ्काश: शौचाद्धीनस्तथा शुचि: । 
लक्षण्यवदलक्षण्यो दु:शील: शीलवानिव ।। २.१०९.५ ।। 

अधर्मं धर्मवेषेण यदीमं लोकसङ्करम् । 
अभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ।। २.१०९.६ ।। 

कश्चेतयान: पुरुष: कार्याकार्यविचक्षण: । 
बहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ।। २.१०९.७ ।। 

कस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् । 
अनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ।। २.१०९.८ ।। 

कामवृत्तस्त्वयं लोक: कृत्स्न: समुपवर्त्तते । 
यद्वृत्ता: सन्ति राजानस्तद्वृत्ता: सन्ति हि प्रजा: ।। २.१०९.९ ।। 

सत्यमेवानृशंसञ्च राजवृत्तं सनातनम् । 
तस्मात्सत्यात्मकं राज्यं सत्ये लोक: प्रतिष्ठित: ।। २.१०९.१० ।। 

ऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे । 
सत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ।। २.१०९.११ ।। 

उद्विजन्ते यथा सर्प्पान्नरादनृतवादिन: । 
धर्म: सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ।। २.१०९.१२ ।। 

सत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा । 
सत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ।। २.१०९.१३ ।। 

दत्तमिष्टं हुतं चैव तप्तानि च तपांसि च । 
वेदा: सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ।। २.१०९.१४ ।। 

एक: पालयते लोकमेक: पालयते कुलम् । 
मज्जत्येको हि निरय एक: स्वर्गे महीयते ।। २.१०९.१५ ।। 

सो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये । 
सत्यप्रतिश्रव: सत्यं सत्येन समयीकृत: ।। २.१०९.१६ ।। 

नैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वित: । 
सेतुं सत्यस्य भेत्स्यामि गुरो: सत्यप्रतिश्रव: ।। २.१०९.१७ ।। 

असत्यसन्धस्य सतश्चलस्यास्थिरचेतस: । 
नैव देवा न पितर: प्रतीच्छन्तीति न: श्रुतम् ।। २.१०९.१८ ।। 

प्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् । 
भार: सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ।। २.१०९.१९ ।। 

क्षात्ऺत्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् । 
क्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभि: ।। २.१०९.२० ।। 

कायेन कुरुते पापं मनसा सम्प्रधार्य च । 
अनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ।। २.१०९.२१ ।। 

भूमि: कीर्त्तिर्यशो लक्ष्मी: पुरुषं प्रार्थयन्ति हि । 
स्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ।। २.१०९.२२ ।। 

श्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् । 
आह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ।। २.१०९.२३ ।। 

कथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ । 
भरतस्य करिष्यामि वचो हित्वा गुरोर्वच: ।। २.१०९.२४ ।। 

स्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ । 
प्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ।। २.१०९.२५ ।। 

वनवासं वसन्नेवं शुचिर्नियतभोजन: । 
मूलै: पुष्पै: फलै: पुण्यै: पितऽन् देवांश्च तर्पयन् ।। २.१०९.२६ ।। 

सन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये । 
अकुह: श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षण: ।। २.१०९.२७ ।। 

कर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् । 
अग्निर्वायुश्च सोमश्च कर्मणां फलभागिन: ।। २.१०९.२८ ।। 

शतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गत: । 
तपांस्युग्राणि चास्थाय दिवं याता महर्षय: ।। २.१०९.२९ ।। 

अमृष्यमाण: पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् । 
अथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ।। २.१०९.३० ।। 

सत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च । 
द्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्त: ।। २.१०९.३१ ।। 

तेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्रा: । 
धर्मं चरन्त: सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ता: ।। २.१०९.३२ ।। 

निन्दाम्यहं कर्म पितु: कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् । 
बुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ।। २.१०९.३३ ।। 

यथा हि चोर: स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि । 
तस्माद्धि य: शङ्क्यतम: प्रजानां न नास्तिकेनाभिमुखो बुध: स्यात् ।। २.१०९.३४ ।। 

त्वत्तो जना: पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रु: । 
जित्वा सदेमं च परञ्च लोकं तस्माद्द्विजा: स्वस्ति हुतं कृतं च ।। २.१०९.३५ ।। 

धर्मे रता: सत्पुरुषै: समेतास्तेजस्विनो दानगुणप्रधाना: । 
अहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनय: प्रधाना: ।। २.१०९.३६ ।। 

इति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् । 
उवाच तथ्यं पुनरास्तिकं च सत्यं वच: सानुनयं च विप्र: ।। २.१०९.३७ ।। 

न नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन। 
समीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः।।२.१०९.३८।। 

स चापि कालो ऽयमुपागत: शनैर्यथा मया नास्तिकवागुदीरिता । 
निवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ।। २.१०९.३९ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे नवोत्तरशततम: सर्ग: ।। १०९ ।।
</poem>