रामायणम्/अयोध्याकाण्डम्/सर्गः ३२
< रामायणम् | अयोध्याकाण्डम्
Jump to navigation
Jump to search
← सर्गः ३१ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ३३ → |
रामायणम्/अयोध्याकाण्डम् |
---|
ततः शासनम् आज्ञाय भ्रातुः शुभतरम् प्रियम् । गत्वा स प्रविवेश आशु सुयज्ञस्य निवेशनम् ॥२-३२-१॥ तम् विप्रम् अग्नि अगारस्थम् वन्दित्वा लक्ष्मणो अब्रवीत् । सखे अभ्यागच्च पश्य त्वम् वेश्म दुष्कर कारिणः ॥२-३२-२॥ ततः सम्ध्याम् उपास्य आशु गत्वा सौमित्रिणा सह । जुष्टम् तत् प्राविशल् लक्ष्म्या रम्यम् राम निवेशनम् ॥२-३२-३॥ तम् आगतम् वेदविदम् प्रान्जलिः सीतया सह । सुयज्ञम् अभिचक्राम राघवो अग्निम् इव अर्चितम् ॥२-३२-४॥ जात रूपमयैः मुख्यैः अन्गदैः कुण्डलैः शुभैः । सहेम सूत्रैः मणिभिः केयूरैः वलयैः अपि ॥२-३२-५॥ अन्यैः च रत्नैः बहुभिः काकुत्स्थः प्रत्यपूजयत् । सुयज्ञम् स तदा उवाच रामः सीता प्रचोदितः ॥२-३२-६॥ हारम् च हेम सूत्रम् च भार्यायै सौम्य हारय । रशनाम् च अधुना सीता दातुम् इच्चति ते सखे ॥२-३२-७॥ अङ्गदानि विचित्राणि केयूराणि शुभानि च । पर्यन्कम् अग्र्य आस्तरणम् नाना रत्न विभूषितम् ॥२-३२-८॥ पर्यङ्कमग्र्यास्तरणम् नानारत्नविभूषितम् । तम् अपि इच्चति वैदेही प्रतिष्ठापयितुम् त्वयि ॥२-३२-९॥ नागः शत्रुम् जयो नाम मातुलो यम् ददौ मम । तम् ते गज सहस्रेण ददामि द्विज पुम्गव ॥२-३२-१०॥ इति उक्तः स हि रामेण सुयज्ञः प्रतिगृह्य तत् । राम लक्ष्मण सीतानाम् प्रयुयोज आशिषः शिवाः ॥२-३२-११॥ अथ भ्रातरम् अव्यग्रम् प्रियम् रामः प्रियम् वदः । सौमित्रिम् तम् उवाच इदम् ब्रह्मा इव त्रिदश ईश्वरम् ॥२-३२-१२॥ अगस्त्यम् कौशिकम् चैव ताव् उभौ ब्राह्मण उत्तमौ । अर्चय आहूय सौमित्रे रत्नैः सस्यम् इव अम्बुभिः ॥२-३२-१३॥ तर्पयस्व महाबाहो गोसहसरैश्च मानद । सुवर्णै रजतैश्चैव मणिभिश्च महाधनैः ॥२-३२-१४॥ कौसल्याम् च याअशीर्भिर् भक्तः पर्युपतिष्ठति । आचार्यः तैत्तिरीयाणाम् अभिरूपः च वेदवित् ॥२-३२-१५॥ तस्य यानम् च दासीः च सौमित्रे सम्प्रदापय । कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः ॥२-३२-१६॥ सूतः चित्र रथः च आर्यः सचिवः सुचिर उषितः । तोषय एनम् महा अर्हैः च रत्नैः वस्त्रैः धनैअः तथा ॥२-३२-१७॥ पशुकाभिकछ सर्वाभिर्गवाम् दशशतेन च । ये चेमे कथकालापा बहवो दण्डमाणवाः ॥२-३२-१८॥ नित्यस्वाध्यायशीलत्वान्नान्यत्कुर्वन्ति किम्चन । अलसाः स्वादुकामाश्च महताम् चापि सम्मताः ॥२-३२-१९॥ शालि वाह सहस्रम् च द्वे शते भद्रकाम्स् तथा । व्यन्जन अर्थम् च सौमित्रे गो सहस्रम् उपाकुरु ॥२-३२-२०॥ मेखलीनाम् महासघः कौसल्याम् समुपस्थितः । तेषाम् सहस्रम् सौमित्रे प्रत्येकम् सम्प्रदापय ॥२-३२-२१॥ अम्बा यथा च सा नन्देत्कौसल्या मम दक्षिणाम् । तथा द्विजातीम् स्तान्सर्वान् लक्ष्मणार्च ॥२-३२-२२॥ ततः स पुरुष व्याघ्रः तत् धनम् लक्ष्मणः स्वयम् । यथा उक्तम् ब्राह्मण इन्द्राणाम् अददात् धनदो यथा ॥२-३२-२३॥ अथ अब्रवीद् बाष्प कलाम्स् तिष्ठतः च उपजीविनः । सम्प्रदाय बहु द्रव्यम् एकैकस्य उपजीविनः ॥२-३२-२४॥ लक्ष्मणस्य च यद् वेश्म गृहम् च यद् इदम् मम । अशून्यम् कार्यम् एकैकम् यावद् आगमनम् मम ॥२-३२-२५॥ इति उक्त्वा दुह्खितम् सर्वम् जनम् तम् उपजीविनम् । उवाच इदम् धन ध्यक्षम् धनम् आनीयताम् इति ॥२-३२-२६॥ ततः अस्य धनम् आजह्रुः सर्वम् एव उपजीविनः । स राशिः सुमहाम्स्तत्र दर्शनीयो ह्यदृश्यत ॥२-३२-२७॥ ततः स पुरुष व्याघ्रः तत् धनम् सह लक्ष्मणः । द्विजेभ्यो बाल वृद्धेभ्यः कृपणेभ्यो अभ्यदापयत् ॥२-३२-२८॥ तत्र आसीत् पिन्गलो गार्ग्यः त्रिजटः नाम वै द्विजः । क्षतवृत्तिर्वने नित्यम् फालकुद्दाललाङ्गली ॥२-३२-२९॥ तम् वृद्धम् तरुणी भार्या बालानादाय दारकान् । अब्रवीद्बाह्मणम् वाक्यम् दारिद्र्येणाभिपीडिता ॥२-३२-३०॥ अपास्य फालम् कुद्दालम् कुरुष्व वचनम् ममम् । रामम् दर्शय धर्मज्Jनम् यदि किम्चिदवाप्स्यसि ॥२-३२-३१॥ स भार्यावचनम् श्रुत्वा शाटीमाच्छाद्य दुश्छदाम् । स प्रतिष्ठत पन्थानम् यत्र रामनिवेशनम् ॥२-३२-३२॥ भृग्वङ्गिरसमम् दीप्त्या त्रिजटम् जनसम्सदि । आ पन्चमायाः कक्ष्याया न एनम् कश्चित् अवारयत् ॥२-३२-३३॥ स राज पुत्रम् आसाद्य त्रिजटः वाक्यम् अब्रवीत् । निर्धनो बहु पुत्रः अस्मि राज पुत्र महा यशः । क्षतवृत्तिर्वने नित्यम् प्रत्यवेक्षस्व मामिति ॥२-३२-३४॥ तमुवाच ततो रामः परिहाससमन्वितम् । गवाम् सहस्रमप्येकम् न च विश्राणितम् मया । परिक्षिपसि दण्डेन यावत्तावदवाप्य्ससि ॥२-३२-३५॥ स शाटीम् त्वरितः कट्याम् सम्ब्रान्तः परिवेष्ट्य ताम् । आविद्ध्य दण्डम् चिक्षेप सर्वप्राणेन वेगितः ॥२-३२-३६॥ स तीर्त्वा सरयूपारम् दण्डस्तस्य कराच्च्युतः । गोव्रजे बहुसाहास्रे पपातोक्षणसन्निधौ ॥२-३२-३७॥ तम् परिष्वज्य धर्मात्मा आतस्मात्सरयूतटात् । आनयामास ता गोपैस्त्रिजटायाश्रमम् प्रति ॥२-३२-३८॥ उवाच च ततो रामस्तम् गार्ग्यमभिसान्त्वयन् । मन्युर्न खलु कर्तव्यः परिहासो ह्ययम् मम ॥२-३२-३९॥ इदम् हि तेजस्तव यद्धुरत्ययम् । तदेव जिज्ञासितु मिच्छता मया । इमम् भवानर्थमभिप्रचोदितो । वृणीष्व किम्चेदपरम् व्यवस्यति ॥२-३२-४०॥ ब्रवीमि सत्येन न तेऽस्ति यन्त्रणा । धनम् हि यद्यन्मम विप्रकारणात् । भवत्सु सम्यक्र्पतिपादनेन त । न्मयार्जितम् प्रीतियश्स्करम् भवेत् ॥२-३२-४१॥ तत स्सभार्य स्त्रिजटो महामुनि । र्गवामनीकम् प्रतिगृह्य मोदितः । यशोबलप्रीतिसुखोपबृम्हणी । स्तदाशिषः प्रत्यवदन्महात्मनः ॥२-३२-४२॥ स चापि रामः प्रतिपूर्णमानसो । महद्धनम् धर्मबलैरुपार्जितम् । नियोजयामास सुहृज्जनेऽचिरा । द्यथार्हसम्मानवचःप्रचोदितः ॥२-३२-४३॥ द्विजः सुहृद्भृत्यजनोऽथवा तदा । दरिद्रभिक्षाचरणश्च योऽभवत् । न तत्र कश्चिन्न बभूव तर्पितो । यथार्ह सम्मानन दान सम्ब्रमैः ॥२-३२-४४॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥