रामायणम्/अयोध्याकाण्डम्/सर्गः १०१
दिखावट
← सर्गः १०० | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः १०२ → |
रामायणम्/अयोध्याकाण्डम् |
---|
रामस्य वचनं श्रुत्वा भरत: प्रत्युवाच ह । किं मे धर्माद्विहीनस्य राजधर्म: करिष्यति ।। २.१०१.१ ।। शाश्वतो ऽयं सदा धर्म्म: स्थितो ऽस्मासु नरर्षभ । ज्येष्ठपुत्रे स्थिते राजन्न कनीयान् नृपो भवेत् ।। २.१०१.२ ।। स समृद्धां मया सार्द्धमयोध्यां गच्छ राघव । अभिषेचय चात्मानं कुलस्यास्य भवाय न: ।। २.१०१.३ ।। राजानं मानुषं प्राहुर्देवत्वे स मतो मम । यस्य धर्मार्थसहितं वृत्तमाहुरमानुषम् ।। २.१०१.४ ।। केकयस्थे च मयि तु त्वयि चारण्यमाश्रिते । दिवमार्यो गतो राजा यायजूक: सतां मत: ।। २.१०१.५ ।। निष्क्रान्तमात्रे भवति सहसीते सलक्ष्मणे । दु:खशोकाभिभूतस्तु राजा त्रिदिवमभ्यगात् ।। २.१०१.६ ।। उत्तिष्ठ पुरुषव्याघ्र क्रियतामुदकं पितु: । ऺअहं चायं च शत्रुघ्न: पूर्वमेव कृतोदकौ ।। २.१०१.७ ।। प्रियेण खलु दत्तं हि पितृलोकेषु राघव । अक्षय्यं भवतीत्याहुर्भवांश्चैव पितु: प्रिय: ।। २.१०१.८ ।। त्वामेव शोचंस्तव दर्शनेप्सुस्त्वय्येव सक्तामनिवर्त्य बुद्धिम् । त्वया विहीनस्तव शोकरुग्णस्त्वां संस्मरन्नस्तमित: पिता ते ।। २.१०१.९ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोत्तरशततम:सर्ग: ।। १०१ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्रस्रोतः
[सम्पाद्यताम्]