रामायणम्/अयोध्याकाण्डम्/सर्गः ७९
दिखावट
← सर्गः ७८ | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ८० → |
रामायणम्/अयोध्याकाण्डम् |
---|
श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥ ततः प्रभात समये दिवसे अथ चतुर्दशे । समेत्य राज कर्तारः भरतम् वाक्यम् अब्रुवन् ॥२-७९-१॥ गतः दशरथः स्वर्गम् यो नो गुरुतरः गुरुः । रामम् प्रव्राज्य वै ज्येष्ठम् लक्ष्मणम् च महा बलम् ॥२-७९-२॥ त्वम् अद्य भव नो राजा राज पुत्र महा यशः । सम्गत्या न अपराध्नोति राज्यम् एतत् अनायकम् ॥२-७९-३॥ आभिषेचनिकम् सर्वम् इदम् आदाय राघव । प्रतीक्षते त्वाम् स्व जनः श्रेणयः च नृप आत्मज ॥२-७९-४॥ राज्यम् गृहाण भरत पितृ पैतामहम् महत् । अभिषेचय च आत्मानम् पाहि च अस्मान् नर ऋषभ ॥२-७९-५॥ आभिषेचनिकम् भाण्डम् कृत्वा सर्वम् प्रदक्षिणम् । भरतः तम् जनम् सर्वम् प्रत्युवाच धृत व्रतः ॥२-७९-६॥ ज्येष्ठस्य राजता नित्यम् उचिता हि कुलस्य नः । न एवम् भवन्तः माम् वक्तुम् अर्हन्ति कुशला जनाः ॥२-७९-७॥ रामः पूर्वो हि नो भ्राता भविष्यति मही पतिः । अहम् तु अरण्ये वत्स्यामि वर्षाणि नव पन्च च ॥२-७९-८॥ युज्यताम् महती सेना चतुर् अन्ग महा बला । आनयिष्याम्य् अहम् ज्येष्ठम् भ्रातरम् राघवम् वनात् ॥२-७९-९॥ आभिषेचनिकम् चैव सर्वम् एतत् उपस्कृतम् । पुरः कृत्य गमिष्यामि राम हेतोर् वनम् प्रति ॥२-७९-१०॥ तत्र एव तम् नर व्याघ्रम् अभिषिच्य पुरः कृतम् । आनेष्यामि तु वै रामम् हव्य वाहम् इव अध्वरात् ॥२-७९-११॥ न सकामा करिष्यामि स्वम् इमाम् मातृ गन्धिनीम् । वने वत्स्याम्य् अहम् दुर्गे रामः राजा भविष्यति ॥२-७९-१२॥ क्रियताम् शिल्पिभिः पन्थाः समानि विषमाणि च । रक्षिणः च अनुसम्यान्तु पथि दुर्ग विचारकाः ॥२-७९-१३॥ एवम् सम्भाषमाणम् तम् राम हेतोर् नृप आत्मजम् । प्रत्युवाच जनः सर्वः श्रीमद् वाक्यम् अनुत्तमम् ॥२-७९-१४॥ एवम् ते भाषमाणस्य पद्मा श्रीर् उपतिष्ठताम् । यः त्वम् ज्येष्ठे नृप सुते पृथिवीम् दातुम् इच्चसि ॥२-७९-१५॥ अनुत्तमम् तत् वचनम् नृप आत्मज । प्रभाषितम् सम्श्रवणे निशम्य च । प्रहर्षजाः तम् प्रति बाष्प बिन्दवो । निपेतुर् आर्य आनन नेत्र सम्भवाः ॥२-७९-१६॥ ऊचुस् ते वचनम् इदम् निशम्य हृष्टाः । सामात्याः सपरिषदो वियात शोकाः । पन्थानम् नर वर भक्तिमान् जनः च । व्यादिष्टः तव वचनाच् च शिल्पि वर्गः ॥२-७९-१७॥ इति वाल्मीकि रामायणे आदि काव्ये अयोध्याकाण्डे एकोनाशीतितमः सर्गः ॥२-७९॥पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र उपलभ्यते ।स्रोतः
[सम्पाद्यताम्]