रामायणम्/अयोध्याकाण्डम्/सर्गः ११३

विकिस्रोतः तः
← सर्गः ११२ रामायणम्/अयोध्याकाण्डम्
अयोध्याकाण्डम्
वाल्मीकिः
सर्गः ११४ →
त्रयोदशाधिकशततमः सर्गः श्रूयताम्
रामायणम्/अयोध्याकाण्डम्
तत: शिरसि कृत्वा तु पादुके भरतस्तदा । 
आरुरोह रथं हृष्ट: शत्रुघ्नेन समन्वित: ।। २.११३.१ ।। 

वसिष्ऺठो वामदेवश्च जाबालिश्च दृढव्रत: । 
अग्रत: प्रययु: सर्वे मन्त्रिणो मन्त्रपूजिता: ।। २.११३.२ ।। 

मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा । 
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ।। २.११३.३ ।। 

पश्यन् धातुसहस्राणि रम्याणि विविधानि च । 
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ।। २.११३.४ ।। 

अदूराच्चित्रकूटस्य ददर्श भरतस्तदा । 
आश्रमं यत्र स मुनिर्भरद्वाज: कृतालय: ।। २.११३.५ ।। 

स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् । 
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ।। २.११३.६ ।। 

ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् । 
अपि कृत्यं कृतं तात रामेण च समागतम् ।। २.११३.७ ।। 

एवमुक्त: स तु ततो भरद्वाजेन धीमता । 
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सल: ।। २.११३.८ ।। 

स याच्यमानो गुरुणा मया च दृढविक्रम: । 
राघव: परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ।। २.११३.९ ।। 

पितु: प्रतिज्ञां तामेव पालयिष्यामि तत्त्वत: । 
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ।। २.११३.१० ।। 

एवमुक्तो महाप्राज्ञो वसिष्ठ: प्रत्युवाच ह । 
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ।। २.११३.११ ।। 

एते प्रयच्छ संहृष्ट: पादुके हेमभूषिते । 
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ।। २.११३.१२ ।। 

एवमुक्तो वसिष्ठेन राघव: प्राङ्मुख: स्थित: । 
पादुके अधिरुह्यैते मम राज्याय वै ददौ ।। २.११३.१३ ।। 

निवृत्तो ऽहमनुज्ञातो रामेण सुमहात्मना । 
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ।। २.११३.१४ ।। 

एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । 
भरद्वाज: शुभतरं मुनिर्वाक्यमुवाच तम् ।। २.११३.१५ ।। 

नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर । 
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ।। २.११३.१६ ।। 

अमृत: स महाबाहु: पिता दशरथस्तव । 
यस्य त्वमीदृश: पुत्रो धर्मज्ञो धर्मवत्सल: ।। २.११३.१७ ।। 

तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलि: । 
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ।। २.११३.१८ ।। 

तत: प्रदक्षिणं कृत्वा भरद्वाजं पुन:पुन: । 
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभि: ।। २.११३.१९ ।। 

यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमू: । 
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ।। २.११३.२० ।। 

ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् । 
ददृशुस्तां पुन: सर्वे गङ्गां शुभजलां नदीम् ।। २.११३.२१ ।। 

तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धव: । 
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिक: ।। २.११३.२२ ।। 

शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ।। २.११३.२३ ।। 

अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् । 
भरतो दु:खसन्तप्त: सारथिं चेदमब्रवीत् ।। २.११३.२४ ।। 

सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते । 
निराकारा निरानन्दा दीना प्रतिहतस्वरा ।। २.११३.२५ ।। 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रयोदशोत्तरशततम: सर्ग: ।। ११३ ।।

स्रोतः[सम्पाद्यताम्]

पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र