रामायणम्/अयोध्याकाण्डम्/सर्गः ९१
दिखावट
← सर्गः ९० | रामायणम्/अयोध्याकाण्डम् अयोध्याकाण्डम् वाल्मीकिः |
सर्गः ९२ → |
रामायणम्/अयोध्याकाण्डम् |
---|
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।। २.९१.१ ।। अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।। २.९१.२ ।। अथोवाच भरद्वाजो भरतं प्रहसन्निव । जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ।। २.९१.३ ।। सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् । मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ।। २.९१.४ ।। किमर्थं चापि निक्षिप्य दूरे बलमिहागत: । कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ।। २.९१.५ ।। भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ।। २.९१.६ ।। राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ।। २.९१.७ ।। वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।। २.९१.८ ।। ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । न हिंस्युरिति तेनाहमेक एव समागत: ।। २.९१.९ ।। आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । ततस्तु चक्रे भरत: सेनाया: समुपागमम् ।। २.९१.१० ।। अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.११ ।। आह्वये विश्वकर्माणमहं त्वष्टारमेव च । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१२ ।। आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१३ ।। प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। २.९१.१४ ।। अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् । अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।। २.९१.१५ ।। आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ।। २.९१.१६ ।। घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ।। २.९१.१७ ।। शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: । सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ।। २.९१.१८ ।। वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् । दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ।। २.९१.१९ ।। इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।। २.९१.२० ।। विचित्राणि च माल्यानि पादपप्रच्युतानि च । सुरादीनि च पेयानि मांसानि विविधानि च ।। २.९१.२१ ।। एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ।। २.९१.२२ ।। मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: । आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ।। २.९१.२३ ।। मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: । उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ।। २.९१.२४ ।। ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: । दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ।। २.९१.२५ ।। प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: । प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ।। २.९१.२६ ।। स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ।। २.९१.२७ ।। तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ।। २.९१.२८ ।। बभूव हि समा भूमि: समन्तात्पञ्चयोजना । शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ।। २.९१.२९ ।। तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: । आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ।। २.९१.३० ।। उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् । आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ।। २.९१.३१ ।। चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् । हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ।। २.९१.३२ ।। सितमेघनिभं चापि राजवेश्मसु तोरणम् । दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ।। २.९१.३३ ।। चतुरश्रमसम्बाधं शयनासनयानवत् । दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।। २.९१.३४ ।। क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ।। २.९१.३५ ।। अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: । बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ।। २.९१.३६ ।। तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ।। २.९१.३७ ।। आसनं पूजयामास रामायाभिप्रणम्य च । वालव्यजनमादाय न्यषीदत् सचिवासने ।। २.९१.३८ ।। आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: । तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ।। २.९१.३९ ।। ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: । उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।। २.९१.४० ।। तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: । रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ।। २.९१.४१ ।। तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: । आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ।। २.९१.४२ ।। सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: । आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ।। २.९१.४३ ।। याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते । आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ।। २.९१.४४ ।। नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: । एते गन्धर्वराजानो भरतस्याग्रतो जगु: ।। २.९१.४५ ।। अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ।। २.९१.४६ ।। यानि माल्यानि देवेषु यानि चैत्ररथे वने । प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।। २.९१.४७ ।। बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ।। २.९१.४८ ।। तत: सरलतालाश्च तिलका नक्तमालका: । प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ।। २.९१.४९ ।। शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । मालती मल्लिका जातिर्याश्चान्या: कानने लता: ।। २.९१.५० ।। प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।। २.९१.५१ ।। उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ।। २.९१.५२ ।। संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ।। २.९१.५३ ।। हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। २.९१.५४ ।। इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ।। २.९१.५५ ।। नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ।। २.९१.५६ ।। तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ।। २.९१.५७ ।। नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।। २.९१.५८ ।। इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।। २.९१.५९ ।। सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ।। २.९१.६० ।। नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ।। २.९१.६१ ।। ततो भुक्तवतां तेषां तदन्नममृतोपमम् । दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ।। २.९१.६२ ।। प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ।। २.९१.६३ ।। कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।। २.९१.६४ ।। नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ।। २.९१.६५ ।। आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ।। २.९१.६६ ।। पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: । ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ।। २.९१.६७ ।। बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: । ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ।। २.९१.६८ ।। वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: । प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ।। २.९१.६९ ।। पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ।। २.९१.७० ।। स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: । यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ।। २.९१.७१ ।। ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे । बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ।। २.९१.७२ ।। कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ।। २.९१.७३ ।। शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ।। २.९१.७४ ।। दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । पादुकोपानहश्चैव युग्मानि च सहस्रश: ।। २.९१.७५ ।। आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। २.९१.७६ ।। प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।। २.९१.७७ ।। आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।। २.९१.७८ ।। निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ।। २.९१.७९ ।। व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ।। २.९१.८० ।। इत्येवं रममाणानां देवानामिव नन्दने । भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ।। २.९१.८१ ।। प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ।। २.९१.८२ ।। तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: । तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ।। २.९१.८३ ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ।। ९१ ।।पाठकौ घनपाठी वि.श्रीरामः, घनपाठी हरिसीताराममूर्तिः च । अत्र </poem>स्रोतः
[सम्पाद्यताम्]