नारदपुराणम्- पूर्वार्धः/अध्यायः ४३
भरद्वाज उवाच ।।
यदि प्राणपतिर्वायुर्वायुरेव विचेष्टते ।।
श्वसित्याभाषते चैव ततो जीवो निरर्थकः ।। ४३-१ ।।
य ऊष्मभाव आग्नेयो वह्निनैवोपलभ्यते ।।
अग्निर्जरयते चैतत्तदा जीवो निरर्थकः ।। ४३-२ ।।
जंतोः प्रम्नियमाणस्य जीवो नैवोपलभ्यते ।।
वायुरेव जहात्येनमूष्मभावश्च नश्यति ।। ४३-३ ।।
यदि वाथुमयो जीवः संश्लेषो यदि वायुना ।।
वायुमंजलवत्पश्येद्गच्छेत्सह मरुद्गुणैः ।। ४३-४ ।।
संश्लेषो यदि वा तेन यदि तस्मात्प्रणश्यति ।।
महार्णवविमुक्तत्वादन्यत्सलिलभाजनम् ।। ४३-५ ।।
कृपे वा सलिलं दद्यात्प्रदीपं वा हुताशने ।।
क्षिप्रं प्रविश्य नश्येत यथा नश्यत्यसौ तथा ।। ४३-६ ।।
पंचधारणके ह्यस्मिञ्छरीरे जीवितं कृतम् ।।
येषामन्यतराभावाञ्चतुर्णां नास्ति संशयः ।। ४३-७ ।।
नश्यंत्यापो ह्यनाहाराद्वायुरुच्छ्वासनिग्रहात् ।।
नश्यते कोष्टभेदार्थमग्रिर्नश्यत्यभोजनात् ।। ४३-८ ।।
व्याधित्रणपरिक्लेशैर्मेदिनी चैव शीर्यते ।।
पीडितेऽन्यतरे ह्येषां संघातो याति पंचताम् ।। ४३-९ ।।
तस्मिन्पंचत्वमापन्ने जीवः किमनुधावति ।।
किं खेदयति वा जीवः किं श्रृणोति ब्रवीति च ।। ४३-१० ।।
एषा गौः परलोकस्थं तारयिष्यतिमामिति ।।
यो दत्त्वा म्रियते जंतुः सा गौः कं तारयिष्यति ।। ४३-११ ।।
गौश्चप्रतिग्रहीता च दाता चैव समं यदा ।।
इहैव विलयं यांति कुतस्तेषां समागमः ।। ४३-१२ ।।
विहगैरुपभुक्तस्य शैलाग्रात्पतितस्य च ।।
अग्निना चोपयुक्तस्य कुतः संजीवनं पुनः ।। ४३-१३ ।।
छिन्नस्य यदि वृक्षस्य न मूलं प्रतिरोहति ।।
जीवन्यस्य प्रवर्तंते मृतः क्व पुनरेष्यति ।। ४३-१४ ।।
जीवमात्रं पुरा सृष्टं यदेतत्परिवर्तते ।।
मृताः प्रणश्यंति बीजाद्बीजं प्रणश्यति ।। ४३-१५ ।।
इति मे संशयो ब्रह्मन्हृदये परिधावति ।।
त निवर्तय सर्वज्ञ यतस्त्वामाश्रितो ह्यहम् ।। ४३-१६ ।।
सनंदन उवाच ।।
एवं पृष्टस्तदानेन स भृगर्ब्रह्मणः सुतः ।।
पुनराहु मुनिश्रेष्ट तत्संदेहनिवृत्तये ।। ४३-१७ ।।
भृगुरुवाच ।।
न प्राणाः सन्ति जीवस्य दत्तस्य च कृतस्य च ।।
याति देहांतरं प्राणी शरीरं तु विशीर्यते ।। ४३-१८ ।।
न शरीराश्रितो जीवस्तस्मिन्नष्टे प्रणश्यति ।।
समिधामग्निदग्धानां यथाग्रिर्द्दश्यते तथा ।। ४३-१९ ।।
भरद्वाज उवाच ।।
अग्नेर्यथा तस्य नाशात्तद्विनाशो न विद्यते ।।
इन्धनस्योपयोगांते स वाग्निर्नोपलभ्यते ।। ४३-२० ।।
नश्यतीत्येव जानामि शांतमग्निमनिन्धनम् ।।
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ।। ४३-२१ ।।
भृगुरुवाच ।।
समिधामुपयोगांते स चाग्निर्नोपलभ्यते ।।
नश्यतीत्येव जानामि शांतमग्निमनिंधनम् ।। ४३-२२ ।।
गतिर्यस्य प्रमाणं वा संस्थानं वा न विद्यते ।।
समिधामुपयोगांते यथाग्निर्नोपलभ्यते ।। ४३-२३ ।।
आकाशानुगतत्वाद्धि दुर्ग्राह्यो हि निराश्रयः ।।
तथा शरीरसंत्यागे जीवो ह्याकाशवत्स्थितः ।। ४३-२४ ।।
न नश्यते सुसूक्ष्मत्वाद्यथा ज्योतिर्न संशयः ।।
प्राणान्धारयते ह्यग्निः स जीव उपधार्यताम् ।। ४३-२५ ।।
वायुसंधारणो ह्यग्निर्नश्यत्युच्छ्वासनिग्रहात् ।।
तस्मिन्नष्टे शरीराग्नौ ततो देहमचेतनम् ।। ४३-२६ ।।
पतितं याति भूमित्वमयनं तस्य हि क्षितिः ।।
जगमानां हि सर्वेषां स्थावराणां तथैव च ।। ४३-२७ ।।
आकाशं पवनोऽन्वेति ज्योतिस्तमनुगच्छति ।।
तेषां त्रयाणामेकत्वाद्वयं भूमौ प्रतिष्टितम् ।। ४३-२८ ।।
यत्र खं तत्र पवनस्तत्राग्निर्यत्र मारुतः ।।
अमूर्तयस्ते विज्ञेया मूर्तिमंतः शरीरिणः ।। ४३-२९ ।।
भरद्वाज उवाच ।।
यद्यग्निमारुतौ भूमिः खमापश्च शरीरिषु ।।
जीवः किंलक्षणस्तत्रेत्येतदाचक्ष्व मेऽनघ ।। ४३-३० ।।
पंचात्मके पञ्चरतौ पञ्चविज्ञानसंज्ञके ।।
शरीरे प्राणिनां जीवं वेत्तुभिच्छामि यादृशम् ।। ४३-३१ ।।
मांसशोणितसंघाते मेदःस्नाय्वस्थिसंचये ।।
भिद्यमाने शरीरे तु जीवो नैवोपलभ्यते ।। ४३-३२ ।।
यद्यजीवशरीरं तु पञ्चभूतसमन्वितम् ।।
शरीरे मानसे दुःख कस्तां वेदयते रुजम् ।। ४३-३३ ।।
श्रृणोति कथितं जीवः कर्णाभ्यांन श्रृणोति तत् ।।
महर्षे मनसि व्यग्रे तस्माज्जीवो निरर्थकः ।। ४३-३४ ।।
सर्वे पश्यंति यदृश्यं मनोयुक्तेन चक्षुषा ।।
मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति ।। ४३-३५ ।।
न पश्यति न चाघ्राति न श्रृणोति न भाषते ।।
न च स्मर्शमसौ वेत्ति निद्रावशगतः पुनः ।। ४३-३६ ।।
हृष्यति क्रुद्ध्यते कोऽत्र शोचत्युद्विजते च कः ।।
इच्छति ध्यायति द्वेष्टि वाक्यं वाचयते च कः ।। ४३-३७ ।।
भृगुरुवाच ।।
तं पंचसाधारणमत्र किंचिच्छरीरमेको वहतेंऽतरात्मा ।।
स वेत्ति गंधांश्च रसाञ्छुतीश्च स्पर्शं च रूपं च गुणांश्च येऽल्ये ।। ४३-३८ ।।
पंचात्मके पंचगुणप्रदर्शी स सर्वगात्रानुगतोंऽतरात्मा ।।
सवेति दुःखानि सुखानि चात्र तद्विप्रयोगात्तु न वेत्ति देहम् ।। ४३-३९ ।।
यदा न रूपं न स्पर्शो नोष्यभवश्च पावके ।।
तदा शांते शरीराग्नौ देहत्यागेन नश्यति ।। ४३-४० ।।
आपोमयमिदं सर्वमापोमूर्तिः शरीरिणाम् ।।
तत्रात्मा मानसो ब्रह्मा सर्वभूतेषु लोककृत् ।। ४३-४१ ।।
आत्मानं तं विजानीहि सर्वलोकहितात्मकम् ।।
तस्मिन्यः संश्रितो देहे ह्यब्बिंदुरिव पुष्करे ।। ४३-४२ ।।
क्षेत्रज्ञं तं विजानीहि नित्यं लोकहितात्मकम् ।।
तमोरजश्च सत्त्वं च विद्धि जीवगुणानिमाम् ।। ४३-४३ ।।
अचेतनं जीवगुणं वदंति स चेष्टते चेष्टयते च सर्वम् ।।
अतः परं क्षेत्रविदो वदंति प्रावर्तयद्यो भुवनानि सप्त ।। ४३-४४ ।।
न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्मुन इत्यबुद्धाः ।।
जीवस्तु देहांतरितः प्रयाति दशार्द्धतस्तस्य शरीरभेदः ।। ४३-४५ ।।
एवं भूतेषु सर्वेषु गूढश्चरति सर्वदा ।।
दृश्यते त्वग्र्या बुध्यासूक्ष्मया तत्त्वदर्शिभिः ।। ४३-४६ ।।
तं पूर्वापररात्रेषु युंजानः सततं बुधः ।।
लब्धाहारो विशुद्धात्मा पश्यत्यात्मानमात्मनि ।। ४३-४७ ।।
चित्तस्य हि प्रसादेन हित्वा कर्म शुभाशुभम् ।।
प्रसन्नात्मात्मनि स्थित्वा सुखमानंत्यमश्नुते ।। ४३-४८ ।।
मानसोऽग्निः शरीरेषु जीव इत्यभिधीयते ।।
सृष्टिः प्रजापतेरेषा भूताध्यात्मविनिश्चये ।। ४३-४९ ।।
असृजद्ब्राह्मणानेव पूर्वं ब्रह्मा प्रजापतिः ।।
आत्मतेजोऽभिनि र्वृत्तान्भास्कराग्निसमप्रभान् ।। ४३-५० ।।
ततः सत्यं च धर्मं च तथा ब्रह्म च शाश्वतम् ।।
आचारं चैव शौचं च स्वर्गाय विदधे प्रभुः ।। ४३-५१ ।।
देवदानवगंधर्वा दैत्यासुरमहोरगाः ।।
यक्षराक्षसनागाश्च पिशाचा मनुजास्तथा ।। ४३-५२ ।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राणामसितस्तथा ।।
भरद्वाज उवाच ।।
चातुर्वर्ण्यस्य वर्णेन यदि वर्णो विभिद्यते ।। ४३-५३ ।।
स्वेदमूत्रपुरीषाणि श्लेष्मा पित्त सशोणितम् ।।
त्वन्तः क्षरति सर्वेषां कस्माद्वर्णो विभज्यते ।। ४३-५४ ।।
जंगमानामसंख्येयाः स्थावराणां च जातयः ।।
तेषां विविधवर्णानां कुतो वर्णविनिश्चयः ।। ४३-५५ ।।
भृगुरुवाच ।।
न विशेषोऽस्ति वर्णानां सर्वं ब्रह्ममयं जगत् ।।
ब्रह्मणा पूर्वसृष्टं हि कर्मणा वर्णतां गतम् ।। ४३-५६ ।।
कामभोगाः प्रियास्तीक्ष्णाः क्रोधताप्रियसाहसाः ।।
त्यक्तस्वकर्मरक्तांगास्ते द्विजाः क्षत्रतां गताः ।। ४३-५७ ।।
गोभ्यो वृत्तिं समास्थाय पीताः कृष्युपजीविनः ।।
स्वधर्म्मन्नानुतिष्टंति ते द्विजा वैश्यतां गताः ।। ४३-५८ ।।
र्हिसानृतपरा लुब्धाः सर्वकर्मोपजीविनः ।।
कृष्णाः शौचपारिभ्राष्टास्ते द्विजाः शूद्रतां गताः ।। ४३-५९ ।।
इत्येतैः कर्मभिर्व्याप्ता द्विजा वर्णान्तरं गताः ।।
ब्राह्मणा धर्मतन्त्रस्थास्तपस्तेषां न नश्यति ।। ४३-६० ।।
ब्रह्म धारयतां नित्यं व्रतानि नियमांस्तथा ।।
ब्रह्म चैव पुरा सृष्टं येन जानंति तद्विदः ।। ४३-६१ ।।
तेषां बहुविधास्त्वन्यास्तत्र तत्र द्विजातयः ।।
पिशाचा राक्षसाः प्रेता विविधा म्लेच्छजातयः ।।
सा सृष्टिर्मानसी नाम धर्मतंत्रपरायणा ।। ४३-६२ ।।
भरद्वाज उवाच ।।
ब्राह्मणः केन भवति क्षत्रियो वा द्विजोत्तम ।।
वैश्यः शूद्रश्च विप्रर्षे तद्ब्रूहि वदतां वर ।। ४३-६३ ।।
भृगुरुवाच ।।
जातकर्मादिभिर्यस्तु संस्कारैः संस्कृतः शुचिः ।।
वेदाध्ययनसंपन्नो ब्रह्मकर्मस्ववस्थितः ।। ४३-६४ ।।
शौचाचारस्थितः सम्यग्विद्याभ्यासी गुरुप्रियः ।।
नित्यव्रती सत्यपरः स वै ब्राह्मण उच्यते ।। ४३-६५ ।।
सत्यं दानमथोऽद्रोह आनृशंस्यं कृपा घृणा ।।
तपस्यां दृश्यते यत्र स ब्राह्मण इति स्मृतः ।। ४३-६६ ।।
क्षत्रजं सेवते कर्म वेदाध्ययनसंगतः ।।
दानादानरतिर्यस्तु स वै क्षत्रिय उच्यते ।। ४३-६७ ।।
विशत्याशु पशुभ्यश्च कृष्यादानरतिः शुचिः ।।
वेदाध्ययनसंपन्नः स वैश्य इति संज्ञितः ।। ४३-६८ ।।
सर्वभक्षरतिर्नित्यं सर्वकर्मकरोऽशुचिः ।।
त्यक्तवेदस्त्वनाचारः स वै शूद्र इति स्मृतः ।। ४३-६९ ।।
शूद्रे चैतद्भवेल्लक्ष्म द्विजे तच्च न विद्यते ।।
न वै शूद्रो भवेच्छूद्रो ब्राह्मणो ब्राह्मणो न च ।। ४३-७० ।।
सर्वोपायैस्तु लोभस्य क्रोधस्य च विनिग्रहः ।।
एतत्पवित्रं ज्ञानानां तथा चैवात्मसंयमः ।। ४३-७१ ।।
वर्ज्यौ सर्वात्मना तौ हि श्रेयोघातार्थमुद्यतौ ।।
नित्यक्रोधाच्छ्रियं रक्षेत्तपो रक्षेत्तु मत्सरात् ।। ४३-७२ ।।
विद्यां मानापमानाभ्यामात्मानं तु प्रमादतः ।। ४३-७३ ।।
यस्य सर्वे समारंभा निराशीर्बंधना द्विज ।।
त्यागे यस्य हुतं सर्वं स त्यागी स च बुद्धिमान् ।। ४३-७४ ।।
अहिंस्त्रः सर्वभूतानां मैत्रायण गतश्चरेत् ।।
परिग्रहात्परित्यज्य भवेद्बद्ध्या जितेंद्रियः ।। ४३-७५ ।।
अशोकस्थानमाति वेदिह चामुत्र चाभयम् ।।
तपोनित्येन दांतेन मुनिना संयतात्ममना ।। ४३-७६ ।।
अजितं जेतुकामेन व्यासंगेषु ह्यसंगिना ।।
इन्द्रियैर्गृह्यते यद्यत्तत्तद्व्यक्तमिति स्थितिः ।। ४३-७७ ।।
अव्यक्तमिति विज्ञेयं लिंगग्राह्यमतींद्रियम् ।।
अविश्रंभेण मंतव्यं विश्रंभे धारयेन्मनः ।। ४३-७८ ।।
मनः प्राणेन गृह्णीयात्प्राणं ब्रह्मणि धारयेत् ।।
निवेदादेव निर्वाणं न च किंचिद्विच्चितयेत् ।। ४३-७९ ।।
सुखं वै ब्रह्मणो ब्रह्मन्निर्वेदेनाधिगच्छति ।।
शौचे तु सततं युक्तः सदाचारसमन्वितः ।। ४३-८० ।।
स्वनुक्रोशश्च भूतेषु तद्द्विजातिषु लक्षणम् ।।
सत्यंव्रतं तपः शौचं सत्यं विसृजते प्रजा ।। ४३-८१ ।।
सत्येन धार्यते लोकः स्वः सत्येनैव गच्छति ।।
अनृतं तमसो रूपं तमसा नीयते ह्यधः ।। ४३-८२ ।।
तमोग्रस्तान पश्यंति प्रकाशंतमसावृताः ।।
सुदुष्प्रकाश इत्याहुर्नरकं तम एव च ।। ४३-८३ ।।
सत्यानृतं तदुभयं प्राप्यते जगतीचरैः ।।
तत्राप्येवंविधा लोके वृत्तिः सत्यानृते भवेत् ।। ४३-८४ ।।
धर्माधर्मौ प्रकाशश्च तमो दुःखसुखं तथा ।।
शारीरैर्मानसैर्दुःखैः सुखैश्चाप्यसुखोदयैः ।। ४३-८५ ।।
लोकसृष्टं प्रपश्यन्तो न मुह्यंति विचक्षणाः ।।
तत्र दुःखविमोक्षार्थं प्रयतेत विचक्षणः ।। ४३-८६ ।।
सुखं ह्यनित्यं भूतानामिह लोके परत्र च ।।
राहुग्रस्तस्य सोमस्य यथा ज्योत्स्ना न भासते ।। ४३-८७ ।।
तथा तमोभिभूतानां भूतानां नश्यते सुखम् ।। ४३-८८ ।।
तत्खलु द्विविधं सुखमुच्यचते शरीरं मानसं च ।।
इह खल्वमुष्मिंश्च लोके वस्तुप्रवृत्तयः सुखार्थमभिधीयन्ते नहीतः परत्रापर्वगफलाद्विशिष्टतरमस्ति ।।
स एव काम्यो गुणविशेषो धर्मार्थगुणारंभगस्तद्धेतुरस्योत्पत्तिः सुखप्रयोजनार्थमारंभाः ।।
भरद्वाज उवाच ।।
वदैतद्भवताभिहितं सुखानां परमा स्थितिरिति ।। ४३-८९ ।।
न तदुपगृह्णीमो न ह्येषामृषीणां महति स्थितानाम् ।। ४३-९० ।।
अप्राप्य एष काम्य गुणविशेषो न चैनमभिशीलयंति ।।
तपसि श्रूयते त्रिलोककृद्ब्रह्मा प्रभुरेकाकी तिष्टति ब्रह्मचारी न कामसुखोष्वात्मानमवदधाति ।। ४३-९१ ।।
अपि च भगवान्विश्वेश्वर उमापतिः काममभिवर्तमानमनंगत्वेन सममनयत् ।। ४३-९२ ।।
तस्माद्भूमौ न तु महात्मभिरंजयति गृहीतो न त्वेष तावद्विशिष्टो गुणविशेष इति ।। ४३-९३ ।।
नैतद्भगवतः प्रत्येमि भवता तूक्तं सुखानां परमाः स्त्रिय इति लोकप्रवादो हि द्विविधः
फलोदयः सुकृतात्सुखमवाप्यतेऽन्यथा दुःखमिति ।। ४३-९४ ।।
भृगुरुवाच ।।
अत्रोच्यते अनृतात्खलु तमः प्रादुर्भूतं ततस्तमोग्रस्ता अधर्ममेवानुवर्तंते न धर्मं
क्रोधलोभमोहहिंसानृतादिभिखच्छन्नाः खल्वस्मिंल्लोके नामुत्र सुखमाप्नुवंति
विविधव्याधिरुजोपतापैरवकीर्यन्ते वधबन्धनपरिक्लेशादिभिश्च क्षुत्पिपासाश्रमकृतैरुपतापैरुपतप्यंते
वर्षवातात्युष्णातिशीतकृतैश्च प्रतिभयैः शारीरैर्दुःखैरुपतप्यंते बंधुधनविनाशविप्रयोगकृतैश्च मानसैः शौकैरभिभूयंते जरामृत्युकृतैश्चान्यैरिति यस्त्वेतैः ।। ४३-९५ ।।
शारीरं मानसं नास्ति न जरा न च पातकम् ।।
नित्यमेव सुखं स्वर्गे सुखं दुःखमिहोभयम् ।। ४३-९६ ।।
नरके दुःखमेवाहुः सुखं तत्परमं पदम् ।।
पृथिवी सर्वभूतानां जनित्री तद्विधाः स्त्रियः ।। ४३-९७ ।।
पुमान्प्रजापतिस्तत्रशुक्रं तेजोमयं विदुः ।।
इत्येतल्लोकनिर्माता धर्मस्य चरितस्य च ।। ४३-९८ ।।
तपसश्च सुतप्तस्य स्वाध्यायस्य हुतस्य च ।।
हुतेन शाम्यते पापं स्वाध्याये शांतिरुत्तमा ।। ४३-९९ ।।
दानेन भोगानित्याहुस्त पसा स्वर्गमाप्नुयात् ।।
दानं तु द्विविधं प्राहुः परत्रार्थमिहैव च ।। ४३-१०० ।।
सद्भ्यो यद्दीयते किंचित्तत्परत्रोपतिष्टते ।।
असद्भ्यो दीयते यत्तु तद्दानमिह भुज्यते ।।
यादृशं दीयते दानं तादृशं फलमश्नुते ।। ४३-१०१ ।।
भरद्वाज उवाच ।।
किं कस्य धर्मचरणं किं वा धर्मस्य लक्षणम् ।।
धर्मः कतिविधो वापि तद्भवान्वक्तुमर्हति ।। ४३-१०२ ।।
भृगुरुवाच ।।
स्वधर्माचरणे युक्ता ये भवंति मनीषिणः ।।
तेषां स्वर्गपलावाप्तिर्योऽन्यथा स विमुह्यते ।। ४३-१०३ ।।
भरद्वाज उवाच ।।
यदेतञ्चातुराश्रम्यं ब्रह्मर्षिविहितं पुरा ।।
तेषां स्वे स्वे समाचारास्तन्मे वक्तुमिहार्हसि ।। ४३-१०४ ।।
भृगुरुवाच ।।
पूर्वमेव भगवता ब्रह्मणा लोकहितमनुतिष्टता धर्मसंरक्षणार्थमाश्रमाश्चत्वारोऽभिनिर्द्दिष्टाः ।।
४३-१०५ ।।
तत्र गुरुकुलवासमेव प्रथममाश्रममाहरंति सम्यगत्र शौचसस्कारनियमव्रतविनियतात्मा उभे संध्ये भास्कराग्निदैवतान्युपस्थाय विहाय तद्ध्यालस्यं गुरोरभिवादनवेदाब्यासश्रवणपवित्रघीकृतांतरात्मा त्रिषवणमुपस्पृश्य ब्रह्मचर्याग्निपरिचरणगुरुशुश्रूषा
नित्यभिक्षाभैक्ष्यादिसर्वनिवेदितांतरात्मा गुरुवचननिदेशानुष्टानाप्रतिकूलो गुरुप्रसादलब्धस्वाध्यायतत्परः स्यात् ।। ४३-१०६ ।।
भवति चात्र श्लोकः ।।
गुरुं यस्तु समाराध्य द्विजो वेदमावान्पुयात् ।।
तस्य स्वर्गफलावाप्तिः सिद्ध्यते चास्य मानसम् ।।
इति गार्हस्थ्यं खलु द्वितीयमाश्रमं वदंति ।। ४३-१०७ ।।
तस्य सदा चारलक्षणं सर्वमनुव्याख्यास्यामः ।।
समावृतानां सदाचाराणां सहधर्मचर्यफलार्थिनां गृहाश्रमो विधीयते ।। ४३-१०८ ।।
धर्मार्थकामावाप्तिर्ह्य.त्र त्रिवर्गसाधनमपेक्ष्यागर्हितकर्मणा धनान्यादाय स्वाध्यायोपलब्धप्रकर्षेण वा
ब्रह्मर्षिनिर्मितेन वा अद्भिः सागरगतेन वा द्रव्यनियमाभ्यासदैवतप्रसादोपलब्धेन वा धनेन गृहस्थो गार्हस्थ्यं वर्तयेत् ।। ४३-१०९ ।।
तद्धि सर्वाश्रमणां मूलमुदाहरंति गुरुकुलनिवासिनः परिव्राजका येऽन्ये
संकल्पितव्रतनियमधर्मानुष्टानिनस्तेषामप्यंतरा च भिक्षाबलिसंविभागाः प्रवर्तंते ।। ४३-११० ।।
वानप्रस्थानां च द्रव्योपस्कार इति प्रायशः खल्वेते साधवः साधुपथ्योदनाः
स्वाध्यायप्रसंगिनस्तीर्थाभिगमनदेशदर्शनार्थं पृथिवीं पर्यटंति ।। ४३-१११ ।।
तेषां प्रत्युत्थानाभिगमनमनसूयावाक्यदानसुखसत्कारासनसुखशयनाभ्यवहारसत्क्रिया चेति ।। ४३-११२ ।।
भवति चात्र श्लोकः ।।
अतिथिर्यस्य भग्नाशो गृहात्प्रतिनिवर्तते ।।
स दत्त्वा दुष्कृतं तस्मै पुण्यमादाय गच्छति ।। ४३-११३ ।।
अपि चात्र यज्ञक्रियाभिर्देवताः प्रीयंते निवापेन पितरो
विद्याभ्यासश्रवणधारणेन ऋषयः अपत्योत्पादनेन प्रजापतिरिति ।। ४३-११४ ।।
लोकौ चात्र भवतः ।।
वात्सल्याः सर्वभूतेभ्यो वायोः श्रोत्रस्तथा गिरा ।।
परितापोदपघातश्च पारुष्यं चात्र गर्हितम् ।। ४३-११५ ।।
अवज्ञानमहंकारो दंभश्चैव विगर्हितः ।।
अहिंसा सत्यमक्रोदं सर्वाश्रमगतं तपः ।। ४३-११६ ।।
अपि चात्र माल्याभरणवस्त्राभ्यंगनित्योपभोगनृत्यगीतवादित्रश्रुतिसुखनयनस्नेहरामादर्शनानां
प्राप्तिर्भक्ष्यभोज्यलेह्यपेयचोष्याणामभ्यवहार्य्याणां विविधानामुपभोगः ।। ४३-११७ ।।
स्वविहारसंतोषः कामसुखावाप्तिरिति ।।
त्रिवर्गगुणनिर्वृत्तिर्यस्य नित्यं गृहाश्रमे ।।
स सुखान्यनुभूयेह शिष्टानां गतिमाप्नुयात् ।। ४३-११८ ।।
उंछवृत्तिर्गृहस्थो यः स्वधर्म चरणे रतः ।।
त्यक्तकामसुखारंभः स्वर्गस्तस्य न दुर्लभः ।। ४३-११९ ।।
वानप्रस्थाः खल्वपि धर्ममनुसरंतः पुण्यानि तीर्थानि नदीप्रस्रवणानि स्वभक्तेष्वरण्येषु
मृगवराहमहिष शार्दूलवनगजाकीर्णेषु तपस्यंते अनुसंचरंति ।। ४३-१२० ।।
त्यक्तग्राम्यवस्त्राभ्यवहारोपभोगा वन्यौषधिफलमूलपर्णपरिमितविचित्रनियताहाराः
स्थानासनिनोभूपाषाणसिकताशर्करावालुकाभस्मशायिनः काशुकुशचर्मवल्कलसंवृतांगाः
केशश्यश्रुनखरोमधारिणो नियतकालोपस्पर्शनाःशुष्कबलिहोमकालानुष्टायिनः ।।
समित्कुशकुसुमापहारसंमार्जनलब्धविश्रामाः शीतोष्णपवनविष्टं भविभिन्नसर्वत्वचो
विविधनियमयोगचर्यानुष्टानविहितपरिशुष्कमांसशोणितत्वगस्थिभूता धृतिपराः सत्त्वयोगाच्छरीराण्युद्वहंते ।। ४३-१२१ ।।
यस्त्वेतां नियतचर्यां ब्रह्मर्षिविहितां चरेत् ।।
स दहेदग्निवद्दोषाञ्जयेल्लोकांश्च दुर्जयान् ।। ४३-१२२ ।।
परिव्राजकानां पुनराचारः तद्यथा ।।
विमुच्याग्निं धनकलत्रपरिबर्हसंगेष्वात्मानं स्नेहपाशानवधूय परिव्रजंति ।।
समलोष्टाश्मकांचनास्त्रिवर्गप्रवृत्तेष्वसक्तबुद्धयः ।। ४३-१२३ ।।
अरिमित्रोदासीनां तुल्यदर्शनाः स्थावरजरायुजांडजस्वेदजानां भूतानां वाङ्मनृःकर्मभिरनभिरनभिद्रोहिणोऽनिकेताः
पर्वतपुलिनवृक्षमूलदेवायतनान्यनुसंचरंतो वा सार्थमुपेयुर्नगरं ग्रामं वा न क्रोधदर्पलोभमोहकार्पण्यदंभपरिवादाभिमाननिर्वृत्तहिंसा इति ।। ४३-१२४ ।।
भवंति चात्र श्लोकाः ।।
अभयं सर्वभूतेभ्यो दत्त्वा यश्चरते मुनिः ।।
न तस्य सर्वभूतेभ्यो भयमुत्पद्यते क्वचित् ।। ४३-१२५ ।।
कृत्वाग्निहोत्रं स्वशरीरसंस्थं शरीरमग्निं स्वमुखे जुहोति ।।
विप्रस्तु भैक्षोपगतैर्हविर्भिश्चिताग्निना संव्रजते हि सोकान् ।। ४३-१२६ ।।
मोक्षाश्रमं यश्चरते यथोक्तं शुचिः स्वसंकल्पितयुक्तबुद्धिः ।।
अनिंधनं ज्योतिरिव प्रशांतं स ब्रह्मलोकं श्रयते द्विजातिः ।। ४३-१२७ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे भृगुभरद्वाजसंवादे ब्राह्मणाचारनिरूपणं नाम त्रिचत्वारिंशोऽध्यायः ।।