सामग्री पर जाएँ

नारदपुराणम्- पूर्वार्धः/अध्यायः ७९

विकिस्रोतः तः
नारदपुराणम्- पूर्वार्धः
  1. अध्यायः १
  2. अध्यायः २
  3. अध्यायः ३
  4. अध्यायः ४
  5. अध्यायः ५
  6. अध्यायः ६
  7. अध्यायः ७
  8. अध्यायः ८
  9. अध्यायः ९
  10. अध्यायः १०
  11. अध्यायः ११
  12. अध्यायः १२
  13. अध्यायः १३
  14. अध्यायः १४
  15. अध्यायः १५
  16. अध्यायः १६
  17. अध्यायः १७
  18. अध्यायः १८
  19. अध्यायः १९
  20. अध्यायः २०
  21. अध्यायः २१
  22. अध्यायः २२
  23. अध्यायः २३
  24. अध्यायः २४
  25. अध्यायः २५
  26. अध्यायः २६
  27. अध्यायः २७
  28. अध्यायः २८
  29. अध्यायः २९
  30. अध्यायः ३०
  31. अध्यायः ३१
  32. अध्यायः ३२
  33. अध्यायः ३३
  34. अध्यायः ३४
  35. अध्यायः ३५
  36. अध्यायः ३६
  37. अध्यायः ३७
  38. अध्यायः ३८
  39. अध्यायः ३९
  40. अध्यायः ४०
  41. अध्यायः ४१
  42. अध्यायः ४२
  43. अध्यायः ४३
  44. अध्यायः ४४
  45. अध्यायः ४५
  46. अध्यायः ४६
  47. अध्यायः ४७
  48. अध्यायः ४८
  49. अध्यायः ४९
  50. अध्यायः ५०
  51. अध्यायः ५१
  52. अध्यायः ५२
  53. अध्यायः ५३
  54. अध्यायः ५४
  55. अध्यायः ५५
  56. अध्यायः ५६
  57. अध्यायः ५७
  58. अध्यायः ५८
  59. अध्यायः ५९
  60. अध्यायः ६०
  61. अध्यायः ६१
  62. अध्यायः ६२
  63. अध्यायः ६३
  64. अध्यायः ६४
  65. अध्यायः ६५
  66. अध्यायः ६६
  67. अध्यायः ६७
  68. अध्यायः ६८
  69. अध्यायः ६९
  70. अध्यायः ७०
  71. अध्यायः ७१
  72. अध्यायः ७२
  73. अध्यायः ७३
  74. अध्यायः ७४
  75. अध्यायः ७५
  76. अध्यायः ७६
  77. अध्यायः ७७
  78. अध्यायः ७८
  79. अध्यायः ७९
  80. अध्यायः ८०
  81. अध्यायः ८१
  82. अध्यायः ८२
  83. अध्यायः ८३
  84. अध्यायः ८४
  85. अध्यायः ८५
  86. अध्यायः ८६
  87. अध्यायः ८७
  88. अध्यायः ८८
  89. अध्यायः ८९
  90. अध्यायः ९०
  91. अध्यायः ९१
  92. अध्यायः ९२
  93. अध्यायः ९३
  94. अध्यायः ९४
  95. अध्यायः ९५
  96. अध्यायः ९६
  97. अध्यायः ९७
  98. अध्यायः ९८
  99. अध्यायः ९९
  100. अध्यायः १००
  101. अध्यायः १०१
  102. अध्यायः १०२
  103. अध्यायः १०३
  104. अध्यायः १०४
  105. अध्यायः १०५
  106. अध्यायः १०६
  107. अध्यायः १०७
  108. अध्यायः १०८
  109. अध्यायः १०९
  110. अध्यायः ११०
  111. अध्यायः १११
  112. अध्यायः ११२
  113. अध्यायः ११३
  114. अध्यायः ११४
  115. अध्यायः ११५
  116. अध्यायः ११६
  117. अध्यायः ११७
  118. अध्यायः ११८
  119. अध्यायः ११९
  120. अध्यायः १२०
  121. अध्यायः १२१
  122. अध्यायः १२२
  123. अध्यायः १२३
  124. अध्यायः १२४
  125. अध्यायः १२५

सनत्कुमार उवाच ।।
अथापरं वायुसूनोश्चरितं पापनाशनम् ।।
यदुक्तं स्वासु रामेण आनन्दवनवासिना ।। ७९-१ ।।

सद्योजाते महाकल्पे श्रुतवीर्ये हनूमति ।।
मम श्रीरामचन्द्रस्य भक्तिरस्तु सदैव हि ।। ७९-२ ।।

श्रृणुष्व गदतो मत्तः कुमारस्य कुमारक ।।
चरितं सर्वपापघ्नं श्रृण्वतां पठतां सदा ।। ७९-३ ।।

वांछाम्यहं सदा विप्र संगमं कीशरूपिणा ।।
रहस्यं रहसि स्वस्य ममानन्दवनोत्तमे ।। ७९-४ ।।

परीतेऽत्र सखायो मे सख्यश्च विगतज्वराः ।।
क्रीडंति सर्वदा चात्र प्राकट्येऽपि रहस्यपि ।। ७९-५ ।।

कस्मिंश्चिदवतारे तु यद्वृत्तं च रहो मम ।।
तदत्र प्रकटं तुभ्यं करोमि प्रीतमानसः ।। ७९-६ ।।

आविर्भूतोऽस्म्यहं पूर्वं राज्ञो दशरथक्षये ।।
चतुर्यूहात्मकस्तकत्र तस्य भार्यात्रये मुने ।। ७९-७ ।।

ततः कतिपयैरब्दैरागतो द्विजपुंगवः ।।
विश्वामित्रोऽर्थयामास पितरं मम भूपतिम् ।। ७९-८ ।।

यक्षरक्षोविघातार्थं लक्ष्मणेन सहैव माम् ।।
प्रेषयामास धर्मात्मा सिद्धाश्रममरम्यकम् ।। ७९-९ ।।

तत्र गत्वाश्रममृबेर्दूषयन्ती निशाचरौ ।।
ध्वस्तौ सुबाहुमारीचौ प्रसन्नोऽभूत्तदा मुनिः ।। ७९-१0 ।।

अस्त्रग्रामं ददौ मह्यं मासं चावासयत्तथा ।।
ततो गाधिसुतोधीमान् ज्ञात्वा भाव्यर्थमादरात् ।। ७९-११ ।।

मिथिलामनयत्तत्र रौद्रं चादर्शयद्ध्वनुः ।।
तस्य कन्यां पणीभूतां सीतां सुरसुतोपमाम् ।। ७९-१२ ।।

धनुर्विभज्य समिति लब्धवान्मानिनोऽस्य च ।।
ततो मार्गे भृगुपतेर्दर्प्पमूढं चिरं स्मयन् ।। ७९-१३ ।।

व्यषनीयागमं पश्चादयोध्यां स्वपितुः पुरीम् ।।
ततो राज्ञाहमाज्ञाय प्रजाशीलनमानसः ।। ७९-१४ ।।

यौवराज्ये स्वयं प्रीत्या सम्मंत्र्यात्पैर्विकल्पितः ।।
तच्छुत्वा सुप्रिया भार्या कैकैयी भूपतिं मुने ।। ७९-१५ ।।

देवकार्यविधानार्थं विदूषितमतिर्जगौ ।।
पुत्रो मे भरतो नाम यौवराज्येऽभिषिच्यताम् ।। ७९-१६ ।।

रामश्चतुर्दशसमा दंडकान्प्रविवास्यताम् ।।
तदाकर्ण्या हमुद्युक्तोऽरण्यं भार्यानुजान्वितः ।। ७९-१७ ।।

गंतुं नृपतिनानुक्तोऽप्यगमं चित्रकूटकम् ।।
तत्र नित्यं वन्यफलैर्मांसैश्चावर्तितक्रियः ।। ७९-१८ ।।

निवसन्नेव राज्ञस्तु निधनं चाप्यवागमम् ।।
ततो भरतशत्रुघ्नौ भ्रातरौ मम मानदौ ।। ७९-१९ ।।

मांतृवर्गयुतौ दीनौ साचार्यामात्यनागरौ ।।
व्यजिज्ञपतमागत्यपंचवट्यां निजाश्रमम् ।। ७९-२0 ।।

अकल्पयं भ्रातृभार्यासहितश्च त्रिवत्सरम् ।।
ततस्त्रयोदशे वर्षे रावणो नाम राक्षसः ।। ७९-२१ ।।

मायया हृतवान्सीतां प्रियां मम परोक्षतः ।।
ततोऽहं दीनवदन ऋष्यमूकं हि पर्वतम् ।। ७९-२२ ।।

भार्यामन्वेषयन्प्राप्तः सख्यं हर्यधिपेन च ।।
अथ वालिनमाहत्य सुग्रीव स्तत्पदे कृतः ।। ७९-२३ ।।

सह वानरयूथैश्च साहाय्यं कृतवान्मम ।।
विरुध्य रावणेनालं मम भक्तो विभीषणः ।। ७९-२४ ।।

आगतो ह्यभिषिच्याशुलंकेशो हि विकल्पितः ।।
हत्वा तु रावणं संख्ये सपुत्रामात्यबांधवम् ।। ७९-२५ ।।

सीतामादाय संशुद्ध्वामयोध्यां समुपागतः ।।
ततः कालांतरे विप्रसुग्रीवश्च विभीषणः ।। ७९-२६ ।।

निमंत्रितौ पितुः श्राद्ध्वे षटेकुलाश्च द्विजोत्तमाः ।।
अयोध्यायां समाजग्मुस्ते तु सर्वे निमंत्रिताः ।। ७९-२७ ।।

ऋते विभीषिणं तत्र चिंतयाने रघूत्तमे ।।
शंभुर्ब्राह्मणरूपेण षट्कुलैश्च सहागतः ग।। ७९-२८ ।।

अथ पृष्टो मया शंभुर्विभीषणसमागमे ।।
नीत्वा मां द्रविडे देशे मोचय द्विजबंधनात् ।। ७९-२९ ।।

मया निमंत्रिताः श्रद्धे ह्यगस्त्याद्या मुनीश्वराः ।।
संभोजितास्तु प्रययुः स्वस्वमाश्रममंडलम् ।। ७९-३0 ।।

ततः कालांतरे विप्रा देवा दैत्या नरेश्वराः ।।
गौतमेन समाहूताः सर्वे यज्ञसभाजिताः ।। ७९-३१ ।।

ते सर्वे स्फाटिकं लिंगं त्र्यंबकाद्रौ निवेशितम् ।।
संपूज्य न्यवंसस्तत्र देवदैत्यनृपाग्रजाः ।। ७९-३२ ।।

तस्मिन्समाजे वितते सर्वौर्लिंगे समर्चिते ।।
गौतमोऽप्यथ मध्याह्ने पूजयामास शंकरम् ।। ७९-३३ ।।

सर्वे शुक्लांबरधरा भस्मोद्धूलितविग्रहाः ।।
सितेन भस्मना कृत्वा सर्वस्थाने त्रिपुंड्रकम् ।। ७९-३४ ।।

नत्वा तु भार्गवं सर्वे भूतशुद्धिं प्रचक्रमुः ।।
हृत्पद्ममध्ये सुषिरं तत्रैव भूतपञ्चकम् ।। ७९-३५ ।।

तेषां मध्ये महाकाशमाकाशे निर्मलामलम् ।।
तन्मध्ये च महेशानं ध्यायेद्दीप्तिमयं शुभम् ।। ७९-३६ ।।

अज्ञानसंयुतं भूतं समलं कर्मसंगतः ।।
तं देहमाकाशदीपे प्रदहेज्ज्ञानवह्निना ।। ७९-३७ ।।

आकाशस्यावृत्तिं चाहं दग्ध्वाकाशमथो दहेत् ।।
दग्ध्वाकाशमथो वायुमग्निभूतं तथा दहेत् ।। ७९-३८ ।।

अब्भूतं च ततो दग्ध्वा पृथिवीभूतमेव च ।।
तदाश्रितान्गुणान्दग्ध्वा ततो देहं प्रदाहयेत् ।। ७९-३९ ।।

एवं प्रदग्ध्वा भूतार्दि देही तज्ज्ञानवह्निना ।।
शिखामध्यस्थितं विष्णुमानंदरसनिर्भरम् ।। ७९-४0 ।।

निष्पन्नचंद्रकिरणसंकाशकिरणं किरणं शिवम् ।।
शिवांगोत्पन्नकिरणैरमृतद्रवसंयुतैः ।। ७९-४१ ।।

सुशीतला ततो ज्वाला प्रशांता चंद्ररश्मिवत् ।।
प्रसारितसुधारुग्भिः सांद्रीभूतश्च संप्लवः ।।
अनेन प्लावितं भूतग्रामं संचिंतयेत्परम् ।। ७९-४२ ।।

इत्थं कृत्वा भूतशुद्धिं क्रियार्हो मर्त्यः शुद्धो जायते ह्येव सद्यः ।।
पूजां कर्तुं जप्यकर्मापि पश्चादेवं ध्यायेद्ब्रह्महत्यादिशुद्ध्यै ।। ७९-४३ ।।

एवं ध्यात्वा चद्रंदीप्तिप्रकाशं ध्यानेनारोप्याशु लिंगे शिवस्य ।।
सदाशिवं दीपमध्ये विचिंत्य पञ्चाक्षरेणार्चनमव्ययं तु ।। ७९-४४ ।।

आवाहनादीनुपचारांरतथापि कृत्वा स्नानं पूर्ववच्छंकरस्य ।।
औदुंबरं राजतं स्वर्णपीठं वस्त्रादिच्छन्नं सर्वमेवेह पीठम् ।। ७९-४५ ।।

अंते कृत्वा बुद्बुदाभ्यां च सृष्टिं पीठे पीठे नागमेकं पुरस्तात् ।।
कुर्यात्पीठे चोर्द्ध्वके नागयुग्मं देवाभ्याशे दक्षिणे वामतश्च ।। ७९-४६ ।।

जपापुष्पं नागमध्ये निधाय मध्ये वस्त्रं द्वादशप्रातिगुण्ये ।।
सुश्वेतेन तस्य मध्ये महेशं लिंगाकारं पीठयुक्तं प्रपूज्यम् ।। ७९-४७ ।।

एवं कृत्वा साधकास्ते तु सर्वे दत्त्वा दत्त्वा पंचगंधाशष्टगंधम् ।।
पुष्पैः पत्रैः श्रीतिलैरक्षतैश्च तिलोन्मिश्रैः केवलैश्चप्रपूज्य ।। ७९-४८ ।।

धूपं दत्त्वा विधिवत्संप्रयुक्तं दीपं दत्त्वा चोक्तमेवोपहारम् ।।
पूजाशेषं ते समाप्याथ सर्वे गीतं नृत्यं तत्र तत्रापि चक्रुः ।। ७९-४९ ।।

काले चास्मिन्सुव्रते गौतमस्य शिष्यः प्राप्तः शंकरात्मेति नाम्ना ।। ७९-५0 ।।

उन्मत्तवेषो दिग्वासा अनेकां वृत्तिमास्थितः ।।
क्वचिद्द्विजातिप्रवरः क्वचिञ्चंडालसन्निभः ।। ७९-५१ ।।

क्वचिच्छूद्रसमो योगी तापसः क्वचिदप्युत ।।
गर्जत्युत्पतते चैव नृत्यति स्तौति गायति ।। ७९-५२ ।।

रोदिति श्रृणुतेऽत्युक्तं पतत्युत्तिष्ठति क्वचित् ।।
शिवज्ञानैकसंपन्नः परमानंदनिर्भरः ।। ७९-५३ ।।

संप्राप्तो भोज्यवेलायां गौतमस्यांतिकं ययौ ।।
बुभुजे गुरुणा साकं क्वचिदुच्छिष्टमेव च ।। ७९-५४ ।।

क्वचिल्लिहति तत्पात्रं तूष्णीमेवाभ्यगात्क्वचित् ।।
हस्तं गृहीत्वैव गुरोः स्वयमेवाभुनक्क्वचित् ।। ७९-५५ ।।

क्वचिद् गृहांतरे मूत्रं क्वचित्कर्दमलेपनम् ।।
सर्वदा तं गुरुर्दृष्ट्वा करमालंब्य मंदिरम् ।। ७९-५६ ।।

प्रविश्य स्वीयपीठे तमुपवेश्याप्यभोजयत् ।।
स्वयं तदस्य पात्रेण बुभुजेगौतमो मुनिः ।। ७९-५७ ।।

तस्य चित्तं परिज्ञातुं कदाचिदथ सुंदरी ।।
अहल्या शिष्यमाहूय भुङ्क्ष्वेति प्राह तं मुदा ।।
निर्दिष्टो गुरुपत्न्या तु बुभुजे सोऽविशेषतः ।। ७९-५८ ।।

यथा पपौ हि पानीयं तथा वह्निमपि द्विजा ।।
कंटकानन्नवद्भुक्त्वा यथापूर्वमतिष्ठत ।। ७९-५९ ।।

पुरो हि मुनिकन्याभिराहूतो भोजनाय च ।।
दिनेदिने तत्प्रदत्तं लोष्टमंबु च गोमयम् ।। ७९-६0 ।।

कर्दमं काष्ठदंडं च भुक्त्वा पीत्वाथ हर्षितः ।।
एतादृशो मुनिरसौ चंडालसदृशाकृतिः ।। ७९-६१ ।।

सुजीर्णोपानहौ हस्ते गृहीत्वा प्रलपन्हसन् ।।
अंत्यजोचितवेषश्च वृषपर्वाणमभ्यगात् ।। ७९-६२ ।।

वृषपर्वेशयोर्मध्ये दिग्वासाः समतिष्टत ।।
वृषपर्वा तमज्ञात्वा पीडयित्वा शिरोऽच्छिनत् ।। ७९-६३ ।।

हते तस्मिन्द्विजश्रेष्ठे जगदेतञ्चराचरम् ।।
अतीव कलुषं ह्यासीत्तत्रस्था मुनयस्तथा ।। ७९-६४ ।।

गौतमस्य महाशोकः संजातः सुमहात्मनः ।।
निर्ययौ चक्षुषो वारि शोकं संदर्शयन्निव ।। ७९-६५ ।।

गौतमः सर्वदैत्तयानां सन्निधौ वाक्यमुक्तवान् ।।
किमनेन कृते पापं येन च्छिन्नमिदं शिरः ।। ७९-६६ ।।

मम प्राणाधिकस्येह सर्वदा शिवयोगिनः ।।
ममापि मरणं सत्यं शिष्यच्छद्मा यतो गुरुः ।। ७९-६७ ।।

शैवानां धर्मयुक्तानां सर्वदा शिववर्तिनाम् ।।
मरणं यत्र दृष्टं स्यात्तत्र नो मरणं ध्रुवम् ।। ७९-६८ ।।

तच्छ्रुत्वा ह्यसुराचार्यः सुक्रः प्राह विदांवरः ।।
एनं संजीवयिष्यामि भार्गवं शंकरप्रियम् ।। ७९-६९ ।।

किमर्थं म्रियते ब्रह्मन्पश्य मे तपसो बलम् ।।
इति वादिनि विप्रेंद्रे गौतमोऽपि ममार ह ।। ७९-७0 ।।

तस्मिन्मृतेऽथ शुक्रोऽपि प्राणांस्तत्याज योगतः ।।
तस्यैवं हतिमाज्ञाय प्रह्लादाद्या दितीश्वराः ।। ७९-७१ ।।

देवा नृपा द्विजाः सर्वे मृता आसंस्तदद्भुतम् ।।
मृतमासीदथ बलं तस्य बाणस्य धीमतः ।। ७९-७२ ।।

अहल्या शोकसंतप्ता रुरोदोञ्चैः पुनःपुनः ।।
गौतमेन महेशस्य पूजया पूजितो विभुः ।। ७९-७३ ।।

वीरभद्रो महायोगी सर्वं दृष्ट्वा चुकोप ह ।।
अहो कष्टमहोकष्टं महेशा बहवो हताः ।। ७९-७४ ।।

शिवं विज्ञापयिष्यामि तेनोक्तं करवाण्यथ ।।
इति निश्चित्य गतवान्मंदराचलमव्ययम् ।। ७९-७५ ।।

नमस्कृत्वा विरूपाक्षं वृत्तसर्वमथोक्तवान् ।।
ब्रह्माणं च हरिं तत्र स्थितौ प्राह शिवो वचः ।। ७९-७६ ।।

मद्भक्तैः साहसं कर्म कृतं ज्ञात्वा वरप्रदम् ।।
गत्वा पश्यामि हे विष्णो सर्वं तत्कृतसाहसम् ।। ७९-७७ ।।

इत्युक्त्वा वृषमारुह्य वायुना धूतचामरः ।।
नन्दिकेन सुवेषेण धृते छत्रेऽतिशोभने ।। ७९-७८ ।।

सुश्वेते हेमदंडे च नान्ययोग्ये धृते विभो ।।
महेशानुमतिं लब्ध्वा हरिर्नागांतके स्थितः ।। ७९-७९ ।।

आरक्तनीलच्छत्राभ्यां शुशुभे लक्ष्मकौस्तुभः ।।
शिवानुमत्या ब्रह्मापि हंसारूढोऽभवत्तदा ।। ७९-८0 ।।

इंद्रगोपप्रभाकारच्छत्राभ्यां शुशुभे विधिः ।।
इन्द्रादिसर्वदेवाश्च स्वस्ववाहनसंयुताः ।। ७९-८१ ।।

अथ ते निर्ययुः सर्वे नानावाद्यानुमोदिताः ।।
कोटिकोटिगणाकीर्णा गौतमस्याश्रमं गताः ।। ७९-८२ ।।

ब्रह्मविष्णु महेशाना दृष्ट्वा तत्परमाद्भुतम् ।।
स्वभक्तं जीवयामास वामकोणनिरीक्षणात् ।। ७९-८३ ।।

शंकरो गौतमं प्राह तुष्टोऽहं ते वरं वृणु ।।
तदाकर्ण्य वचस्तस्य गौतमः प्राह सादरम् ।। ७९-८४ ।।

यदि प्रसन्नो देवेश यदि देयो वरो मम ।।
त्वल्लिंगार्चनसामर्थ्यं नित्यमस्तु ममेश्वर ।। ७९-८५ ।।

वृतमेतन्मया देव त्रिनेत्र श्रृणु चापरम् ।।
शिष्योऽयं मे महाभागो हेयादेयादिवर्जितः ।। ७९-८६ ।।

प्रेक्षणीयं ममत्वेन न च पश्यति चक्षुषा ।।
न घ्राणग्राह्यं देवेश न पातव्यं न चेतरत् ।। ७९-८७ ।।

इति बुद्ध्व्या तथा कुर्वन्स हि योगी महायशः ।।
उन्मत्तविकृताकारः शंकरात्मेति कीर्तितः ।। ७९-८८ ।।

न कश्चित्तं प्रति द्वेषी न च तं हिंसयेदपि ।।
एतन्मे दीयतां देव मृतानाममृतिस्तथा ।। ७९-८९ ।।

तच्छ्रुत्वोमापतिः प्रीतो निरीक्ष्य हरिमव्ययः ।।
स्वांशेन वायुना देहमाविशज्जगदीश्वरः ।। ७९-९0 ।।

हरिरूपः शंकरात्मा मारुतिः कपिसत्तमः ।।
पर्यायैरुच्यतेऽधीशः साक्षाद्विष्णुः शिवः परः ।। ७९-९१ ।।

आकल्पतेषु प्रत्येकं कामरूपमुपाश्रितः ।।
ममाज्ञाकारको रामभक्तः पूजितविग्रहः ।। ७९-९२ ।।

अनंतकल्पमीशानः स्थास्यति प्रीतमानसः ।।
त्वया कृतमिदं वेश्म विस्तृतं सुप्रतिष्टितम् ।। ७९-९३ ।।

नित्यं वै सर्वरूपेण तिष्ठामः क्षणमादरात् ।।
समर्चिताः प्रयास्यामः स्वस्ववासं ततः परम् ।। ७९-९४ ।।

अथाबभाषे विश्वेशं गौतमो मुनिपुंगवः ।।
अयोग्यं प्रार्थयामीश ह्यर्थी दोषं न पश्यति ।। ७९-९५ ।।

ब्रह्माद्यलभ्यं देवेश दीयतां यदि रोचते ।।
अथेशो विष्णुमालोक्य गृहीत्वा तत्करं करे ।। ७९-९६ ।।

प्रहसन्नंबुजाभाक्षमित्युवाच सदाशिवः ।।
क्षामोदरोऽसि गोविंद देयं ते भोजनं किमु ।। ७९-९७ ।।

स्वयं प्रविश्य यदि वा स्वयं भुंक्ष्व स्वगेहवत् ।।
गच्छ वा पार्वतीगेहं या कुक्षिं पूरयिष्यति ।। ७९-९८ ।।

इत्युक्त्वा तत्करालंबी ह्येकांतमगमद्विभुः ।।
आदिश्य नंदिनं देवो द्वाराध्यक्षं यथोक्तवत् ।। ७९-९९ ।।

स गत्वा गौतमं वाथ ह्युक्तवान्विष्णुभाषणम् ।।
संपादयान्नं देवेशा भोक्तुकामा वयं मुने ।। ७९-१00 ।।

इत्युक्त्वैकांतमगमद्वासुदेवेन शंकरः ।।
मृदुशय्यां समारुह्य शयितौ देवतोत्तमौ ।। ७९-१0१ ।।

अन्योन्यं भाषणं कृत्वा प्रोत्तस्थतुरुभावपि ।।
गत्वा तडागं गंभीरं स्रास्यंतौ देवसत्तमौ ।। ७९-१0२ ।।

करांबुपातमन्योन्यं पृथक्कृत्वोभयत्र च ।।
मुनयो राक्षसाश्चैव जलक्रीडां प्रचक्रिरे ।। ७९-१0३ ।।

अथ विष्णुर्महेशश्च जलपानानि शीघ्रतः ।।
चक्रतुः शंकरऋ पद्मकिंजल्कांजलिना हरेः ।। ७९-१0४ ।।

अवाकिरन्मुखे तस्य पद्मोत्फुल्लविलोचने ।।
नेत्रे केशरसंपातात्प्रमीलयत केशवः ।। ७९-१0५ ।।

अत्रांतरे हरेः स्कंधमारुरोह महेश्वरः ।।
हर्युत्तमांगं बाहुभ्यां गृहीत्वा संन्यमज्जयत् ।। ७९-१0६ ।।

उन्मज्जयित्वा च पुनः पुनश्चापि पुनःपुनः ।।
पीडितः स हरिः सूक्ष्मं पातयामास शंकरम् ।। ७९-१0७ ।।

अथ पादौ गृहीत्वा तं भ्रामयन्विचकर्ष ह ।।
अताडयद्ध्वरेर्वक्षः पातयामास चाच्युतम् ।। ७९-१0८ ।।

अथोत्थितो हरिस्तोयमादायांजलिना ततः ।।
शीर्षे चैवाकिरच्छंभुमथ शंभुरथो हरिः ।। ७९-१0९ ।।

जलक्रीडैवमभवदथ चर्षिगणांतरे ।।
जलक्रीडासंभ्रमेण विस्रस्तजटबंधनाः ।। ७९-११0 ।।

अथ संभ्रमतां तेषामन्योन्यजटबंधनम् ।।
इतरेतरबद्ध्वासु जटासु च मुनीश्वराः ।। ७९-१११ ।।

शक्तिमंतोऽशक्तिमत आकर्षंति च सव्यथम् ।।
पातयंतोऽन्यतश्चापि क्त्रोशंतो रुदतस्तथा ।। ७९-११२ ।।

एवं प्रवृत्ते तुमुले संभूते तोयकर्मणि ।।
आकाशे वानरेशस्तु ननर्त च ननाद च ।। ७९-११३ ।।

विपंचीं वादयन्वाद्यं ललितां गीतिमुज्जगौ ।।
सुगीत्या ललिता यास्तु आगायत विधा दश ।। ७९-११४ ।।

शुश्राव गीतिं मधुरां शंकरो लोकभावतः ।।
स्वयं गातुं हि ललितं मंदंमंदं प्रचक्रमे ।। ७९-११५ ।।

स्वयं गायति देवेशे विश्रामं गलदेशिकम् ।।
स्वरं ध्रुवं समादाय सर्वलक्षणसंयुतम् ।। ७९-११६ ।।

स्वधारामृतसंयुक्तं गानेनैवमपोनयन् ।।
वासुदेवो मर्दलं च कराभ्यामप्यवादयत् ।। ७९-११७ ।।

अम्बुजांगश्चतुर्वक्रस्तुंबुरुर्मुखरो बभौ ।।
तानका गौतमाद्यास्तु गयको वायुजोऽभवत् ।। ७९-११८ ।।

गायके मधुरं गीतं हनूमति कपीश्वरे ।।
म्लानमल्मानमभवत्कृशाः पुष्टास्तदाभवन् ।। ७९-११९ ।।

स्वां स्वां गीतिमतः सर्वे तिरस्कृत्यैव मूर्च्छिता ।।
तूष्णीभूतं समभवद्देवर्षिगणदानवम् ।। ७९-१२0 ।।

एकः स हनुमान् गाता श्रोतारः सर्व एव ते ।।
मध्याह्नकाले वितते गायमाने हनूमति ।।
स्वस्ववाह नमारुह्य निर्गताः सर्वदेवताः ।। ७९-१२१ ।।
गानप्रियो महेशस्तु जग्राह प्लवगेश्वरम् ।।
प्लवग त्वं मयाज्ञप्तो निःशंको वृषमारुह ।। ७९-१२२ ।।

मम चाभिमुखो भूत्वा गायस्वानेकगायनम् ।।
अथाह कपिशार्दूलो भगवंतं महेश्वरम् ।। ७९-१२३ ।।

वृषभारोहसामर्थ्यं तव नान्यस्य विद्यते ष।।
तव वाहनमारुह्य पातकी स्यामहं विभो ।। ७९-१२४ ।।

मामेवारुह देवेश विहंगः शिवधारणः ।।
तव चाभिमुखँ गानं करिष्यामि विलोकय ।। ७९-१२५ ।।

अथेश्वरो हनूमंतमारुरोह यथा वृषम् ।।
आरूढे शंकरे देवे हनुमत्कंधरां शिवः ।। ७९-१२६ ।।

छित्वा त्वचं परावृत्य सुखं गायति पूर्ववत् ।।
श्रृण्वन्गीतिसुधां शंभुर्गौत मस्य गृहं ततः ।। ७९-१२७ ।।

सर्वे चाप्यागतास्तत्र देवर्षिगणदानवाः ।।
पूजिता गौतमेनाथ भोजनावसरे सति ।। ७९-१२८ ।।

यच्छुष्कं दारुसंभूतं गृहो पकरणादिकम् ।।
प्ररूढमभवत्सर्वं गायमाने हनूमति ।। ७९-१२९ ।।

तस्मिन्गाने समस्तानां चित्रं दृष्टिरतिष्टत ।। ७९-१३0 ।।

द्विबाहुरीशस्य पदाभिवं दनः समस्तगात्राभरणोपपन्नः ।।
प्रसन्नमूर्तिस्तरुणः सुमध्ये विन्यस्तमूर्द्ध्वांजलिभिः शिरोभिः ।। ७९-१३१ ।।

शिरः कराभ्यां परिगृह्य शंकरो हनूमतः पूर्वमुखं चकार ।।
पद्मासनासीनहनूमतोंऽजलौ निधाय पादं त्वपरं मुखे च ।। ७९-१३२ ।।

पादांगुलीभ्यामथ नासिकां विभुः स्नेहेन जग्राह च मन्दमन्दम् ।।
स्कन्धे मुखे त्वंसतले च कण्ठे वक्षस्थले च स्तनमध्यमे हृदि ।। ७९-१३३ ।।

ततश्च कुक्षावथ नाभिमंडलं पादं द्वितीयं विदधाति चांजलौ ।।
शिरो गृहीत्वाऽवनमय्य शंकरः पस्पर्श पृष्ठं चिबुकेन सोऽध्वनि ।। ७९-१३४ ।।

हारं च मुक्तापरिकल्पितं शिवो हनूमतः कंठगतं चकार ।। ७९-१३५ ।।

अथ विष्णुर्महेशानमिह वचनमुक्तवान् ।।
हनूमता समो नास्ति कृत्स्नब्रह्माण्डमण्डले ।। ७९-१३६ ।।

श्रुतिदेवाद्यगम्यं हि पदं तव कपिस्थितम् ।।
सर्वोपनिषदव्यक्तं त्वत्पदं कपिसर्वयुक् ।। ७९-१३७ ।।

यमादिसाधनैंर्योगैर्न क्षणं ते पदं स्थिरम् ।।
महायोगिहृदंभोजे परं स्वस्थं हनूमति ।। ७९-१३८ ।।

वर्षकोटिसहस्रं तु सहस्राब्दैरथान्वहम् ।।
भक्त्या संपूजितोऽपीश पादो नो दर्शितस्त्वया ।। ७९-१३९ ।।

लोके वादो हि सुमहाञ्छंभुर्नारायणप्रियः ।।
हरिप्रियस्तथा शंभुर्न तादृग्भाग्यमस्ति मे ।। ७९-१४0 ।।

तच्छ्रुत्वा वचनं शंभुर्विष्णोः प्राह मुदान्वितः ।।
न त्वया सदृशो मह्यं प्रियोऽन्योऽस्ति हरे क्वचित् ।। ७९-१४१ ।।

पार्वती वा त्वया तुल्या वर्तते नैव भिद्यते ।।
अथ देवाय महते गौतमः प्रणिपत्य च ।। ७९-१४२ ।।

व्यजिज्ञपदमेयात्मज्देवैर्हि करुणानिधे ।।
मध्याह्नोऽयं व्यतिक्रांतो भुक्तिवेलाखिलस्य च ।। ७९-१४३ ।।

अथाचम्य महादेवो विष्णुना सहितो विभुः ।।
प्रविश्य गौतमगृहं भोजनायोपचक्रमे ।। ७९-१४४ ।।

रत्नांगुलीयैरथनूपुराभ्यां दुकूलबंधेन तडित्सुकांच्या ।।
हारैरनेकैरथ कण्ठनिष्कयज्ञोपवीतोत्तरवाससी च ।। ७९-१४५ ।।

विलंबिचंचन्मणिकुंडलेन सुपुष्पधम्मिल्लवरेण चैव ।।
पंचांगगंधस्य विलेपनेन बाह्वंगदैः कंकणकांगुलीयैः ।। ७९-१४६ ।।

अथो विभूषितः शिवो निविष्ट उत्तमासने ।।
स्वसंमुखं हरिं तथा न्यवेशयद्वरासने ।। ७९-१४७ ।।

देवश्रेष्ठौ हरीशौ तावन्योन्याभिमुखस्थितौ ।।
सुवर्णभाजनस्थान्नं ददौ भक्त्या स गौतमः ।। ७९-१४८ ।।

त्रिंशत्प्रभेदान्भक्ष्यांस्तु पायसं च चतुर्विधम् ।।
सुपक्वं पाकजातं च कल्पितं यच्छतद्वयम् ।। ७९-१४९ ।।

अपक्कं मिश्रकं तद्वत्त्रिंशतं परिकल्पितम् ।।
शतं शतं सुकन्दानां शाकानां च प्रकल्पितम् ।। ७९-१५0 ।।

पंचविंशतिधा सर्पिःसंस्कृतं व्यंजनं तथा ।।
शर्कराद्यं तथा चूतमोचाखर्जूरदाडिमम् ।। ७९-१५१ ।।

द्राक्षेक्षुनागरंगं च मिष्टं पक्वं फलोत्करम् ।।
प्रियालक्रंजम्बुफलं विकंकतफलं तथा ।। ७९-१५२ ।।

एवमादीनि चान्यानि द्रव्याणीशे समर्प्य च ।।
दत्त्वापोशानकं विप्रो भुंजध्वमिति चाब्रवीत् ।। ७९-१५३ ।।

भुंजानैषु च सर्वेषु व्यजनं सूक्ष्मविस्तृतम् ।।
गौतमः स्वयमादाय शिवविष्णू अवीजयत् ।। ७९-१५४ ।।

परिहासमथो कर्तुमियेष परमेश्वरः ।।
पश्य विष्णो हनूमन्तं कथं भुंक्ते स वानरः ।। ७९-१५५ ।।

वानरं पश्यति हरौ मण्डकं विष्णुभाजने ।।
चक्षेप मुनिसंषेषु पश्यत्स्वपि महेश्वरः ।। ७९-१५६ ।।

हनूमते दत्तवांश्च स्वोच्छिष्टं पायसादिकम् ।।
त्वदुच्छिष्टभोज्यं तु तवैव वचनाद्विभो ।। ७९-१५७ ।।

अनर्हं मम नैवेद्यं पत्रं पुष्पं फलादिकम् ।।
मह्यं निवेद्य सकलं कूप एव विनिःक्षिपेत् ।। ७९-१५८ ।।

अभुक्ते त्वर्द्वंचो नूनं भुक्ते चापि कृपा तव ।।
बाणलिंगे स्वयंभूते चन्द्रकांते हृदि स्थिते ।। ७९-१५९ ।।

चांद्रायण समं ज्ञेयं शम्भोर्नैवेद्यभक्षणम् ।।
भुक्तिवेलेयमधुना तद्वैरस्यं कथांतरात् ।। ७९-१६0 ।।

भुक्त्वा तु कथयिष्यामि निर्विशंकं विभुंक्ष्व तत् ।।
अथासौ जलसंस्कारं कृतवान् गौतमो मुनिः ।। ७९-१६१ ।।

आरक्तसुस्निगन्धसुसूक्ष्मगात्राननेकधाधौतसुशोभितांगान् ।।
तडागतोयैः कतबीजघर्षितैर्विशौधितैस्तैः करकानपूरयत् ।। ७९-१६२ ।।

नद्याः सैकतवेदिकां नवतरां संछाद्य सूक्ष्मांबरैः,शुद्ध्वैः श्वेततरैरथोपरि घटांस्तोयेन पूर्णान्क्षिपेत् ।।
लिप्त्वा नालकजातिमास्तपुटकं तत्कौलकं कारिकाचूर्णं चन्दनचन्द्ररश्मिविशदां मालां पुटांतं क्षिपेत् ।।
यामस्यापि पुनश्च वारिवसनेनाशोध्य कुम्भेन तञ्चंद्प्रन्थिमथो निधाय बकुलं क्षिप्त्वा तथा पाटलम् ।। ७९-१६३ ।।

शेफालीस्तबकमथो जलं च तत्र,विन्यस्य प्रथमत एव तोयशुद्‌धिम् ।।
कृत्वाथो मृदुतरं सूक्ष्मवस्त्रखण्डेनावेष्टेत्सृणिकमुखं च सूक्ष्मचन्द्रम् ।। ७९-१६४ ।।

अनातपप्रदेशे तु निधाय करकानथ ।।
मन्दवातसमोपेते सूक्ष्मव्यजनवीजेते ।। ७९-१६५ ।।

सिंचेच्छीतैर्जलैश्चापि वासितैः सृणिकामपि ।।
संस्कृताः स्वायतास्तत्र नरा नार्योऽथवा नृपाः ।। ७९-१६६ ।।

तत्कन्या वा क्षालितांगा धौतपादास्सुवाससः ।।
मधुर्पिगमनिर्यासमसांद्रमगुरूद्भवम् ।। ७९-१६७ ।।

बाहुमूले च कंठे च विलिप्यासांद्रमेव च ।।
मस्तके जापकं न्यस्य पंचगंधविलेपनम् ।। ७९-१६८ ।।

पुष्पनद्ध्वसुकेशास्तु ताः शुभाः स्युः सुनिर्मलाः ।।
एवमेवार्चिता नार्य आप्तकुंकुमविग्रहाः ।। ७९-१६९ ।।

युवत्यश्चारुसर्वांग्यो नितरां भूषणैरपि ।।
एतादृग्वनिताभिर्वा नरैर्वा दापयेज्जलम् ।। ७९-१७0 ।।

तेऽपि प्रादानसमये सूक्ष्मवस्त्राल्पवेष्टनम् ।।
अथवामकरे न्यस्य करकं प्रेक्ष्य तत्र हि ।। ७९-१७१ ।।

दोरिकान्यस्तमुन्मुच्य ततस्तोयं प्रदापयेत् ।।
एवं स कारयामास गौतमो भगवान्मुनिः ।। ७९-१७२ ।।

महेशादिषु सर्वेषु भुक्तवत्सु महात्मसु ।।
प्रक्षालितांघ्रिहस्तेषु गंधोद्वर्तितपाणिषु ।। ७९-१७३ ।।

उञ्चासनसमासीने देवदेवे महेश्वरे ।।
अथ नीचसमासीनादेवाः सर्षिगणास्तथा ।। ७९-१७४ ।।

मणिपात्रेषु संवेष्ट्थ पूगखंडान्सुधूपितान् ।।
अकोणान्वर्तुलान्स्थूलानसूक्ष्मानकृशानपि ।। ७९-१७५ ।।

श्वेतपत्राणि संशोध्य क्षिप्त्वा कर्पूरखंडकम् ।।
चूर्णं च शंकरायाथ निवेदयति गौतमे ।। ७९-१७६ ।।

गृहाण देव तांबूलमित्युक्तवचने मुनौ ।।
कपे गृहाण तांबूलं प्रयच्छ मम खंडकान् ।। ७९-१७७ ।।

उवाच वानरो नास्ति मम शुद्धिर्महेश्वर ।।
अनेकफलभोक्तॄत्वाद्वानरस्तु कथं शुचिः ।। ७९-१७८ ।।

तच्छ्रुत्वा तु विरूपाक्षाः प्राह वानरसत्तमम् ।।
मद्वाक्यादखिलं शुद्ध्येन्मद्वाक्यादमृतं विषम् ।। ७९-१७९ ।।

मद्वाक्यादखिला वेदा मद्वाक्याद्देवतादयः ।।
मद्वांक्याद्ध्वर्मविज्ञानं मद्वाक्यान्मोक्ष उच्यते ।। ७९-१८0 ।।

पुराणान्यागमाश्चैव स्मृतयो मम वाक्यतः ।।
अतो गृहाण तांबूलं मम देहि सुखंडकान् ।। ७९-१८१ ।।

हरिर्वामकरेणाधात्तांबूलं पूगखंडकम् ।।
ततः पत्राणि संगृह्य तस्मै खंडान्समर्पयत् ।। ७९-१८२ ।।

कर्पूरमग्रतो दत्तं गृहीत्वाभक्षयच्छिवः ।।
देवे तु कृततांबूले पार्वती मंदराचलात् ।। ७९-१८३ ।।

जयाविजययोर्हस्तं गृहीत्वायान्मुनेर्गृहम् ।।
देवपादौ ततो नत्वा विनम्रवदनाभवत् ।। ७९-१८४ ।।

उन्नमय्य मुखि तस्या इदमाह त्रिलोचनः ।।
त्वदर्थं देवदेवेशि अपराधः कृतो मया ।। ७९-१८५ ।।

यत्त्वां विहाय भुक्तं हि तथान्यच्छृणु सुंदरि ।।
यत्त्वां स्वमंदिरे त्यक्त्वा महदेनो मया कृतम् ।। ७९-१८६ ।।

क्षंतुमर्हसि देवेशि त्यक्तकोपा विलोकय ।।
न बभाषेऽप्येवमुक्ता सारुंधत्या विनिर्ययौ ।। ७९-१८७ ।।

निर्गच्छंतीं मुनिर्ज्ञात्वा दंडवत्प्रणनाम ह ।।
अथोवाच शिवा तं चगौतम त्वं किमिच्छसि ।। ७९-१८८ ।।

अथाह गौतमो देवीं पार्वतीं प्रेक्ष्य सस्मिताम् ।।
कृतकृत्यो भवेयं वै भुक्तायां मद्गृहे त्वयि ।। ७९-१८९ ।।

ततः प्राह शिवा विप्रं गौतमं रचितांजलिम् ।।
भोक्ष्यामि त्वद्गृहे विप्र शंकरानुमतेन वै ।। ७९-१९0 ।।

अथ गत्वा शिवं विंशे लब्धानुज्ञस्त्वरागतः ।।
भोजयामास गिरिजां देवीं चारुंधतीं तथा ।। ७९-१९१ ।।

भुक्त्वाथ पार्वती सर्वगंधपुष्पाद्यलंकृता ।।
सहानु चरकन्याभिः सहस्राभिर्हरं ययौ ।। ७९-१९२ ।।

अथाह र्शकरो देवी गच्छ गौतममंदिरम् ।।
संध्योपास्तिमहं कृत्वा ह्यागमिष्ये तवांतिकम् ।। ७९-१९३ ।।

इत्युक्त्वा प्रययौ देवी गौतमस्यैव मदिरम् ।।
संध्यावदनकामास्तु सर्व एव विनिर्गताः ।। ७९-१९४ ।।

कृतसंध्यास्तडागे तु महेशाद्याश्च कृत्स्नशः ।।
अथोत्तरमुखः शंभुर्न्यास कृत्वा जजाप ह ।। ७९-१९५ ।।

अथ विष्णुर्महातेजा महेशमिदमब्रवीत् ।।
सर्वैर्नमस्यते यस्तु सर्वैरेव समर्च्यते ।। ७९-१९६ ।।

हूयतं सर्वयज्ञेषु स भवान्किम्‌ जपिष्यति ।।
रचितांजलयः सर्वे त्वामेवैकमुपासिते ।। ७९-१९७ ।।

स भवान्देवदेवेशः कस्मै विरचितांजलिः ।।
नमस्कारादिपुण्यानां फलदस्त्वं महेश्वरर ।। ७९-१९८ ।।

तव कः फलदो वंद्यः को वा त्वत्तोऽधिको वद ।।
तच्छ्रुत्वा शंकरः प्राह देवदेवं जनार्दनम् ।। ७९-१९९ ।।

ध्याये न किंचिद्गोविंदनमस्ये ह न किंचन ।।
किंतु नास्तिकजंतूनां प्रवृत्त्यर्थमिदं मया ।। ७९-२00 ।।

दर्शनीयं हरे चैतदन्यथा पापकारिणः ।।
तस्माल्लोकोपकारार्थमिदं सर्वं कृतं मया ।। ७९-२0१ ।।

ओमित्युक्त्वा हरिरथ तं नत्वा समतिष्टत ।।
अथ ते गौतमगृहं प्राप्ता देवर्षयस्तदा ।। ७९-२0२ ।।

सर्वे पूजामथो चक्रुर्देवदेवाय शूलिने ।।
देवो हनूमता सार्द्ध्वं गायन्नास्ते मुनीश्वर ।। ७९-२0३ ।।

पञ्चाक्षरीं महाविद्यां सर्वे एव तदाऽजपन् ।।
हनुमत्करमालंब्य देवाभ्यां संगतो हरः ।। ७९-२0४ ।।

एकशय्यासमांसीनौ तावुभौ देवदंपती ।।
गायन्नास्ते च हनुमांस्तुंबुरुप्रमुखास्तथा ।। ७९-२0५ ।।

नानाविधविलासांश्च चकार परमेश्वरः ।।
आहूय पार्वतीमीश इदं वाक्यमुवाच ह ।। ७९-२0६ ।।

रचयिष्यामि धम्मिल्लमेहि मत्पुरतः शुभे ।।
देव्याह न च युक्तं तद्भर्त्त्रा शुश्रूषणं स्त्रियः ।। ७९-२0७ ।।

केशप्रसाधनकृतावनर्थांतरमापतेत् ।।
केशप्रसाधने देव तत्त्वं सर्वं न चेप्सितम् ।। ७९-२0८ ।।

अथ बंधेकृते पश्चादंसप्रांतप्रमार्जनम् ।।
ततश्चरमसंलग्न केशपुष्पादिमार्जनम् ।। ७९-२0९ ।।

एतस्मिन्वर्तमाने तु महात्मानो यदागमन् ।।
तदा किमुत्तरं वाच्यं तव देवादिवंदित ।। ७९-२१0 ।।

नायांति चेदथ विभो भीतिर्नाशमुपैष्यति ।।
एवं हि भाषमाणां तां करेणाकृष्य शंकरः ।। ७९-२११ ।।

स्वोर्वोः संस्थापयित्वैव विस्रस्य कचबंधनम् ।।
विभज्य च कराभ्यां स प्रससार नखैरपि ।। ७९-२१२ ।।

विष्णुदत्तां पारिजातस्रजं कचगतामपि ।।
कृत्वा धम्मिल्लमकरोदथ मालां करागताम् ।। ७९-२१३ ।।

मल्लिकास्रजमादाय बबंध कचबंधने ।।
कल्पप्रसूनमालां च ब्रह्मदत्तां महेश्वरः ।। ७९-२१४ ।।

पार्वतीवसने गूढगन्धाढ्ये च समाददात् ।।
अथांसपृष्ठ संलग्नमार्जनं कृतवान् विभुः ।। ७९-२१५ ।।

श्लथन्नीवेरधो देव्या वस्त्रवेष्टादधोगतः ।।
किमिदं देवि चेत्युक्त्वा नीवीबंधं चकार ह ।। ७९-२१६ ।।

नासाभूषणमेतत्ते सत्यमेव वदामि ते ।।
ततः प्राह शिवा शंभुं स्मित्वा पर्वतनंदिनी ।। ७९-२१७ ।।

अहो त्वन्मंदिरे शंभो सर्ववस्तु समृद्धिमत् ।।
पूर्वमेव मया सर्वं ज्ञातप्रायमभूत्किल ।। ७९-२१८ ।।

सर्वद्रविणसंपत्तिर्भूषणैखगम्यते ।।
शिरो विभूषितं देव ब्रह्मशीर्षस्य मालया ।। ७९-२१९ ।।

नरकस्य तथा माला वक्षस्थलविभूषणम् ।।
शेषश्च वासुकिश्चैव सविषौ तव कङ्कणौ ।। ७९-२२0 ।।

दिशोंऽबरं जटाः केशा भसित चांगरागकम् ।।
महोक्षो वाहनं गोत्रं कुलं चाज्ञातमेव च ।। ७९-२२१ ।।

ज्ञायेते पितरौ नैव विरूपाक्षं तथा वपुः ।।
एवं वदंतीं गिरिजां विष्णुः प्राहातिकोपनः ।। ७९-२२२ ।।

किमर्थं निंदसेदेवि देवदेवं जगत्पतिम् ।।
दुष्प्राणा न प्रिया भद्रे तव नूनमसंयमात् ।। ७९-२२३ ।।

यत्रेशनिंदनं भद्रे तत्र नो मरणव्रतम् ।।
इत्युक्त्वाथ नखाभ्यां हि हरिश्छेत्तुं शिरो गतः ।। ७९-२२४ ।।

महेशस्तत्करं गृह्य प्राह मा साहसं कृथाः ।।
पार्वतीवचनं सर्वं प्रियं मम न चाप्रियम् ।। ७९-२२५ ।।

ममाप्रियं हृषीकेश कर्तुं यत्किंचिदिष्यते ।।
ओमित्युक्त्वाथ भगवांस्तूष्णींभूतोऽभवद्ध्वरिः ।। ७९-२२६ ।।

हनुमानथ देवाय व्यज्ञापयदिदं वचः ।।
अर्थयामि विनिष्कामं मम पूजाव्रतं तथा ।। ७९-२२७ ।।

पूजार्थमप्यहं गच्छे मामनुज्ञातुमर्हसि ।।
तच्छ्रत्वा शंकरो देवः स्मित्वा प्राह वपीश्वरम् ।। ७९-२२८ ।।

कस्य पूजा क्व वा पूजा किं पुष्पं किं दलं वद ।।
को गुरुः कश्च मंत्रस्ते कीदृशं पूजन तथा ।। ७९-२२९ ।।

एवं वदति देवैशे हनुमान्नीतिसंयुतः ।।
वेपमानसमस्तांग स्तोतुमेवं प्रचक्रमे ।। ७९-२३0 ।।

नमो देवाय महते शंकरायामितात्मने ।।
योरिने योगधात्रे च योगिनां गुरवे नमः ।। ७९-२३१ ।।

योगगम्याय देवाय ज्ञानिनां पतये नमः ।।
वेदानां पतये तुभ्यं देवानां पतये नमः ।। ७९-२३२ ।।

ध्यानाय ध्यानगम्याय ध्यातॄणां गुरवे नमः ।।
अष्टमूर्ते नमस्तुभ्यं पशूनां पतये नमः ।। ७९-२३३ ।।

अंबकाय त्रिनेत्राय सोमसूर्याग्निचक्षुषे ।।
सुभृङ्गराजधत्तूरद्रोणपुष्पप्रियस्य ते ।। ७९-२३४ ।।

बृहतीपूग पुन्नागचपकादिप्रियाय च ।।
नमस्तेऽस्तु नमस्तेऽस्तु भूय एव नमोनमः ।। ७९-२३५ ।।

शिवो हरिमथ प्राह मा भैषीर्वद मेऽखिलम् ।।
ततस्त्यक्त्वा भयं प्राह हनुमान् वाक्यकोविदः ।। ७९-२३६ ।।

शिवलिंगार्चनं कार्यं भस्मोद्ध्वूलितदेहिना ।।
दिवा संपादितैस्तैयैः पुष्पाद्यैरपि तादृशैः ।। ७९-२३७ ।।

देव विज्ञापयिष्यामि शिवपूजविधिं शुभम् ।।
सायंकाले तु संप्राप्ते अशिरःस्नानमाचरेत् ।। ७९-२३८ ।।

क्षालितं वसनं शुष्कं धृत्वाचम्य त्रिरन्यधीः ।।
अथ भस्म समादाय आग्नेयं स्नानमाचरेत् ।। ७९-२३९ ।।

प्रणवेन समामंत्र्य अष्टवारमथांपि वा ।।
पञ्चाक्षरेण मन्त्रेण नाम्ना वा येन केनचित् ।। ७९-२४0 ।।

सप्ताभिमंत्रितं भस्म दर्भपाणिः समाहरेत् ।।
ईशानः सर्वविद्यानामुक्त्वा शिरसिपातयेत् ।। ७९-२४१ ।।

तत्पुरुषाय विद्महे मुखे भस्म प्रसेचयेत् ।।
अघोरेभ्योऽथ घोरेभ्यो भस्म वक्षसि निक्षिपेत् ।। ७९-२४२ ।।

वामदेवय नमः इति गुह्यस्थाने विनिक्षिपेत् ।।
सद्योजातं प्रपद्यामि निक्षिपेदथ पादयोः ।। ७९-२४३ ।।

उद्ध्वूलयेत्समस्तांगं प्रणवेन विचक्षणाः ।।
त्रैवर्णिकानामुदितः स्नानादिविधिरुत्तमः ।। ७९-२४४ ।।

शूद्रादीनां प्रवक्ष्यामि यदुक्तं गुरुणा तथो ।।
शिवेति पदमुच्चार्य भस्म संमन्त्रयेत्सुधीः ।। ७९-२४५ ।।

सप्त वारमथादाय शिवायेति शिरस्यथ ।।
शंकराय मुखे प्रोक्तं सर्वज्ञाय हृदि क्षिपेत् ।। ७९-२४६ ।।

स्थाणवे नम इत्युक्त्वा मुखे चापि स्वयंभुवे ।।
उच्चार्य पादयोः क्षिप्त्वा भस्म शुद्ध्वमतः परम् ।। ७९-२४७ ।।

नमः शिवायेत्युच्चार्य सर्वांगोद्ध्वूलनं स्मृतम् ।।
प्रक्षाल्य हस्तावाचम्य दर्भपाणिः समाहितः ।। ७९-२४८ ।।

दर्भाभावे सुवर्णं स्यात्तदभावे गवालुकाः ।।
तदभावे तु दूर्वाः स्युस्तदभावे तु राजतम् ।। ७९-२४९ ।।

संध्योपास्तिं जपं देव्याः कृत्वा देवगृहं व्रजेत् ।।
देववेदीमथो वापि कल्पितं स्थंडिलं तु वा ।। ७९-२५0 ।।

मृण्मयं कल्पितं शुद्धूं पद्मादिरचनायुतम् ।।
चातुर्वर्णकरं गैश्च श्वेतेनैकेन वा पुनः ।। ७९-२५१ ।।

विचित्राणि च पद्मानि स्वस्तिकादि तथैव च ।।
उत्पलादिगदाशंखत्रिशूलडमरूंस्तथा ।। ७९-२५२ ।।

शरोक्तपंचप्रासादं शिवलिंगमथैव च ।।
सर्वकामफलं वृक्षं कुलकं कोलकं तथा ।। ७९-२५३ ।।

षट्कोणं च त्रिकोणं च नवकोणमथापि वा ।।
कोणे द्वादशकांदोलापादुकाव्यजनानि च ।। ७९-२५४ ।।

चामरच्छत्त्रयुगलं विष्णुब्रह्मादिकांस्तथा ।।
चूर्णैविरचयेद्वेद्यां धीमान्देवालयेऽपि वा ।। ७९-२५५ ।।

यत्रापि देवपूजा स्यात् तत्रैवं कल्पयेद्बुधः ।।
स्वहस्तरचितं मुख्यं क्रीतं चैव तु मध्यमम् ।। ७९-२५६ ।।

याचितं तु कनिष्टं स्याद्बलात्कारमथोऽधमम् ।।
अर्हेषु यत्त्वनर्हेषु बलात्कारात्तु निष्फलम् ।। ७९-२५७ ।।

रक्तशालिजपाशाणकलमासितरक्तकैः ।।
तंदुलैर्वीहिमात्रोत्थैः कणैश्चैव यथाक्रमम् ।। ७९-२५८ ।।

उत्तमैर्मध्यमैश्चैव कनिष्ठैरधमैस्तथा ।।
पद्मादिस्थापनैरेव तत्सम्यग्यागमाचरेत् ।। ७९-२५९ ।।

प्रागुत्तरमुखो वापि यदि वा प्राङ्मुखो भवेत् ।।
आसनं च प्रवक्ष्यामि यथादृष्टं यथा श्रुतम् ।। ७९-२६0 ।।

कौशं चार्मं चैलतल्पे दारवं तालपत्रकम् ।।
कांबलं कांचनं चैव राजतं ताम्रमेव च ।। ७९-२६१ ।।

गोकरीपार्कजैर्वापि ह्यासनं परिकल्पयेत् ।।
वैयाघ्रं रौरवं चैव हारिण मार्गमेव च ।। ७९-२६२ ।।

चार्मं चतुर्विधं ज्ञेयमथ बंधुकमेव च ।।
यथासंभवमेतेषु ह्यासनं परिकल्पयेत् ।। ७९-२६३ ।।

कृतपद्मासनो वापि स्वस्तिकासन एव च ।।
दर्भभस्मसमासीनः प्राणानायम्य वाग्यंतः ।। ७९-२६४ ।।

तावत्स देवतारूपो ध्यानं चांतः समाचरेत् ।।
शिखांते द्वादशांगुल्ये स्थितं सूक्ष्मतनुं शिवम् ।। ७९-२६५ ।।

अंतश्चरंतं भूतेषु गुहायां विश्वतोमुखम् ।।
सर्वाभरणसंयुक्तमिमादिगुणान्वितम् ।। ७९-२६६ ।।

ध्यात्वा तं धारयेञ्चित्ते तद्दीप्त्या पूरयेत्तनुम् ।।
तया दीप्त्या शरीरस्थं पापं नाशमुपागतम् ।। ७९-२६७ ।।

स्वर्णपादैरसंपर्काद्रक्तं श्वेतं यथा भवेत् ।।
तद्द्वादशदलावृत्तमष्ट पंच त्रिरेव वा ।। ७९-२६८ ।।

परिकल्प्यासनं शुद्धवं तत्र लिंगं निधाय च ।।
गुहास्थितं महेशानं र्लिंगेशं चिंतयेत्था ।। ७९-२६९ ।।

शोधिते कलशे तोयं शोधितं गंधवासितम् ।।
सुगन्धपुष्पं निक्षिप्य प्राणवेनाभिमंत्रितम् ।। ७९-२७0 ।।

प्राणायामश्च प्रणवः शूद्रेषु न विधीयते ।।
प्राणायामपदे ध्यानं शिवेत्योंकारमंत्रितम् ।। ७९-२७१ ।।

गन्धपुष्पाक्षतादीनि पूजाद्रव्याणि यानि च ।।
तानि स्थाप्य समीपे तु ततः संकल्पमाचरेत् ।। ७९-२७२ ।।

शिवपूजां करिष्यामि शिवतुष्ट्यर्थमेव च ।।
इति संकल्पयित्वा तु तत आवाहनादिकम् ।। ७९-२७३ ।।

कृत्वा तु स्नानपर्यंतं ततः स्नानं प्रकल्पयेत् ।।
नमस्तेत्यादिमंत्रेण शतरुद्रविधानतः ।। ७९-२७४ ।।

अविच्छिन्ना तु या धारा मुक्तिधारेति कीर्तिता ।।
तया यः स्नापयेन्मांस जपचुद्रमुखांश्च चा ।। ७९-२७५ ।।

एकवारं त्रिवारं च पंच सप्त नवापि वा ।।
एकादश तथा वारमथैकादशधान्वितम् ।। ७९-२७६ ।।

मुक्तिस्नानमिदं ज्ञेयं मासं मोक्षप्रदायकम् ।।
शैवयाविद्यया स्नानं केवलं प्रणवेन वा ।। ७९-२७७ ।।

मृण्ययैर्नालिकेरस्य शकलैश्चोर्मिभिस्तथा ।।
कांस्येन मुक्ताशुक्त्या च पुष्पादिकेसरेण वा ।। ७९-२७८ ।।

स्नापयेद्देवदेवेशं यथासंभवमीरितैः ।।
श्रृंगस्य च विधिं वक्ष्ये स्नानयोग्यं यथा भवेत् ।। ७९-२७९ ।।

पूर्वमंतस्तु संशोध्य बहिरंतस्तु शोधयेत् ।।
सुग्रिग्धं लघु कृत्वाथ नांगं छिंद्यात्कथंचन ।। ७९-२८0 ।।

नीचैकदेशविन्यस्तद्वारद्रोण्या सुहृत्तया ।।
कृशानुयुक्तं स्नानं तु देवाय परिकल्पयेत् ।। ७९-२८१ ।।

एवं गवयश्रृंगस्य जलपूर्तिरथोच्यते ।।
द्वारे निषिद्धलोहार्द्धसंधिद्वारासमन्विते ।। ७९-२८२ ।।

योगवक्रं नागदंडं नागाकारं प्रकल्पंयेत् ।।
फलस्थाने तु चषकं दंडेन समरंध्रकम् ।। ७९-२८३ ।।

तत्रैव पातयेत्तोयं मूर्द्ध्वयंत्रघटे स्थितम् ।।
पातयेदथ चान्येन वामेनैव करेण वा ।। ७९-२८४ ।।

मुक्तिधारा कृता तेन पवित्र पापनाशनम् ।।
एवं संस्नाप्य देवेशं पंचगव्यैस्तथैव च ।। ७९-२८५ ।।

पञ्चामृतैरथ स्नाप्य मधुरत्रितयेन च ।।
विभूष्य भूषणैर्देवं पुनः स्नाप्यमहेश्वरम् ।। ७९-२८६ ।।

शीतोपचारं कृत्वाथ तत आचमनादिकम् ।।
वस्त्रं तथोपवीतं च गंधद्रव्यकमेव च ।। ७९-२८७ ।।

कर्पूरमगरुं चापि पाटीरमथवा भवेत् ।।
उभयमिश्रितं चापि शिवलिंगं प्रपूजयेत् ।।
कृत्स्नं पीठं गंधपूर्णं यद्वा विभवसारतः ।।
तूष्णीमथोपचारं वा कालीयं पुष्पमेव च ।। ७९-२८८ ।।

श्रीपन्नमरुचित्याज्यं यथाशकत्यखिलं यथा ।।
अनेकद्रव्यधूपं च गुग्गुलं केवलं तथा ।। ७९-२८९ ।।

कपिलाघृतसंयुक्तं सर्वधूपं प्रशस्यते ।।
धूपं दत्वा यथाशक्ति कपिलाघृतदीपकान् ।। ७९-२९0 ।।

अथवा पूजामात्रेण दीपान्दत्वोपहारकम् ।।
नैवेद्यमुपपन्नं च दत्वा पुष्पसमन्वितम् ।। ७९-२९१ ।।

मुखशुद्धिं ततः कृत्वा दत्त्वा तांबूलमादरात् ।।
प्रदक्षिणनमस्कारौ पूजैवं हि समाप्यते ।। ७९-२९२ ।।

गीत्यंगपंचकं पश्चात्तानि विज्ञापयामि ते ।।
गीतिर्वाद्यं पुराणं च नृत्यं हासोक्तिरेव च ।। ७९-२९३ ।।

नीराजनं च पुष्पाणामंजलिश्चाखिलार्पणम् ।।
क्षमापनं चोद्रसनं प्रोक्तं पंचोपचारकम् ।। ७९-२९४ ।।

भूषणं च तथा छत्रं चामरव्यजने अपि ।।
उपवीत च कैकर्यं षोडशानुपचारकान् ।। ७९-२९५ ।।

द्वात्रिंशदुपचारैस्तु यः समाराधयेच्छिवम् ।।
एकेनाह्ना समस्तानां पातकानां क्षयो भवेत् ।। ७९-२९६ ।।

एतच्छ्रुत्वा हनुमतो वचनं प्राह शंकरः ।।
एवमेतत्कपिश्रेष्ठ युदुक्तं पूजनं मम ।। ७९-२९७ ।।

सारभूतमहं तुभ्यमुपदेक्ष्यामि सांप्रतम् ।।
आराधनं यथालिंगे विस्तरेण त्वयोदितम् ।। ७९-२९८ ।।

मत्पादयुगलं प्रार्च्य पूजाफलमवाप्नुहि ।।
ततः प्राह कपिश्रेष्ठो देवदेवमुमापतिम् ।। ७९-२९९ ।।

गुरिणा लिंगपूजैव नियता परिकल्पिता ।।
तां करोमि पुरा देव पश्चात्त्वत्पादपूजनम् ।। ७९-३00 ।।

इत्युक्त्वेश नमस्कृत्य शिवलिंगार्चनाय च ।।
सरसस्तीरमागत्य कृत्वा सैकतवेदिकाम् ।। ७९-३0१ ।।

तालपत्रैर्विरचितमासनं पर्यकल्पयत् ।।
प्रक्षाल्य पादौ हस्तौ च समाचम्य समाहितः ।। ७९-३0२ ।।

भस्मस्नानमथो चक्रे पुनराचम्य वाग्यतः ।।
देववेद्यामथो चक्रे पद्मं च सुमनोहरम् ।। ७९-३0३ ।।

अनंतरं तालपत्रे पद्मासनगतः कपिः ।।
प्राणानायम्य संन्यस्य शुल्कध्यानसमन्वितः ।। ७९-३0४ ।।

प्रणम्य गुरुमीशानं जपन्नासीदतः परम् ।।
अथ देवार्यनं कर्त्तुं यत्नमास्थितवान्कपिः ।। ७९-३0५ ।।

पलाशपत्रपुटकद्वयानीतजलं शुचि ।।
शिरः कमंडलुगतं निधायाग्निनिमंत्रितम् ।। ७९-३0६ ।।

आवाहनादि कृत्वाथ स्नानपर्यंतमेव च ।।
अथ स्नापयितुं देवमादाय करसंपुटे ।। ७९-३0७ ।।

कृत्वा निरीक्षणं देवपीठं नो दृष्टवान्कपिः ।।
लिङ्गमात्रं करगतं दृष्ट्वा भीतिसमन्वितः ।। ७९-३0८ ।।

इदमाह महायोगी किंवा पापं मया कृतम् ।।
यदेतत्पीठरहितं शिवलिङ्गं करस्थितम् ।। ७९-३0९ ।।

ममाद्य मरणं सिद्धं न पीठं चागमिष्यति ।।
अथ रुद्रं जपिष्यामि तदायति महेश्वरः ।। ७९-३१0 ।।

इति निश्चित्य मनसा जजाप शतरुद्रियम् ।।
यदा तु न समायातो महेशोऽथ कपीश्वरः ।। ७९-३११ ।।

रुद्रं न्यपातयद्भूमौ वीरभद्रः समागतः ।।
किमर्थं रुद्यते भद्र रुदिते कारणं वद ।। ७९-३१२ ।।

तच्छ्रुत्वा प्राह हनुमान्वीरभद्रं मनोगतम् ।।
पीठहीनमिदं लिंगं पश्य मे पापसंचयम् ।। ७९-३१३ ।।

वीरभद्रस्ततः प्राह श्रुत्वा कपिसमीरितम् ।।
यदि नायाति पीठं ते लिंगे मा साहसं कुरु ।। ७९-३१४ ।।

दाहयिष्याम्यहं लोकान्यदि नायाति पीठकम् ।।
पश्य दर्शय मे लिंगं पीठं चात्रागतं न वा ।। ७९-३१५ ।।

अत दृष्ट्वा वीरभद्रो लिंगे पीठमनागतम् ।।
दग्धुकामोऽखिलाँल्लोकान्वीरभद्रः प्रातापवान् ।। ७९-३१६ ।।

अनलं भुवि चिक्षेप क्षणाद्दग्धा मही तदा ।।
अथ सप्ततलान्दग्ध्वा पुनरूर्द्ध्वमवर्तत ।। ७९-३१७ ।।

पञ्चोर्द्ध्वलोकानदहज्जनलोकनिवासिनः ।।
ललाटनेत्रसंभूतं नखेनादाय चानलम् ।। ७९-३१८ ।।

जंबीरफलसंकाशं कृत्वा करतले विभुः ।।
तपः सत्यं च संदग्धुमुद्यतोऽभून्मुनीश्वरः ।। ७९-३१९ ।।

ततस्तु मुनयो दृष्ट्वातपोलोकनिवासिनः ।।
दग्धुकामं वीरभद्रं गौतमाश्रममागताः ।। ७९-३२0 ।।

न दृष्ट्वा तत्र देवेशं शंकरं स्वात्मनि स्थितम् ।।
अस्तुवन्भक्तिसंयुक्ताः स्तोत्रैर्वेदसमुद्भवैः ।। ७९-३२१ ।।

ॐ वेदवेद्याय देवाय तस्मै शुद्धप्रभाचिन्त्यरूपाय कस्मै ।।
ब्रह्माद्यधीशाय सृष्ट्यादिकर्त्रे,विष्णुप्रियायार्तिहंत्रेंऽतकर्त्रे ।। ७९-३२२ ।।

नमस्तेऽखिलाधीश्वरायांबराय नमस्ते चरस्थावरव्यापकाय ।।
नमो वेदगुह्याय भक्तप्रियाय नमः पाकभोक्त्रे मखेशाय तुभ्यम् ।। ७९-३२३ ।।

नमस्ते शिवायादिदेवाय कुर्मो नमो व्यालयज्ञोपवीतप्रधर्त्ने ।।
नमस्ते सुराबिन्दुवर्षापनाय त्रयीमूर्तये कालकालाय नाथ ।। ७९-३२४ ।।

धरित्रीमरुद्व्योमतोयेंदुवह्निप्रभामंडलात्माष्टधामूर्ति धर्त्रे ।।
शिवायाशिवघ्नाय वीराय भूयात्सदा नः प्रसन्नो जगन्नाथकेज्यः ।। ७९-३२५ ।।

कलानाथभालाय आत्मा महात्मा मनो ह्यग्रयानो निरूप्यो न वाग्भिः ।।
जगज्जाड्यविध्वंसनोभुक्तिमुक्तिप्रदः स्तात्प्रसन्नः सदा शुद्ध कीर्तिः ।। ७९-३२६ ।।

यतः संप्रसूतं जगज्जातमीशात्स्थितं येन रक्षावता भावितं च ।।
लयं यास्यते यत्र वाचां विदूरे स वै नः प्रसन्नोऽस्तु कालत्रयात्मा ।। ७९-३२७ ।।

यदार्दि च मध्यं तथांतं न केऽपि विजानन्ति विज्ञा अपि स्वानुमानाः ।।
स वै सर्वमूर्तिः सदा नो विभूत्येप्रसन्नोऽस्तु किं ज्ञापयामोऽत्र कृत्यम् ।। ७९-३२८ ।।

एतां स्तुतिमथाकर्ण्य भगनेत्रप्रदः शिवः ।।
विष्णुमाह मुनीनेतानानयस्व मदंतिकम् ।। ७९-३२९ ।।

अथ विष्णुः समागत्य तपोलोकनिवासिनः ।।
मुनीन्सांत्वय्य विश्वेशं दर्शयामास शंकरम् ।। ७९-३३0 ।।

तानाह शंकरो वाक्यं किमर्थं यूयमागताः ।।
तपोलोकाद्भूमिलोकं मुनयो मुक्तकिल्बिषाः ।। ७९-३३१ ।।

तच्छ्रुत्वा शूलिनो वाक्यं प्रोचुस्ते मुनिसत्तमाः ।।
देव द्वादशलोकानां दृश्यंते भस्मराशयः ।। ७९-३३२ ।।

स्थितमेकं वनमिदं पश्य तल्लोकसंक्षयम् ।।
तच्छ्रुत्वा गिरिशः प्राह तान्मुनीनूर्द्धरेतसः ।। ७९-३३३ ।।

भूर्लोकस्य तु संदाहे पातालानां तथैव च ।।
सन्देहो नास्ति मुनयः स्थितानां नो रहःस्थले ।। ७९-३३४ ।।

ऊर्द्धपंचकलोकानां दाहे संदेह एव नः ।।
कथमंगारवृष्टिश्च कथं नो वा महाध्वनिः ।। ७९-३३५ ।।

तदाकर्ण्य विभोर्वाक्यं शंकरस्य मुनीश्वराः ।।
प्रोचुः प्रांजलयो देवं ब्रह्मादिसुरसंगतम् ।। ७९-३३६ ।।

भीतिरस्माकमधुना वर्तते वीरभद्रतः ।।
स एवांगार वृष्टिं च पिपासुरपिबद्विभोः ।। ७९-३३७ ।।

देवोऽथ वीरमाहूय किं वीरेत्यब्रवीद्वचः ।।
वीरोऽप्याह कपेर्लिंगे पीठाभावादिदं कृतम् ।। ७९-३३८ ।।

तच्छ्रुत्वाह शिवो देवो मुनींस्तान्भयविह्वलान् ।।
कपेश्चित्तं परिज्ञातुं मया कृतमिदं द्विजाः ।। ७९-३३९ ।।

मा भैष्ट भवतां सौख्यं सदा संपादयाम्यहम् ।।
इत्युक्त्वा तु यथापूर्वं देवदेवः कृपानिधिः ।। ७९-३४0 ।।

दग्धानप्यखिलाँल्लोकान्पूर्वतः शोभनान्विभुः ।।
कल्पयामास विश्वात्मा वीरभद्रमथाब्रवीत् ।। ७९-३४१ ।।

साधु वत्स यतो भद्रं भक्तानामीहसे सदा ।।
ततस्ते विपुला कीर्तिर्लोके स्थास्यति शाश्वती ।। ७९-३४२ ।।

इत्युक्त्वालिंग्य शिरसि समाघ्राय महेश्वरः ।।
तांबूलं वीरभद्राय दत्तवान्प्रीतमानसः ।। ७९-३४३ ।।

अथासौ हनुमानीशपूजनं कृतवान्यथा ।।
समाप्तायां तु पूजायां हनुमान्प्रीतमानसः ।। ७९-३४४ ।।

एकं वनचरं तत्र गंधर्वं सविपंचकम् ।।
ददर्श तमथाभ्याह वीणा मे दीयतामिति ।। ७९-३४५ ।।

गंधर्वोऽप्याह न मया त्याज्या वीणा प्रिया मम ।।
ममापीष्टेहं गंधर्व वीणेत्याह कपीश्वरः ।। ७९-३४६ ।।

यदा न दत्ते गंधर्वो वल्लकीं कपये प्रियाम् ।।
तदा मुष्टिप्रहारेण गंधर्वः पातितः क्षितौ ।। ७९-३४७ ।।

वीणामादाय महतीं स्वरतंतुसमन्विताम् ।।
हनुमान्वानरश्रेष्ठो गायन्प्रागाच्छिवांतिकम् ।। ७९-३४८ ।।

ततो गानेन महता प्रसाद्य जगदीश्वरम् ।।
बृहतीकुसुमैः शुद्धै र्देवपादावपूजयत् ।। ७९-३४९ ।।

ततः प्रसन्नो विश्वात्मा मुनीनां सन्निधौ तदा ।।
दैत्यानां देवतानां च नृपाणां शंकरोऽपि च ।। ७९-३५0 ।।

तस्मै वरमथ प्रादात्कल्पांतं जीवितं पुनः ।।
समुल्लंघने शक्तिं शास्त्रज्ञत्वं बलोन्नतिम् ।। ७९-३५१ ।।

एवं दत्तं वरं प्राप्य महेशेन महात्मना ।।
प्रत्यक्षं मम विप्रेंद्र हनुमान्हर्षमागगतः ।। ७९-३५२ ।।

समस्तभूषासु षेतांगः स्वदीप्तिर्मदीकृतदेवदीप्तिः ।।
प्रसन्नमूर्तिस्तरुणः शिवांशः संभावयामास समस्तदेवान् ।। ७९-३५३ ।।

आज्ञप्तो हनुमांस्तत्र मत्सेवायै मुनीश्वरः ।।
महेशेनाहमप्येनं शशिमौलिमवैमि च ।। ७९-३५४ ।।

किं बहूक्तेन विप्रर्षे यादृशो वानरेश्वरः ।।
बुद्धौ न्याये च वै धैर्ये तादृगन्योऽस्ति न क्वचित् ।। ७९-३५५ ।।

इति ते सर्वमाख्यातं चरितं पापनाशनम् ।।
पठतां श्रृण्वतां चैव गच्छ विप्र यथासुखम् ।। ७९-३५६ ।।

तच्छ्रुत्वा रामभद्रस्य रघुनाथस्य धीमतः ।।
वचनं दक्षिणीकृत्य नत्वा चागां यथागतः ।। ७९-३५७ ।।

एतत्तेऽभिहितं विप्र चरितं च हनूमतः ।।
सुखदं मोक्षदं सारं किमन्यच्छ्रोतुमिच्छसि ।। ७९-३५८ ।।

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे हनुमच्चरित्रं नाम एकोनाशीतितमोऽध्यायः ।। ७९ ।।