नारदपुराणम्- पूर्वार्धः/अध्यायः ३७
सनक उवाच ।।
भूयः श्रृणुष्व विप्रेंद्र माहात्म्यं कमलापतेः ।।
कस्य नो जायते प्रीतिः श्रोतुं हरिकथामृतम् ।। ३७-१ ।।
नराणां विषयान्धानां ममताकुलचेतसाम् ।।
एकमेव हरेर्नाम सर्वपापप्रणाशनम् ।। ३७-२ ।।
सकृद्वा न नमेद्यस्तु विष्णुं पापहरं नृणाम् ।।
श्वपचं तं विजानीयात्कदाचिन्नालपेञ्च तम् ।। ३७-३ ।।
हरिपूजाविहीनं तु यस्य वेश्म द्विजोत्तम ।।
श्मशानसदृशं तद्धि कदाचिदपि नो विशेत् ।। ३७-४ ।।
हरिपूजाविहीनाश्च वेदविद्वेषिणस्तथा ।।
गोद्विजद्वेषनिरता राक्षसाः परिकीर्त्तिताः ।। ३७-५ ।।
यो वा को वापि विप्रेन्द्र विप्रद्वेषपरायणः ।।
समर्चयति गोविंदं तत्पूजा विफला भवेत् ।। ३७-६ ।।
अन्यश्रेयोविनाशार्थं येऽर्चयंति जनार्दनम् ।।
सा पूजैव महाभाग पूजकानाशु हंति वै ।। ३७-७ ।।
हरिपूजाकरो यस्तु यदि पापं समाचरेत् ।।
तमेव विष्णुद्वेष्टारं प्राहुस्तत्त्वार्त्थकोविदाः ।। ३७-८ ।।
ये विष्णुनिरताः संति लोकानुग्रहतत्पराः ।।
धर्मकार्यरताः शश्वद्विष्णुरुपास्तु ते मताः ।। ३७-९ ।।
कोटिजन्मार्दजितैः पुण्यैर्विष्णुभक्तिः प्रजायते ।।
दृढभक्तिमतां विष्णौ पापबुद्धिः कथं भवेत् ।। ३७-१० ।।
जन्मकोट्यर्जितं पापं विष्णुपूजारतात्मनाम् ।।
क्षयं याति क्षणादेव तेषां स्यात्पापधीः कथम् ।। ३७-११ ।।
विष्णुभक्तिविहीना ये चंडालाः परिकीर्तिताः ।।
चंडाला अपि वै श्रेष्ठा हरिभक्तिपरायणाः ।। ३७-१२ ।।
नराणां विषयांधानां सर्वदुःखविनाशिनी ।।
हरिसेवेति विख्याता भुक्तिमुक्तिप्रदायिनी ।। ३७-१३ ।।
संगात्स्नेहाद्भयाल्लोभादज्ञानाद्वापि यो नरः ।।
विष्णोरुपासनं कुर्यात्सोऽक्षयं सुखमश्नुते ।। ३७-१४ ।।
हरिपादोदकं यस्तु कणमात्रं पिबेदपि ।।
स स्नातः सर्वतीर्थेषु विष्णोः प्रियतरो भवेत् ।। ३७-१५ ।।
अकालमृत्युशमनं सर्वव्याधिविनाशनम् ।।
सर्वदुःखोपशमनं हरिपोदोदक स्मृतम् ।। ३७-१६ ।।
नारायणं परं धाम ज्योतिषां ज्योतिरुत्तमम् ।।
ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्वती ।। ३७-१७ ।।
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ।। ३७-१८ ।।
आसीत्पुरा कृतयुगे गुलिको नाम लुब्धकः ।।
परदारपरद्रव्यहरणे सततोद्यतः ।। ३७-१९ ।।
परनिंदापरो नित्यं जन्तूपद्रवकृत्तथा ।।
हतवान्ब्राह्मणान् गाश्च शतशोऽथ सहस्रशः ।। ३७-२० ।।
देवस्वहरणे नित्यं परस्वहरणे तथा ।।
उद्युक्तः सर्वदा विप्र कीनाशानामधीश्वरः ।। ३७-२१ ।।
तेन पापान्यनेकानि कृतानि सुमहांति च ।।
न तेषां शक्यते वक्तुं संख्या वत्सरकोटिभिः ।। ३७-२२ ।।
स कदाचिन्महापापो जंतृनामन्तकोपमः ।।
सौवीरराज्ञो नगरं सर्वैश्वर्यसमन्वितम् ।। ३७-२३ ।।
योषिद्धिर्भूषितार्भिश्च सरोभिनिर्मलोदकैः ।।
अलंकृतं विपणिभिर्ययो देवपुरोपमम् ।। ३७-२४ ।।
तस्योपवनमध्यस्थं रम्यं केशवमंदिरम् ।।
छदितं हेमकलशैर्दृष्ट्वा व्याधो मुदं ययौ ।। ३७-२५ ।।
हराम्यत्र सुवर्णानि बहूनीति विनिश्चितम् ।।
जगामाभ्यंतरं तस्य कीनाशश्चौर्यलोलुपः ।। ३७-२६ ।।
तत्रापश्यद्द्विजवरं शांतं तत्त्वार्थकोविदम् ।।
परिचर्यापरं विष्णोरुत्तंकं तपसां निधिम् ।। ३७-२७ ।।
एकाकिनं दयासुं च निस्पृहं ध्यानलोलुपम् ।।
चौर्यान्तरायकर्तारं तं दृष्ट्वा लुब्धको मुने ।। ३७-२८ ।।
द्रव्यजातं तु देवस्य हर्तुकामोऽतिसाहसी ।।
उत्तंकं हंतुमारेभे विधृतासिर्मदोद्धतः ।। ३७-२९ ।।
पादेनाक्रम्य तद्वक्षो जटाः संगृह्य पाणिना ।।
हंतुं कृतमतिं व्याधमुत्तंकः प्रेक्ष्य चाब्रवीत् ।। ३७-३० ।।
उत्तंक उवाच ।।
भो भो साधो वृथा मां त्वं हनिष्यसि निरागसम् ।।
मया किमपराद्धं ते तद्वदस्व महामत्ते ।। ३७-३१ ।।
कृतापराधिनां लोके शक्ताः शिक्षां प्रकुर्वते ।।
नहि सौम्य वृथा घ्नंति सज्जना अपि पापिनः ।। ३७-३२ ।।
विरोधिष्वपि मूर्खेषु निरीक्ष्यावस्थितान् गुणान् ।।
विरोधं नहि कुर्वंति सज्जनाः शांतचेतसः ।। ३७-३३ ।।
बहुधा बोध्यमानोऽपि यो नरः क्षमयान्वितः ।।
तमुत्तमं नरं प्राहुर्विष्णोः प्रियतरं सदा ।। ३७-३४ ।।
सुजनो न याति वैरं परहितबुद्धिर्वनाशकालेऽपि ।।
छेदेऽपि चंदनतरुः सुरभयति मुखं कुठारस्य ।। ३७-३५ ।।
अहो विधिः सुबलवान्बा धते बहुधा जनान् ।।
सर्वसंगविहीनोऽपि बाध्यते हि दुरात्मना ।। ३७-३६ ।।
अहो निष्कारणं लोके बाधंते बहुधा जनान् ।।
सर्वसंगविहीनोऽपि बाध्यते पिशुनैर्जनैः ।।
तत्रापि साधून्बाधंते न समानान्कदाचन ।। ३७-३७ ।।
मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तानाम् ।।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ।। ३७-३८ ।।
अहो बलवती माया मोहयत्यखिलं जगत् ।।
पुत्रमित्रकलत्रार्थं सर्वं दुःखेन योजयेत् ।। ३७-३९ ।।
परद्रव्यापहारेण कलत्रं पोषितं त्वया ।।
अंते तत्सर्वमुत्सृज्य एक एव प्रयति वै ।। ३७-४० ।।
मम माता मम पिता मम भार्या ममात्मजाः ।।
ममेदमिति जंतूनां ममता बाधते वृथा ।। ३७-४१ ।।
यावदर्जयति द्रव्यं बांधवास्तावदेव हि ।।
धर्माधर्मौ सहैवास्तामिहामुत्र न चापरः ।। ३७-४२ ।।
धर्माधर्मार्जितैर्द्रव्यैः पोषिता येन ये नराः ।।
मृतमग्निमुखे हुत्वा घृतान्नं भुंजते हि ते ।। ३७-४३ ।।
गच्छंतं परलोकं च नरं तु ह्यनुतिष्टतः ।।
धर्माधर्मौ न च धनं न पुत्रा न च बांधवाः ।। ३७-४४ ।।
कामः समृद्धिमायाति नराणां पापकर्मिणाम् ।।
कामः संक्षयमायाति नराणां पुण्यकर्मणाम् ।। ३७-४५ ।।
वृथैव व्याकुला लोका धनादानां सदार्जने ।। ३७-४६ ।।
यद्भावि तद्भवत्येव यदभाव्यं न तद्भवेत् ।।
इति निश्चितबुद्धीनां न चिंता बाधते क्वचित् ।। ३७-४७ ।।
देवाधीनमिदं सर्वं जगत्स्थावरजंगमम् ।।
तस्माज्जन्म च मृत्युं च दैवं जानाति नापरः ।। ३७-४८ ।।
यत्र कुत्र स्थितस्यापि यद्भाव्यं तद्भवेद् ध्रुवम् ।।
लोकस्तु तत्र विज्ञाय वृथायासं करोति हि ।। ३७-४९ ।।
अहो दुःखं मनुष्याणां ममताकुलचेतसाम् ।।
महापापानि कृत्वापि परान्पुष्यांति यत्नतः ।। ३७-५० ।।
अर्जितं च धनं सर्वं भुंजते बांधवाः सदा ।।
स्वयमेकतमो मूढस्तत्पापफलमश्नुते ।। ३७-५१ ।।
इति ब्रवाणं तमृषिं विमुच्य भयविह्वलः ।।
गुलिकः प्रांजलिः प्राह क्षमस्वेति पुनः पुनः ।। ३७-५२ ।।
सत्संगस्य प्रभावेण हरिसन्निधिमात्रतः ।।
गतपापो लुबग्दकश्च ह्यनुतापीदमब्रवीत् ।। ३७-५३ ।।
मया कृता नि पापानि महांति सुबहूनि च ।।
तानि सर्वाणि नष्टानि विप्रेंद्र तव दर्शनात् ।। ३७-५४ ।।
अहोऽहं पापधीर्नित्यं महापापमुपाचरम् ।।
कथं मे निष्कृति र्भूयो यामि कं शरणं विभोः ।। ३७-५५ ।।
पूर्वजन्मार्जितैः पापैर्लुब्धकत्वमवाप्तवान् ।।
अत्रापि पापजालानि कृत्वा कां गतिमाप्नुयाम् ।। ३७-५६ ।।
अहो ममायुः क्षयमेति शीघ्रं पापान्यनेकानि समर्ज्जितानि ।।
प्रातिक्रिया नैव कृता मयैषां गतिश्च का स्यान्ममजन्म किं वा ।। ३७-५७ ।।
अहो विधिः पापशता कुलं मां किं सृष्टवान्पापतरं च शश्वत् ।।
कथं च यत्पापफलं हि भोक्ष्ये कियत्सु जन्मस्वहमुग्रकर्मा ।। ३७-५८ ।।
एवं विनिंदन्नात्मानमात्मना लुब्धकस्तदा ।।
अंतस्तापाग्निसंतप्तः सद्यः पंचत्वमागतः ।। ३७-५९ ।।
उत्तंकः पतितं प्रेक्ष्य लुबग्धकं तं दयापरः ।।
विष्णुपादोदकेनैवमभ्यषिंचन्महामतिः ।। ३७-६० ।।
हरिपादोदकस्पर्शाल्लुब्धको गतकल्मषः ।।
दिव्यं विमानमारुह्य मुनिमेतदथाब्रवीत् ।। ३७-६१ ।।
गुलिक उवाच ।।
उत्तंक मुनिशार्दूल गुरुस्त्वं मम सुव्रत ।।
विमुक्तस्त्वत्प्रसादेन महापातककंचुकात् ।। ३७-६२ ।।
गतस्त्वदुपदेशान्मे संतापो मुनिपुंगव ।।
तथैव सर्वपापानि विनष्टान्यतिवेगतः ।। ३७-६३ ।।
हरिपादोदकं यस्मान्मयि त्वं सिक्तवान्मुने ।।
प्रापितोऽस्मि त्वया तस्मात्तद्विष्णोः परमं पदम् ।। ३७-६४ ।।
त्वयाहं तारितो विप्र पापादस्माच्छरीरतः ।।
तस्मान्नतोऽस्मि ते विद्वन्मत्कृतं तत्क्षमस्व च ।। ३७-६५ ।।
इत्युक्त्वा देवकुसुमैर्मुनिश्रेष्टं समाकिरम् ।।
प्रदक्षिणात्रयं कृत्वा नमस्कारं चकार सः ।। ३७-६६ ।।
ततो विमानमारुह्य सर्वकामसमन्वितम् ।।
अप्सरोगणसंकीर्णः प्रपेदे हरिमंदिरम् ।। ३७-६७ ।।
एतद्दृष्ट्वा विस्मितोऽसौ ह्युत्तंकस्तपसांनिधिः ।।
शिरस्यंजलिमाधाय तुष्टाव कमलापतिम् ।। ३७-६८ ।।
तेन स्तुतो महाविष्णुर्दत्तवान्वरमत्तमम् ।।
वरेण तेनोक्तंकोऽपि प्रपेदे परमं पदम् ।। ३७-६९ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे विष्णुमाहात्म्ये सप्तत्रिंशोऽध्यायः ।। ३७ ।।