नारदपुराणम्- पूर्वार्धः/अध्यायः २१
।। सनक उवाच ।।
अन्यद्व्रतं प्रवक्ष्यामि श्रृणु नारद तत्त्वतः ।।
दुर्लभं सर्वलोकेषु विख्यातं हरिपञ्चकम् ।। २१-१ ।।
नारीणां च नराणां च सर्वदुःखनिवारणम् ।।
धर्मकामार्थमोक्षाणां निदानं मुनिसत्तम ।। २१-२ ।।
सर्वाभीष्टप्रदं चैव सर्वव्रतफलप्रदम् ।।
मार्गशीर्षे सिते पक्षे दशम्यां नियतेन्द्रियः ।। २१-३ ।।
कुर्यात्स्नानादिकं कर्म दन्तधावनपूर्वकम ।।
कृत्वा देवार्चनं सम्यक्तथा पञ्च महाध्वरान् ।। २१-४ ।।
एकाशी च भवेत्तस्मिन् दिने नियममास्थिताः ।।
ततः प्रातः समुत्थाय ह्येकादश्यां मुनीश्वरः ।। २१-५ ।।
स्नानं कृत्वा यथाचारं हरिं चैवार्चयेद्गृहे ।।
स्नापयेद्देवदेवेशं पञ्चामृतविधानतः ।। २१-६ ।।
अर्चयेत्परया भक्त्या गन्धपुष्पादिभिः क्रमात् ।।
धूपैर्दीपैश्च नैवैद्यैस्ताम्बूलैश्च प्रदक्षिणैः ।। २१-७ ।।
संपूज्य देवदेवेशमिमं मन्त्रमुदीरयेत् ।.
नमस्ते ज्ञानरूपाय ज्ञानदाय नमोऽस्तुते ।। २१-८ ।।
नमस्ते सर्वरूपाय सर्वसिद्धिप्रदायिने ।।
एवं प्रणम्य देवेशं वासुदेवं जनार्दनम् ।। २१-९ ।।
वक्ष्यमाणेन मन्त्रेण ह्युपवासं समर्पयेत् ।।
पञ्चरात्रं निराहारो ह्यद्यप्रभृति केशव ।। २१-१० ।।
त्वदाज्ञया जगत्स्वामिन्ममाभीष्टप्रदो भव ।।
एवं समाप्य देवस्य उपवासं जितेन्द्रियः ।। २१-११ ।।
रात्रौ जागरणं कुर्यादेकादश्यामथो द्विज ।।
द्वादश्यां च त्रयोदश्यां चतुर्दश्यां जितेन्द्रियः ।। २१-१२ ।।
पौर्णमास्यां च कर्त्तव्यमेवं विष्ण्वर्चनं मुने ।।
एकादश्यां पौर्णमास्यां कर्त्तव्यं जागरं तथा ।। २१-१३ ।।
पञ्चामृतादिपूजा तु सामान्या दिनपञ्चसु ।।
क्षीरेण स्नापयेद्विष्णुं पौर्णमास्यां तु शक्तितः ।।
तिलहोमश्च कर्त्तव्यस्तिलदानं तथैव च ।। २१-१४ ।।
ततः षष्टे दिने प्राप्ते निर्वत्यं स्वाश्रमक्रियाम् ।।
संप्राश्य पञ्चगव्यं च पूजयेद्विधिवद्धरिम् ।। २१-१५ ।।
ब्राह्मणान्भोजयेत्पश्चाद्विभवे सत्यवारितम् ।।
ततः स्वबन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ।। २१-१६ ।।
एवं पौषादिमासेषु कार्त्तिकान्तेषु नारद ।।
शुक्लपक्षे व्रतं कुर्यात्पूर्वोक्तविधिना नरः ।। २१-१७ ।।
एवं संवत्सरं कार्यं व्रतं पापप्रणाशनम् ।।
पुनः प्राप्ते मार्गशीर्षे कुर्यादुद्यापनं व्रती ।। २१-१८ ।।
एकादश्यां निराहारो भवेत्पूर्वमिव द्विज ।।
द्वादश्यां पञ्चगव्यं च प्राशयेत्सुसमाहितः ।। २१-१९ ।।
गन्धपुष्पादिभिः सम्यग्देवदेवं जनार्दनम् ।।
अभ्यर्च्योपायनं दद्याद्ब्राह्यणाय जितेन्द्रियः ।। २१-२० ।।
पायसं मधुसंमिश्रं घृतयुक्तं फलान्वितम् ।।
सुगन्धजलसंयुक्तं पूर्णकुम्भं सदक्षिणम् ।। २१-२१ ।।
वस्त्रेणाच्छादितं कुम्भं पञ्चरत्नसमन्वितम् ।।
दद्यादध्यात्मविदुषे ब्राह्मणाय मुनीश्वर ।। २१-२२ ।।
सर्वात्मन् सर्वभूतेश सर्वव्यापिन्सनातन ।।
परमान्नप्रदानेन सुप्रीतो भव माधव ।। २१-२३ ।।
अनेन पायसं दत्त्वा ब्राह्मणान्भोजयेत्ततः ।।
शक्तितो बन्धुभिः सार्द्धं स्वयं भुञ्जीत वाग्यतः ।। २१-२४ ।।
व्रतमेतत्तु यः कुर्याद्धरिपञ्चकसंज्ञितम् ।।
न तस्य पुनरावृत्तिर्ब्रह्यलोकात्कदाचन ।। २१-२५ ।।
व्रतमेतत्प्रकर्त्तव्यमिच्छद्भिर्मोक्षमुत्तम् ।।
समस्तपापकान्तारदावानलसमं द्विज ।। २१-२६ ।।
गवां कोटिसहस्त्राणि दत्त्वा यत्फलमाप्नुयात् ।।
तत्फलं लभ्यते पुम्भिरेतस्मादुपवासतः ।। २१-२७ ।।
यस्त्वेतच्छृणुयाद्भक्त्या नारायणपरायणः ।।
स मुच्यते महाघोरैः तापकानां च कोटिभिः ।। २१-२८ ।।
इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशोऽध्यायः ।। २१ ।।