नारदपुराणम्- पूर्वार्धः/अध्यायः १४
धर्मराज उवाच ।।
श्रुतिस्मृत्युदितं धर्मं वर्णानामनुपूर्वशः ।।
प्रब्रवीमि नृपश्रेष्ट तं श्रृणुष्व समाहितः ।। १४-१ ।।
यो भुञ्जानोऽशुचिं वापि चाण्डालं पतितं स्पृशेत् ।।
क्रोधादज्ञानतो वापिं तस्य वक्ष्यामि निष्कृतिम् ।। १४-२ ।।
त्रिरात्रं वाथ षड्रात्रं यथासंख्यं समाचरेत् ।।
स्नानं त्रिषवणं विप्रपञ्चगव्येन शुध्यति ।। १४-३ ।।
भुञ्जानस्य तु विप्रस्य कदाचिजत्स्त्रवते गुदम् ।।
उच्छिष्टत्वेऽशुचित्वे च तस्य शुद्धिं वदामि ते ।। १४-४ ।।
पूर्वं कृत्वा द्विजः शौचं पश्चादप उपस्पृशेत् ।।
अहोरात्रोषितो भूत्वा पञ्चगव्येन शुध्यति ।। १४-५ ।।
निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते ।।
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽनलम् ।। १४-६ ।।
यदा भोजनकाले स्यादशुचिर्ब्राह्मणः क्वचित् ।।
भूमौ निधाय तं ग्रासं स्नात्वा शुद्धिमवान्पुयात् ।। १४-७ ।।
भक्षयित्वा तु तद् आसमुपवालेन शुद्ध्यति ।।
अशित्वा चैव तत्सर्वं त्रिरात्रमशुचिर्भवेत् ।। १४-८ ।।
अश्रतश्चेद्वमिः स्याद्वै ह्यस्वस्थस्त्रिश्रतं जपेत् ।।
स्वस्थस्त्रीणि सहस्त्राणि गायत्र्याः शोधनं परम् ।। १४-९ ।।
चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः ।। १४-१० ।।
त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षडाचरेत् ।।
उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि ।। १४-११ ।।
त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ।।
रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः ।। १४-१२ ।।
निराहारा शुचिस्तिष्टेत्काले स्नानेन शुद्ध्यति ।।
रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ।। १४-१३ ।।
शुद्धेते ब्रह्मकूर्चेन ब्रह्मकूर्चेन चोपरि ।।
उच्छिष्टेन च संस्पृष्टो यो न स्नानं समाचरेत् ।। १४-१४ ।।
ऋतौ तु गर्भं शङ्कित्वा स्नानं मैथुनिनः स्मृतम् ।।
अनॄतौ तु स्त्रियं गत्वा शौचं मूत्रपुरीषवत् ।। १४-१५ ।।
उभावप्यशुची स्यातां दम्पती याभसंगतौ ।।
शयनादुत्थिता नारी शुचिः स्यादशुचिः पुमान् ।। १४-१६ ।।
भर्त्तुः शरीरशुश्रूषां दौरात्म्यादप्रकुर्वती ।।
दण्ड्या द्वादशकं नारी वर्षं त्याज्या धनं विना ।। १४-१७ ।।
त्यजन्तो पतितान्बन्धून्दण्ड्यानुत्तमसाहसम् ।।
पिता हि पतितः कामं न तु माता कदाचन ।। १४-१८ ।।
आत्मानं घातयेद्यस्तु रज्ज्वादिभिरुपक्रमैः ।।
मृते मेध्येन लेत्पव्यो जीवतो द्विशतं दमः ।। १४-१९ ।।
दण्ड्यास्तत्पुत्रमित्राणि प्रत्येकं पाणिकं दमम् ।।
प्रायश्चित्तं ततः कुर्युर्यथाशास्त्रप्रचोदितम् ।। १४-२० ।।
जलाग्न्युद्वन्धनभ्रष्टाः प्रव्रज्यानाशकच्युताः ।।
विषप्रपतनध्वस्ताः शस्त्रघातहताश्च ये ।। १४-२१ ।।
न चैते प्रव्रत्यवसिताः सर्वलोकबहिष्कृताः ।।
चान्द्रायणेन शुद्ध्यंन्ति तत्पकृच्छ्रद्वयेन वा ।। १४-२२ ।।
उभयावसितः पापश्यामच्छबलकाच्च्युतः ।।
चान्द्रायणाभ्यां शुद्ध्येत दत्त्वा धेनुं तथा वृषम् ।। १४-२३ ।।
स्वश्रृगालप्लवङ्गाद्यैर्मानुषैश्च रतिं विना ।।
स्पृष्टः स्त्रात्वा शुचिः सद्यो दिवा संध्यासु रात्रिषु ।। १४-२४ ।।
अज्ञानाद्वा तु यो भुक्त्वा चाण्डालान्नं कथंचन ।।
गोमूत्रयावकाहारो मासार्द्धेन विशुद्ध्यति ।। १४-२५ ।।
गोब्राह्मणगृहं दग्ध्वा मृतं चोद्वन्धनादिना ।।
पाशं छित्वा तथा तस्य कृच्छ्रमेकं चरेद्दिजः ।। १४-२६ ।।
चाण्डालपुल्पसानां च भुक्त्वा हत्वा च योषितम् ।।
कृच्छ्रार्ध्दमाचरेज्ज्ञानादज्ञानादैन्दवद्वयम् ।। १४-२७ ।।
कोपालिकान्नभोक्तॄणां तन्नारीगामिनां तथा ।।
अगम्यागमने विप्रो मद्यगो मांसभक्षणे ।। १४-२८ ।।
तपत्कृच्छ्रपरिक्षिप्तो मौर्वीहोमेन शुद्ध्यति ।।
महापातककर्त्तारश्चत्वारोऽथ विशेषतः ।। १४-२९ ।।
अग्निं प्रविश्य शुद्ध्यन्तिस्थित्वा वा महति क्रतौ ।।
रहस्यकरणोऽप्येवं मासमभ्यस्य पूरुषः ।। १४-३० ।।
अघमर्षणसूक्तं वा शुद्ध्येदन्तर्जले जपन् ।।
रजकश्चर्मकारश्च नटो बुरुड एव च ।। १४-३१ ।।
कैवर्त्तमेदभिल्लाश्व सत्पैते ह्यन्त्यजाः स्मृताः ।।
भुक्त्वा चैषां स्त्रियो गत्वा पीत्वा यः प्रतिगृह्यते ।। १४-३२ ।।
कृच्छ्रार्द्धमाचरेज्ज्ञानादैन्दवद्वयम् ।।
मातरं गुरुपत्नीं च दुहितृभगिनीस्नुषाः ।। १४-३३ ।।
संगम्य प्रविशेदग्निं नान्याशुद्धिर्विधीयते ।।
राज्ञीं प्रव्रजितां धात्रीं तथावर्णोत्तमामपि ।। १४-३४ ।।
गत्वाकृच्छ्रद्वयं कुर्यात्सगोत्रामभिगम्य च ।।
अमूषु पितृगोत्रासु मातृगोत्रगतासु च ।। १४-३५ ।।
परदारेषु सर्वेषु कृच्छ्रार्द्धं तपनं चरेत् ।।
वेश्याभिगमने पापं व्यपोहन्ति द्विजास्तथा ।। १४-३६ ।।
पीत्वा सकृत्सुतत्पं च पञ्चरात्रं कुशोदकम् ।।
गुरुतल्पगतो कुर्याद्रबाह्मणो विधिवद्रूतम् ।। १४-३७ ।।
गोन्घस्य केचिदिच्छन्ति केचिच्चैवावकीर्णिनः ।।
दण्डादूर्ध्वं प्रहारेण यस्तु गां विनिपातयेत् ।। १४-३८ ।।
द्विगुणं गोव्रतं तस्य प्रायश्चितं विशोधयेत् ।।
अङ्गुष्टमात्रस्थूलस्तु बाहुमात्रप्रमाणकः ।। १४-३९ ।।
सार्द्रकस्सपालाश्च गोदण्डः परिकीर्त्तितः ।।
गवां निपातने चैव गर्भोऽपि संभवेद्यदि ।। १४-४० ।।
एकैकशश्वरेत्कृच्छ्रं एषा गोन्घस्य निष्कृतिः ।।
बन्धने रोधने चैव पोषणे वा गवां रुजाम् ।। १४-४१ ।।
संपद्यते चेन्मरणं निमित्तेनैव लिप्यते ।।
मूर्च्छितः पतितो वापि दण्डेनाभिहतस्ततः ।। १४-४२ ।।
उत्थाय षट्पदं गच्छेत्सप्त पञ्चदशापि वा ।।
ग्रासं वा यदि गृह्णीयात्तोयं वापि पिबेद्यदि ।। १४-४३ ।।
सर्वव्याधिप्रनष्टानां प्रायश्चित्तं न विद्यते ।।
कष्टलोष्टाश्मभिर्गावः शस्त्रैर्वा निहता यदि ।। १४-४४ ।।
प्रायश्चित्तं स्मृतं तत्र शस्त्रे शस्त्रे निगद्यते ।।
काष्टे सान्तपनं प्रोक्तं प्राजापत्यं तु लोष्टके ।। १४-४५ ।।
तप्तकृच्छ्रं तु पाषाणे शस्त्रे चाप्यतिकृच्छ्रकम् ।।
औषधं स्नेहमाहारं दद्याद्गोब्राह्मणेषु च ।। १४-४६ ।।
दीयमाने विपत्तिः स्यात्प्रायश्चित्तं तदा नहि ।।
तैलभेषजपाने च भेषजानां च भक्षणे ।। १४-४७ ।।
निशल्यकरणे चैव प्रायश्चित्तं न विद्यते ।।
वत्सानां कण्ठबन्धेन क्रिययाभेषजेन तु ।। १४-४८ ।।
सायं संगोपनार्थं च त्वदोषो रोषबन्धयोः ।।
पादे चैवास्य रोमाणि द्विपादे श्मश्रु केवलम् ।। १४-४९ ।।
त्रिपादे तु शिखावर्तं मूले सर्वं समाचरेत् ।।
सर्वान्केशान्समुद्धृत्य छेदयेदङ्गुलद्वयम् ।। १४-५० ।।
एवमेव तु नारीणां मुण्डनं शिरसः स्मृतम् ।।
न स्त्रिया वपनं कार्यं न च वीरासनं स्मृतम् ।। १४-५१ ।।
न च गोष्टे निवासोऽस्ति न गच्छन्तीमनुव्रजेत् ।।
राजा वा राजपुत्रो वा ब्राह्मणो वा बहुश्रुतः ।। १४-५२ ।।
अकृत्वा वपनं तेषां प्रायश्चित्तं विनिर्द्दिशेत् ।।
केशानां रक्षणार्थं च द्विगुणं व्रतमादिशेत् ।। १४-५३ ।।
द्विगुणे गतु व्रते चीर्णे द्विगुणा व्रतदक्षिणा ।। १४-५४ ।।
पापं न क्षीयते हन्तुर्दाता च नरकं व्रजेत् ।।
अश्रौतस्मार्तविहितं प्रायश्चित्तं वदन्ति ये ।। १४-५५ ।।
तान्धर्मविन्घकर्तॄंश्च राजा दण्डेन पीडयेत् ।।
न चैतान्पीडयेद्राजा कथंचित्काममोहितः ।। १४-५६ ।।
तत्पापं शतधाभूत्वा तमेव परिसर्पति ।।
प्रायश्चित्ते ततश्चीर्णे कुर्याद्ब्राह्मणभोजनम् ।। १४-५७ ।।
विंशतिर्गा वृषं चैकं दद्यात्तेषां च दक्षिणाम् ।।
क्रिमिभिस्तृण संभूतैर्मक्षिकादिनिपातितैः ।। १४-५८ ।।
कृच्छ्रार्द्धं स प्रकुर्वीत शक्त्या दद्याच्च दक्षिणाम् ।।
प्रायश्चित्तं च कृत्वा वै भोजयित्वा द्विजोत्तमान् ।। १४-५९ ।।
सुवर्णमानिकं दद्यात्ततः शुद्धिर्विधीयते ।।
चाण्डालश्वपचैः स्पृष्टे निशि स्नानं विधीयते ।। १४-६० ।।
न वसेत्तत्र रात्रौ तु सद्यः स्नानेन शुद्ध्यति ।।
वसेदथ यदा रात्रावज्ञानादविचक्षणः ।। १४-६१ ।।
तदा तस्य तु तत्पापं शतधा परिवर्तते ।।
उद्गच्छन्ति च नक्षत्राण्युपरिष्टाच्च ये ग्रहाः ।। १४-६२ ।।
संस्पृष्टे रश्मिभिस्तेषामुदकस्नानमाचरेत् ।।
याश्चान्तर्जलवल्मीकमूषिकोषरवर्त्मसु ।। १४-६३ ।।
श्मशाने शौचशेषे च न ग्राह्याः सत्प मृत्तिकाः ।।
इष्टापूर्तं तु कर्त्तव्यं ब्राह्मणेन प्रयत्नतः ।। १४-६४ ।।
इष्टेन लभते स्वर्गं मोक्षं पूर्त्तेन चान्पुयात् ।।
वित्तक्षेपो भवेदिष्टं तडागं पूर्त्तमुच्यते ।। १४-६५ ।।
आरामश्च विशेषेण देवद्रोण्यस्तथैव च ।।
वापीकूपतडागानि देवतायतनानि च ।। १४-६६ ।।
पतितान्युद्धरेद्यस्तु स पूर्वफलमश्नुते ।।
शुक्लाया आहरेन्मूत्रं कृष्णाया गोः शकृत्तथा ।। १४-६७ ।।
ताम्रायाश्च पयो ग्राह्यं श्वेतायाश्च दधि स्मृतम् ।।
कपिलाया घृतं ग्राह्यं महापातकनाशनम् ।। १४-६८ ।।
कुशैस्तीर्थनदीतौयैः सर्वद्रव्यं पृथक् पृथक् ।।
आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च ।। १४-६९ ।।
प्रणवेन समालोड्य प्रणवेनैव संपिबेत् ।।
पालाशे मध्यमे पर्णे भाण्डे ताम्रमये शुभे ।। १४-७० ।।
पिबेत्पुष्करपर्णे वा मृन्मये वा कुशोदकम् ।।
सूतके तु समुत्पन्ने द्वितीये समुपस्थिते ।। १४-७१ ।।
द्वितीये नास्ति दोषस्तु प्रथमेनैव शुध्यति ।।
जातेन शुध्यते जातं मृतेन मृतकं तथा ।। १४-७२ ।।
गर्भसंस्त्रवणे मासे त्रीण्यहानि विनिर्दिशेत् ।। १४-७३ ।।
रात्रिभिर्मासतुल्याभिर्गर्भस्त्रावे विशुद्ध्यति ।।
रजस्युपरते साध्वी स्नानेन स्त्री रजस्वला ।। १४-७४ ।।
स्वगोत्राद्भृश्यते नारी विवाहात्सप्तमे पदे ।।
स्वामिगोत्रेण कर्त्तव्यास्तस्याः पिण्डोदकक्रियाः ।। १४-७५ ।।
उद्देश्यं पिण्डदाने स्यात्पिण्डे पिण्डे द्विनामतः ।।
षण्णां देयास्त्रयः पिण्डा एवं दाता न मुह्यति ।। १४-७६ ।।
स्वेन भर्त्रा सहस्त्राब्दं माताभुक्ता सुदैवतम् ।।
पितामह्यपि स्वेनैव स्वेनैव प्रपितामही ।। १४-७७ ।।
वर्षे तु कुर्वीत मातापित्रोस्तु सत्कृतिम् ।।
अदैवं भोजयेच्छ्राद्धं पिण्डमेकं तु निर्वपेत् ।। १४-७८ ।।
नित्यं नैमित्तिकं काम्यं वृद्धिश्राद्धमथापरम् ।।
पार्वणं चेति विज्ञेयं श्राद्धं प़ञ्चविधं बुधैः ।। १४-७९ ।।
ग्रहोपरागे संक्रान्तौ पर्वोत्सवमलालये ।।
निर्वपेत्र्रीन्नरः पिण्डानेकमेव मृतेऽहनि ।। १४-८० ।।
अनूढ न पृथक्कन्या पिण्डे गोत्रे च सूतके ।।
पाणिग्रहणमन्त्राभ्यां स्वगोत्राद्भ्रश्यते ततः ।। १४-८१ ।।
येन येन तु वर्णेन या कान्या परिणीयते ।।
तत्समं सूतकं याति तथापिण्डोदकेऽपि च ।। १४-८२ ।।
विवाहे चैव संवृत्ते चतुर्थेऽहनिरात्रिषु ।।
एकत्वं सा व्रजेद्भर्तुः पिण्डे गोत्रे च सूतके ।। १४-८३ ।।
प्रथमेऽह्नि द्वितीये वा तृतीये वा चतुर्थके ।।
अस्थिसंचयनं कार्यं बन्धुभिर्हितबुद्धिभिः ।। १४-८४ ।।
चतुर्थे पञ्चमे चैव सत्पमे नवमे तथा ।।
अस्थिसंचयनं प्रोक्तं वर्णानामनुपूर्वशः ।। १४-८५ ।।
एकादशाहे प्रेतस्य यस्य चोत्सृज्यते वृषः ।।
मुच्यते प्रेतलोकात्स स्वर्गलोके महीयते ।। १४-८६ ।।
नाभिमात्रे जले स्थित्वा हृदयेन तु चिन्तयेत् ।।
आगच्छन्तु मे पितरो गृह्णन्त्वेताञ्जाञ्जलीन् ।। १४-८७ ।।
हस्तौ कृत्वा तु संयुक्तौ पूरचित्वा जलेन च ।।
गोश्रृङ्गमात्रमुद्धृत्य जलमध्ये विनिः क्षिपेत् ।। १४-८८ ।।
आकाशे च क्षिपेद्वारि वारिस्थो दक्षघिणामुखः ।।
पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च ।। १४-८९ ।।
आपो देवगणाः प्रोक्ता आपः पितृगणास्तथा ।।
तस्मादस्य जलं देयं पितॄणां हितमिच्छता ।। १४-९० ।।
दिवासूर्यांशुसंतत्पं रात्रौ नक्षत्रमारुतैः ।।
मध्ययोरप्युभाभ्यां च पवित्रं सर्वदा जलम् ।। १४-९१ ।।
स्वभावयुक्तमव्यक्तममेध्येन सदा शुचिः ।।
भाण्डस्थं धरणीस्थं वा पवित्रं सर्वदा जलम् ।। १४-९२ ।।
देवतानां पितॄणां च जलं दद्याज्जलाञ्जलीन् ।।
असंस्कृतप्रमीतानां स्थले दद्याद्विचक्षणः ।। १४-९३ ।।
श्राद्धे हवनकाले च दद्यादेकेन पाणिना ।।
उभाभ्यां तर्पणे दद्यादेष धर्मो व्यवस्थितः ।। १४-९४ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मशान्तिनिर्देशो नाम चतुर्दशोऽध्यायः ।। १४ ।।