नारदपुराणम्- पूर्वार्धः/अध्यायः १०
नारद उवाच ।।
विष्णुपादाग्रसंभूता या गङ्गेत्यभिधीयते ।।
तदुत्पत्तिं वद भ्रातरनुग्राह्योऽस्मि ते यदि ।। १०-१ ।।
सनक उवाच ।।
श्रृणु नारद वक्ष्यामि गङ्गोत्पत्तिं तवानघ ।।
वदतां श्रृण्वतां चैंव पुण्यदां पापनाशिनीम् ।। १०-२ ।।
आसीदिंद्रादिदेवानां जनकः कश्यपो मुनिः ।।
दक्षात्मजे तस्य भार्ये दितिश्चादितिरेव च ।। १०-३ ।।
अदितिर्देवमातास्ति दैत्यानां जननी दितिः ।।
ते तयोरात्मजा विप्र परस्परजयैषिणः ।। १० -४ ।।
सदा सपूर्वदेवास्तु यतो दैत्याः प्रकीर्तिताः ।।
आदिदैंत्यो दितेः पुत्रो हिरण्यकशिपुर्बली ।। १०-५ ।।
प्रह्लादस्तस्य पुत्रो।़भूत्सुमहान्दैत्यसत्तमः ।।
विरोचन स्तस्य सुतो बभूव द्विजभक्तिमान् ।। १०-६ ।।
तस्य पुत्रोऽतितेजस्वी बलिरासीत्प्रतापवान् ।।
स एव वाहिनीपालो दैत्यानामभवन्मुनेः ।। १०-७ ।।
बलेन महता युक्तो बुभुजे मेदिनीमिमाम् ।।
विजित्य वसुधां सर्वां स्वर्गं जेतुं मनो दधे ।। १०-८ ।।
गजाश्च यस्यायुतकोटिलक्षास्तावन्त एवाश्वरथा मुनींद्र ।।
गजेगजे पंचशती पदातेः किं वर्ण्यते तस्य चमूर्वरिष्टा ।। १०-९ ।।
अमात्यकोट्यग्रसरावमात्यौ कुम्भाण्डनामाप्यथ कूपकर्णः ।।
पित्रा समं शौर्यपराक्रमाभ्यां बाणो बलेः पुत्रशतग्रजोऽभूत् ।। १०-१० ।।
बलिः सुराञ्जेतुमनाः प्रवृत्तः सैन्येन युक्तो महता प्रतस्थे ।।
ध्वजातपर्त्रैर्गगनाबुराशेस्तरङ्गविद्युत्स्मरणं प्रकुर्वन् ।। १०-११ ।।
अवाप्य वृत्रारिपुरं सुरारी रुरोघ दैत्यैर्मृगराजगाढैः ।।
सुरश्च युद्धाय पुरात्तथैव विनिर्ययुर्वज्रकरादयश्च ।। १०-१२ ।।
ततः प्रववृते युद्धं घोरं गीर्वाणदैत्ययो ।।
कल्पांतमेघानिर्धोषं डिंडिंमध्वनिसंभ्रमम्।। १०-१३ ।।
मुमुचुः शरजालानि दैंत्याः सुमनसां बले ।।
देवाश्च दैत्यसेनासु संग्रामेऽत्यन्तदारुणे ।। १०-१४ ।।
जहि दारय भिंधीते छिंधि मारय ताडय ।।
इत्येवं सुमहान्घोषो वदतां सेनयोरभूत् ।। १०-१५ ।।
शरदुन्दुभिनिध्वानैः सिंहनादैः सिंहनादैः सुरद्विषाम् ।।
भाङ्कारैः स्यन्दनानां च बाणक्रेङ्गारनिःस्वनैः ।। १०-१६ ।।
अश्वानां हेषितैश्चैव गजानां बृंहितैस्तथा ।।
टङ्गारैर्धनुषां चैव लोकः शब्दत्मयोऽभवत् ।। १०-१७ ।।
सुरासुरविनिर्मुक्तबाणनिष्पेषजानले ।।
अकालप्रलयं मेने निरीक्ष्य सकलं जगत् ।। १०-१८ ।।
बभौ देवद्विषां सेना स्फुरच्छस्त्रौघधारिणी ।।
चलद्विद्युन्निभा रात्रिश्छादिता जलदैरिव ।। १०-१९ ।।
तस्मिन्युद्धे महाधोरैर्गिरीन् क्षित्पान् सुरारिभिः ।।
नाराचैश्चूर्णयामासुर्देवास्ते लघुविक्रमाः ।। १०-२० ।।
केचित्सताडयामासुर्नागैर्नागान्रथान्रथैः ।।
अश्वैरश्वांश्च केचित्तु गदादण्डैरथार्द्दयन् ।। १०-२१ ।।
परिधैस्ताडिताः केचित्पेतुः शोणितकर्द्दमे ।।
समुक्त्रांतासवः केचिद्विमानानि समाश्रिताः ।। १०-२२ ।।
ये दैत्या निहता देवैः प्रसह्य सङ्गरे तदा ।।
ते देवभावमापन्ना दैतेयान्समुपाद्रवन् ।। १०-२३ ।।
अथ दैत्यगणाः क्रुद्वास्तड्यमानाः सुर्वैर्भृशम् ।।
शस्त्रैर्बहुविधैर्द्देवान्निजध्नुरतिदारुणाः ।। १०-२४ ।।
दृषद्भिर्भिदिपालैश्च खङ्गैः परशुतोमरैः ।।
परिधैश्छुरिकाभिश्च कुन्तैश्चक्रैश्च शङ्कुभिः ।। १०-२५ ।।
मुसलैरङ्कुशेश्वैव लाङ्गलैः पट्टिशैस्तथा ।।
शक्त्योपलैः शतघ्रीभिः पाशैश्च तलमुष्टिभिः ।। १०-२६ ।।
शूलैर्नालीकनाराचैः क्षेपणीयैस्समुद्ररैः ।।
रथाश्वनागपदगैः सङ्कुलो ववृधे रणः ।। १०-२७ ।।
देवाश्च विविधास्त्राणि दैतेयेभ्यः समाक्षिपन् ।।
एवमष्टसहस्त्राणि युद्धमासीत्सुदारुणम् ।। १०-२८ ।।
अथ दैत्यबले वृद्धे पराभूता दिवौकसः ।।
सुरलोकं परित्यतज्य सर्वे भीताः प्रदुद्रुवुः ।। १०-२९ ।।
नररुपपरिच्छन्ना विचेरुरवनीतले ।।
वैरोचनिस्त्रिभुवनं नारायणपरायणः ।। १०-३० ।।
बुभुजेऽव्याहतैश्चर्यप्रवृद्धश्रीर्महाबलः ।।
इत्याज चाश्वमेघैः स विष्णुप्रीणनतत्परः ।। १०-३१ ।।
इन्द्रत्वं चाकरोत्स्वर्गे दिक्पालत्वं तथैव च ।।
देवानां प्रीणनार्थाय यैः क्रियन्ते द्विजैर्मखाः ।। १०-३२ ।।
तेषु यज्ञेषु सर्वेषु हविर्भुङ्क्ते स दैत्यराट् ।।
अदितिः स्वात्मजान्वीक्ष्य देवमातातिदुःखिता ।। १०-३३ ।।
वृथात्र निवसामीति मत्वागाद्धिमवद्गिरम् ।।
शक्रस्यैश्वर्यमिच्छंती दैत्यानां च पराजयम् ।। १०-२४ ।।
हरिध्यानपरा भूत्वा तपस्तेपेऽतिदुष्करम् ।।
किंचित्कालं समासीना तिष्टंती च ततः परम् ।। १०-३५ ।।
पादेनैकेन सुचिरं ततः पादाग्रमात्रतः ।।
कंचित्कालं फलाहारा ततः शीर्णदलाशना ।। १०-३६ ।।
ततो जलाशमा वायुभोजनाहारवर्जिता ।।
सच्चिदानन्दसन्दोहं ध्यायत्यात्मानमात्मना ।। १०-३७ ।।
दिव्याब्दानां सहस्त्रं सा तपोऽतप्यत नारद ।।
दुरन्तं तत्तपः श्रुत्वा दैतेया मायिनोऽदितिम् ।। १०-३८ ।।
देवतारुपमास्थाय संप्रोचुर्बलिनोदिताः ।।
किमर्थं तप्यते मातः शरीरपरिशोषणम् ।। १०-३९ ।।
यदि जानन्ति दैतेया महदुखं ततो भवेत् ।।
त्यजेदं दुःखबहुलं कायशोषणकारणम् ।। १०-४० ।।
प्रयाससाध्यं सुकृतं न प्रशँसन्ति पण्डिताः ।।
शरीरं यन्ततो रक्ष्यं धर्मसाधनतत्परैः ।। १०-४१ ।।
ये शरीरमुपेक्षन्ते ते स्युरात्मविघातिनः ।।
सुखं त्वं तिष्ट सुभगे पुत्रानस्मान्न खेदय ।। १०-४२ ।।
मात्रा हीना जना मातर्मृतप्राया न संशयः ।।
गावो वा पशवो वापि यत्र गावो महीरुहाः ।। १०-४३ ।।
न लभन्ते सुखं किंचिन्मात्रा हीना मृतोपमाः ।।
दरिद्रो वापि रोगी वा देशान्तरगतोऽपि वा ।। १०-४४ ।।
मातुर्दर्शनमात्रेण लभते परमां मुदम् ।।
अन्ने वा सलिले वापि धनादौ वा प्रियासु च ।। १०-४५ ।।
कदाचिद्विमुखो याति जनो मातरि कोऽपि न ।।
यस्य माता गृहे नास्ति यत्र धर्मपरायणा ।।
साध्वी च स्त्री पतिप्राणा गन्तव्यं तेन वै वनम् ।। १०-४६ ।।
धर्मश्च नारायणभक्तिहीनां धनं च सद्भोगविवर्जितं हि ।।
गृहं च मार्यातनयेर्विहीनं यथा तथा मातृविहीनमर्त्यः ।। १०-४७ ।।
तस्माद्देवि परित्राहि दुःखार्तानात्मजांस्तव ।।
इत्युक्ताप्यदितिर्दैप्यैर्न चचाल समाधितः ।। १०-४८ ।।
एवमुक्त्वासुराः सर्वे हरिध्यानपरायणाम् ।।
निरीक्ष्य क्रोधसंयुक्ता हन्तुं चक्रुर्मनोरथम् ।। १०-४९ ।।
कल्पान्तमेघनिर्घोषाः क्रोधसंरक्तलोचनाः ।।
दंष्ट्रग्रैरसृजन्वह्निंम् सोऽदहत्काननं क्षणात् ।। १०-५० ।।
शतयोजनविस्तीर्णं नानाजीवसमाकुलम् ।।
तेनैव दग्धा दैतेया ये प्रधर्षयितुं गताः ।। १०-५१ ।।
सैवावशिष्टा जननी सुराणामब्दाच्छतादच्युतसक्तचिता ।।
संरक्षिता विष्णुसुदर्शनेन दैत्यान्तकेन स्वजनानुकम्पिना ।। १०-५२ ।।
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गोत्पत्तौ बलिकृतदेवपराजयवर्णनन्नाम दशमोऽध्यायः ।। १० ।।