ऋग्वेदः सूक्तं ८.४८
← सूक्तं ८.४७ | ऋग्वेदः - मण्डल ८ सूक्तं ८.४८ प्रगाथो घौरः काण्वः। |
सूक्तं ८.४९ → |
दे. सोमः। त्रिष्टुप्, ५ जगती |
स्वादोरभक्षि वयसः सुमेधाः स्वाध्यो वरिवोवित्तरस्य ।
विश्वे यं देवा उत मर्त्यासो मधु ब्रुवन्तो अभि संचरन्ति ॥१॥
अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य ।
इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥२॥
अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् ।
किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥३॥
शं नो भव हृद आ पीत इन्दो पितेव सोम सूनवे सुशेवः ।
सखेव सख्य उरुशंस धीरः प्र ण आयुर्जीवसे सोम तारीः ॥४॥
इमे मा पीता यशस उरुष्यवो रथं न गावः समनाह पर्वसु ।
ते मा रक्षन्तु विस्रसश्चरित्रादुत मा स्रामाद्यवयन्त्विन्दवः ॥५॥
अग्निं न मा मथितं सं दिदीपः प्र चक्षय कृणुहि वस्यसो नः ।
अथा हि ते मद आ सोम मन्ये रेवाँ इव प्र चरा पुष्टिमच्छ ॥६॥
इषिरेण ते मनसा सुतस्य भक्षीमहि पित्र्यस्येव रायः ।
सोम राजन्प्र ण आयूंषि तारीरहानीव सूर्यो वासराणि ॥७॥
सोम राजन्मृळया नः स्वस्ति तव स्मसि व्रत्यास्तस्य विद्धि ।
अलर्ति दक्ष उत मन्युरिन्दो मा नो अर्यो अनुकामं परा दाः ॥८॥
त्वं हि नस्तन्वः सोम गोपा गात्रेगात्रे निषसत्था नृचक्षाः ।
यत्ते वयं प्रमिनाम व्रतानि स नो मृळ सुषखा देव वस्यः ॥९॥
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः ।
अयं यः सोमो न्यधाय्यस्मे तस्मा इन्द्रं प्रतिरमेम्यायुः ॥१०॥
अप त्या अस्थुरनिरा अमीवा निरत्रसन्तमिषीचीरभैषुः ।
आ सोमो अस्माँ अरुहद्विहाया अगन्म यत्र प्रतिरन्त आयुः ॥११॥
यो न इन्दुः पितरो हृत्सु पीतोऽमर्त्यो मर्त्याँ आविवेश ।
तस्मै सोमाय हविषा विधेम मृळीके अस्य सुमतौ स्याम ॥१२॥
त्वं सोम पितृभिः संविदानोऽनु द्यावापृथिवी आ ततन्थ ।
तस्मै त इन्दो हविषा विधेम वयं स्याम पतयो रयीणाम् ॥१३॥
त्रातारो देवा अधि वोचता नो मा नो निद्रा ईशत मोत जल्पिः ।
वयं सोमस्य विश्वह प्रियासः सुवीरासो विदथमा वदेम ॥१४॥
त्वं नः सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षाः ।
त्वं न इन्द ऊतिभिः सजोषाः पाहि पश्चातादुत वा पुरस्तात् ॥१५॥
सायणभाष्यम्
‘ स्वादोरभक्षि' इति पञ्चदशर्चं षष्ठं सूक्तं काण्वस्य प्रगाथस्यार्षें सोमदेवताकं त्रैष्टुभम् । पञ्चमी जगती । सोमो देवता । तथा चानुकान्तं- स्वादोः पञ्चोना प्रगाथः सौम्यं त्रैष्टुभं पञ्चमी जगती' इति । सूक्तविनियोगो लैङ्गिकः ॥
स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो॑ वरिवो॒वित्त॑रस्य ।
विश्वे॒ यं दे॒वा उ॒त मर्त्या॑सो॒ मधु॑ ब्रु॒वन्तो॑ अ॒भि सं॒चर॑न्ति ॥१
स्वा॒दोः । अ॒भ॒क्षि॒ । वय॑सः । सु॒ऽमे॒धाः । सु॒ऽआ॒ध्यः॑ । व॒रि॒वो॒वित्ऽत॑रस्य ।
विश्वे॑ । यम् । दे॒वाः । उ॒त । मर्त्या॑सः । मधु॑ । ब्रु॒वन्तः॑ । अ॒भि । स॒म्ऽचर॑न्ति ॥१
स्वादोः । अभक्षि । वयसः । सुऽमेधाः । सुऽआध्यः । वरिवोवित्ऽतरस्य ।
विश्वे । यम् । देवाः । उत । मर्त्यासः । मधु । ब्रुवन्तः । अभि । सम्ऽचरन्ति ॥१
अहं प्रगाथः "सुमेधाः शोभनप्रज्ञः "स्वाध्यः स्वाध्ययनः सुकर्मा वरिवोवित्तरस्य अतिशयेन पूजां लभमानस्य "स्वादोः सुष्ठ्वदनीयस्य स्वादुभूतस्य "वयसः अन्नस्य । एताः कर्मणि षष्ठ्यः । उक्तलक्षणं वयोऽन्नं सोमाख्यम् "अभक्षि भक्षयेयः। "यं यदन्नं "विश्वे "देवाः सर्वेऽपीन्द्रादयः "उत अपि च "मर्त्यासः मर्त्या मनुष्याः "मधु “ब्रुवन्तः मनोहरमेतदिति शब्दायन्तः “अभि “संचरन्ति अभिसंगच्छन्ते प्राप्नुवन्ति तदन्नमभक्षीति ।।
अग्नीषोमप्रणयने ' अन्तश्च ' इत्येषा । तथा च सूत्रितम् - ' अन्तश्च प्रागा अदितिर्भवासि श्येनो न योनिं सदनं धिया कृतम् ' ( आश्व. श्रौ. ४. १०) इति ॥
अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य ।
इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी॑व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ॥२
अ॒न्तरिति॑ । च॒ । प्र । अगाः॑ । अदि॑तिः । भ॒वा॒सि॒ । अ॒व॒ऽया॒ता । हर॑सः । दैव्य॑स्य ।
इन्दो॒ इति॑ । इन्द्र॑स्य । स॒ख्यम् । जु॒षा॒णः । श्रौष्टी॑ऽइव । धुर॑म् । अनु॑ । रा॒ये । ऋ॒ध्याः॒ ॥२
अन्तरिति । च । प्र । अगाः । अदितिः । भवासि । अवऽयाता । हरसः । दैव्यस्य ।
इन्दो इति । इन्द्रस्य । सख्यम् । जुषाणः । श्रौष्टीऽइव । धुरम् । अनु । राये । ऋध्याः ॥२
हे सोम त्वम् "अन्तश्च "प्रागाः । हृदयस्य यागागारस्य वान्तर्गच्छसि । गत्वा च "अदितिः अदीनस्त्वं "दैव्यस्य “हरसः क्रोधस्य “अवयाता पृथक्कर्ता “भवासि भवसि । हर इति क्रोधनाम । हे "इन्दो सोम त्वम् "इन्द्रस्य "सख्यं जुषाणः सेवमानः “श्रौष्टी । श्रुष्टीति क्षिप्रनाम । तत्संबन्धी श्रौष्टी । क्षिप्रगाम्यश्वः “धुरम् "इव "राये अस्माकं धनलाभाय “अनु “ऋध्याः अनुगच्छसि । अथवाश्वो यथा धुरं वृत्त्वाभिमतदेशं प्रापयति तद्वदस्मान् प्रापय। अनुपूर्वं ऋधिर्गत्यर्थः।।
'अपाम सोमम्' इत्यादिके द्वे सोमपानोत्तरकालीनस्याभिमर्शने हृदयाभिमर्शने च क्रमेण विनियुक्ते । तथा च सूत्रितम् - ‘ अपाम सोमममृता अभूम शं नो भव हृद आ पीत इन्दविति मुखहृदये अभिमृशेरन् ' (आश्व. श्रौ ५, ६) इति ॥
अपा॑म॒ सोम॑म॒मृता॑ अभू॒माग॑न्म॒ ज्योति॒रवि॑दाम दे॒वान् ।
किं नू॒नम॒स्मान्कृ॑णव॒दरा॑ति॒ः किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ॥३
अपा॑म । सोम॑म् । अ॒मृताः॑ । अ॒भू॒म॒ । अग॑न्म । ज्योतिः॑ । अवि॑दाम । दे॒वान् ।
किम् । नू॒नम् । अ॒स्मान् । कृ॒ण॒व॒त् । अरा॑तिः । किम् । ऊं॒ इति॑ । धू॒र्तिः । अ॒मृ॒त॒ । मर्त्य॑स्य ॥३
अपाम । सोमम् । अमृताः । अभूम । अगन्म । ज्योतिः । अविदाम । देवान् ।
किम् । नूनम् । अस्मान् । कृणवत् । अरातिः । किम् । ऊं इति । धूर्तिः । अमृत । मर्त्यस्य ॥३
हे अमृत अमरण सोम त्वाम् "अपाम पानं करवाम। कुर्मः। ततः "अमृताः "अभूम भवेम । यस्मात्त्वममृतः अतस्तव पानाद्वयमप्यमृताः स्याम । पश्चात् "ज्योतिः द्योतमानं स्वर्गम् “अगन्म। "अविदाम ज्ञातवन्तः "देवान् । तथाभूतान् "अस्मान् "नूनम् इदानीम् "अरातिः शत्रुः "किं "कृणवत् कुर्यात् । "किमु किं वा “मर्त्यस्य इदानीं मनुष्यभूतस्य मम “धूर्तिः हिंसकः किं कृणवत् कुर्यात् ॥
शं नो॑ भव हृ॒द आ पी॒त इ॑न्दो पि॒तेव॑ सोम सू॒नवे॑ सु॒शेवः॑ ।
सखे॑व॒ सख्य॑ उरुशंस॒ धीर॒ः प्र ण॒ आयु॑र्जी॒वसे॑ सोम तारीः ॥४
शम् । नः॒ । भ॒व॒ । हृ॒दे । आ । पी॒तः । इ॒न्दो॒ इति॑ । पि॒ताऽइ॑व । सो॒म॒ । सू॒नवे॑ । सु॒ऽशेवः॑ ।
सखा॑ऽइव । सख्ये॑ । उ॒रु॒ऽशं॒स॒ । धीरः॑ । प्र । नः॒ । आयुः॑ । जी॒वसे॑ । सो॒म॒ । ता॒रीः॒ ॥४
शम् । नः । भव । हृदे । आ । पीतः । इन्दो इति । पिताऽइव । सोम । सूनवे । सुऽशेवः ।
सखाऽइव । सख्ये । उरुऽशंस । धीरः । प्र । नः । आयुः । जीवसे । सोम । तारीः ॥४
हे “इन्दो "सोम अस्माभिः “पीतः त्वं "नः अस्माकं हृदे हृदयाय “शं सुखम् "आ “भव। सुखभवने दृष्टान्तद्वयम् । “पिता “सूनवे स्वात्मजाय यथा सुखाय भवति यथा वा "सखा अहितान्निवर्त्य हिते स्थापयिता सखा स स्वसख्ये यथा "सुशेवः सुसुखो भवति । शेवमिति सुखनाम । तद्वत्वमपि भव । किंच हे उरुशंस बहुभिर्बहुधा वा शंसनीय बहुकीर्ते “सोम “धीरः। धीमांस्त्वं "नः अस्माकं "जीवसे जीवनाय "आयुः आयुष्यं “प्र “तारीः प्रवर्धय ॥
इ॒मे मा॑ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गाव॒ः सम॑नाह॒ पर्व॑सु ।
ते मा॑ रक्षन्तु वि॒स्रस॑श्च॒रित्रा॑दु॒त मा॒ स्रामा॑द्यवय॒न्त्विन्द॑वः ॥५
इ॒मे । मा॒ । पी॒ताः । य॒शसः॑ । उ॒रु॒ष्यवः॑ । रथ॑म् । न । गावः॑ । सम् । अ॒ना॒ह॒ । पर्व॑ऽसु ।
ते । मा॒ । र॒क्ष॒न्तु॒ । वि॒ऽस्रसः॑ । च॒रित्रा॑त् । उ॒त । मा॒ । स्रामा॑त् । य॒व॒य॒न्तु॒ । इन्द॑वः ॥५
इमे । मा । पीताः । यशसः । उरुष्यवः । रथम् । न । गावः । सम् । अनाह । पर्वऽसु ।
ते । मा । रक्षन्तु । विऽस्रसः । चरित्रात् । उत । मा । स्रामात् । यवयन्तु । इन्दवः ॥५
“इमे “पीताः "यशसः यशस्कराः "उरुष्यवः अस्माकं रक्षाकामाः सोमाः “गावः गोविकारभूता वध्र्यः "रथं "न रथमिव ता यथा रथं विस्रस्तं “पर्वसु “समनाह संदधते तद्वत् मां पीताः सोमाः पर्वसु संनह्यन्तु । किंच "ते सोमाः “मा मां “विस्रसः विस्रस्तात् "चरित्रात् चरणादनुष्ठानात् "रक्षन्तु । सोमः पीतश्चेत् कर्म ह्यविस्रस्तं भवति । “उत अपि च “मा मां “स्रामात् व्याधेः सकाशात् "इन्दवः पीताः "यवयन्तु पृथक्कुर्वन्तु ॥ ॥ ११ ॥
अ॒ग्निं न मा॑ मथि॒तं सं दि॑दीप॒ः प्र च॑क्षय कृणु॒हि वस्य॑सो नः ।
अथा॒ हि ते॒ मद॒ आ सो॑म॒ मन्ये॑ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ॥६
अ॒ग्निम् । न । मा॒ । म॒थि॒तम् । सम् । दि॒दी॒पः॒ । प्र । च॒क्ष॒य॒ । कृ॒णु॒हि । वस्य॑सः । नः॒ ।
अथ॑ । हि । ते॒ । मदे॑ । आ । सो॒म॒ । मन्ये॑ । रे॒वान्ऽइ॑व । प्र । च॒र॒ । पु॒ष्टिम् । अच्छ॑ ॥६
अग्निम् । न । मा । मथितम् । सम् । दिदीपः । प्र । चक्षय । कृणुहि । वस्यसः । नः ।
अथ । हि । ते । मदे । आ । सोम । मन्ये । रेवान्ऽइव । प्र । चर । पुष्टिम् । अच्छ ॥६
हे सोम पीतस्त्वं “मा मां "मथितम् "अग्निं "न अग्निमिव "सं “दिदीपः संदीपय । “प्र “चक्षय च चक्षुषः संधुक्षणेन । “नः अस्मान् “वस्यसः अतिशयेन वसुमतः "कृणुहि कुरु । “अथ अधुना “हि खलु “ते त्वां हे “सोम “मदे मदाय “मन्ये स्तौमि । तथा सति “रेवानिव धनवानिह । इवेति संप्रत्यर्थे। “पुष्टिम् अस्मत्पोषम् "अच्छ “प्र “चर अभिगच्छ ॥
इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः ।
सोम॑ राज॒न्प्र ण॒ आयूं॑षि तारी॒रहा॑नीव॒ सूर्यो॑ वास॒राणि॑ ॥७
इ॒षि॒रेण॑ । ते॒ । मन॑सा । सु॒तस्य॑ । भ॒क्षी॒महि॑ । पित्र्य॑स्यऽइव । रा॒यः ।
सोम॑ । रा॒ज॒न् । प्र । नः॒ । आयूं॑षि । ता॒रीः॒ । अहा॑निऽइव । सूर्यः॑ । वा॒स॒राणि॑ ॥७
इषिरेण । ते । मनसा । सुतस्य । भक्षीमहि । पित्र्यस्यऽइव । रायः ।
सोम । राजन् । प्र । नः । आयूंषि । तारीः । अहानिऽइव । सूर्यः । वासराणि ॥७
“इषिरेण इच्छावता "मनसा "सुतस्य “ते सुतमभिषुतं त्वां “भक्षीमहि । "पित्र्यस्य पितृसंबन्धिनो धनस्येव धनमिव । पित्र्यं धनं यथैषणेन मनसोपभुञ्जते तद्वत् । भक्षित हे "सोम “राजन स्वामिन् "नः अस्माकम् “आयूंषि “प्र “तारीः प्रवर्धय । “वासराणि जगद्वासकानि "अहानि "सूर्यः इव । अत्र ‘ईषणेन वैषणेन वार्षणेन वा ’ (निरु. ४, ७) इत्यादि निरुक्तं ज्ञातव्यम् ॥
सोम॑ राजन्मृ॒ळया॑ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॒॑स्तस्य॑ विद्धि ।
अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि॑न्दो॒ मा नो॑ अ॒र्यो अ॑नुका॒मं परा॑ दाः ॥८
सोम॑ । रा॒ज॒न् । मृ॒ळय॑ । नः॒ । स्व॒स्ति । तव॑ । स्म॒सि॒ । व्र॒त्याः॑ । तस्य॑ । वि॒द्धि॒ ।
अल॑र्ति । दक्षः॑ । उ॒त । म॒न्युः । इ॒न्दो॒ इति॑ । मा । नः॒ । अ॒र्यः । अ॒नु॒ऽका॒मम् । परा॑ । दाः॒ ॥८
सोम । राजन् । मृळय । नः । स्वस्ति । तव । स्मसि । व्रत्याः । तस्य । विद्धि ।
अलर्ति । दक्षः । उत । मन्युः । इन्दो इति । मा । नः । अर्यः । अनुऽकामम् । परा । दाः ॥८
हे "सोम "राजन् "नः अस्मान् "स्वस्ति अविनाशाय "मृळय सुखय च । “व्रत्याः व्रतिनो वयं "तव "स्मसि स्वभूताः स्मः । "तस्य तं स्वकीयं तव "विद्धि जानीहि । अथवा तव त्वमित्यर्थः । त्वं जानीहि । किंच हे "इन्दो "दक्षः प्रवृद्धोऽस्मच्छत्रुः “अलर्ति गच्छति । "उत अपि च "मन्युः क्रोधः क्रुद्धो वा अलर्ति । तादृशस्योभयविधस्य "अर्यः अरेः "अनुकामं थथाकामं “नः अस्मान् “मा "परा "दाः परादेहि ॥
त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे॑गात्रे निष॒सत्था॑ नृ॒चक्षाः॑ ।
यत्ते॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॒ स नो॑ मृळ सुष॒खा दे॑व॒ वस्यः॑ ॥९
त्वम् । हि । नः॒ । त॒न्वः॑ । सो॒म॒ । गो॒पाः । गात्रे॑ऽगात्रे । नि॒ऽस॒सत्थ॑ । नृ॒ऽचक्षाः॑ ।
यत् । ते॒ । व॒यम् । प्र॒ऽमि॒नाम॑ । व्र॒तानि॑ । सः । नः॒ । मृ॒ळ॒ । सु॒ऽस॒खा । दे॒व॒ । वस्यः॑ ॥९
त्वम् । हि । नः । तन्वः । सोम । गोपाः । गात्रेऽगात्रे । निऽससत्थ । नृऽचक्षाः ।
यत् । ते । वयम् । प्रऽमिनाम । व्रतानि । सः । नः । मृळ । सुऽसखा । देव । वस्यः ॥९
हे "सोम देव “त्वं "नः अस्माकं "तन्वः तनोरङ्गस्य "गोपाः “हि रक्षिता खलु । अतः “गात्रेगात्रे सर्वेष्वङ्गेषु "नृचक्षाः नृणां कर्मनेतॄणां द्रष्टा त्वं “निषसत्थ निषीदसि । "यत् यद्यपि “ते तव “व्रतानि कमणि “वयं “प्रमिनाम हिंस्मः तथापि हे "देव "सः त्वं वस्यः श्रेष्ठान “नः अस्मान् "सुषखा शोभनसखा सन् "मृळ सुखय ॥
ऋ॒दू॒दरे॑ण॒ सख्या॑ सचेय॒ यो मा॒ न रिष्ये॑द्धर्यश्व पी॒तः ।
अ॒यं यः सोमो॒ न्यधा॑य्य॒स्मे तस्मा॒ इन्द्रं॑ प्र॒तिर॑मे॒म्यायुः॑ ॥१०
ऋ॒दू॒दरे॑ण । सख्या॑ । स॒चे॒य॒ । यः । मा॒ । न । रिष्ये॑त् । ह॒रि॒ऽअ॒श्व॒ । पी॒तः ।
अ॒यम् । यः । सोमः॑ । नि । अधा॑यि । अ॒स्मे इति॑ । तस्मै॑ । इन्द्र॑म् । प्र॒ऽतिर॑म् । ए॒मि॒ । आयुः॑ ॥१०
ऋदूदरेण । सख्या । सचेय । यः । मा । न । रिष्येत् । हरिऽअश्व । पीतः ।
अयम् । यः । सोमः । नि । अधायि । अस्मे इति । तस्मै । इन्द्रम् । प्रऽतिरम् । एमि । आयुः ॥१०
अहं प्रगाथः “ऋदूदरेण उदराबाधकेन सोमेन "सख्या "सचेय संगच्छेय । संगतो भवामि । ‘ ऋदूदरः सोमो मृदूदरः' (निरु. ६. ४) इति यास्कः । "यः सोमः "पीतः सन् “मा मां "न “रिष्येत् न हिंस्येत् हे “हर्यश्व इन्द्र । सौम्ये सूक्त इन्द्रस्य कीर्तनं सोमस्येन्द्रस्वामिकत्वान्न विरुद्धम् । “यः "अयं "सोमः "अस्मे अस्मासु "न्यधायि निहितोऽभूत् "तस्मै सोमाय “प्रतिरम् “आयुः जठरे चिरकालावस्थानम् "इन्द्रम् “एमि याचे ॥ ॥ १२ ॥
अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी॑वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै॑षुः ।
आ सोमो॑ अ॒स्माँ अ॑रुह॒द्विहा॑या॒ अग॑न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ॥११
अप॑ । त्याः । अ॒स्थुः॒ । अनि॑राः । अमी॑वाः । निः । अ॒त्र॒स॒न् । तमि॑षीचीः । अभै॑षुः ।
आ । सोमः॑ । अ॒स्मान् । अ॒रु॒ह॒त् । विऽहा॑याः । अग॑न्म । यत्र॑ । प्र॒ऽति॒रन्ते॑ । आयुः॑ ॥११
अप । त्याः । अस्थुः । अनिराः । अमीवाः । निः । अत्रसन् । तमिषीचीः । अभैषुः ।
आ । सोमः । अस्मान् । अरुहत् । विऽहायाः । अगन्म । यत्र । प्रऽतिरन्ते । आयुः ॥११
“त्याः ताः "अनिराः प्रेरयितुमशक्याः "अमीवाः बलवत्यः पीडाः “अप "अस्थुः अपगच्छन्तु । याः “तमिषीचीः बलवत्योऽस्मान् "निः नितराम् "अत्रसन प्राप्नुवन् कम्पयन्ति तथा “अभैषुः । अपगमे कारणमाह । यस्मात् "सोमः "विहायाः महान् सन् “अस्मान् “आ “अरुहत् आगमत् प्राप्तवान् अतोऽपास्थुरिति भावः । "यत्र यस्मिन् सोमे पीते “आयुः आयुष्यं “प्रतिरन्ते वर्धयन्ति मनुष्यास्तं सोमम् "अगन्म इति ॥
यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ॑ आवि॒वेश॑ ।
तस्मै॒ सोमा॑य ह॒विषा॑ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या॑म ॥१२
यः । नः॒ । इन्दुः॑ । पि॒त॒रः॒ । हृ॒त्ऽसु । पी॒तः । अम॑र्त्यः । मर्त्या॑न् । आ॒ऽवि॒वेश॑ ।
तस्मै॑ । सोमा॑य । ह॒विषा॑ । वि॒धे॒म॒ । मृ॒ळी॒के । अ॒स्य॒ । सु॒ऽम॒तौ । स्या॒म॒ ॥१२
यः । नः । इन्दुः । पितरः । हृत्ऽसु । पीतः । अमर्त्यः । मर्त्यान् । आऽविवेश ।
तस्मै । सोमाय । हविषा । विधेम । मृळीके । अस्य । सुऽमतौ । स्याम ॥१२
हे "पितरः “यः इन्दुः "हृत्सु "पीतः सन् "अमर्त्यः मृतिरहितः सन् “आविवेश "मर्त्यान् “नः अस्मान् "तस्मै "सोमाय "हविषा "विधेम परिचरेम । "अस्य सोमस्य "मृळीके सुखे "सुमतौ चानुग्रहबुद्धौ च "स्याम भवेम ॥
महापितृयज्ञे ‘सोमाय पितृमते पुरोडाशम् ' इत्यत्र ‘ त्वं सोम' इति याज्या । सूत्रितं च -- ‘ त्वं सोम पितृभिः संविदानो बर्हिषदः पितर ऊत्यर्वाक् ' ( आश्व. श्रौ. २. १९) इति । तृतीयसवने सौम्यस्य चरोपीयं याज्या ।' त्वं सोम पितृभिः संविदान इति सौम्यस्य ' (आश्व. श्रौ. ५, १९ ) इति हि सूत्रितम् ।।
त्वं सो॑म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा॑पृथि॒वी आ त॑तन्थ ।
तस्मै॑ त इन्दो ह॒विषा॑ विधेम व॒यं स्या॑म॒ पत॑यो रयी॒णाम् ॥१३
त्वम् । सो॒म॒ । पि॒तृऽभिः॑ । स॒म्ऽवि॒दा॒नः । अनु॑ । द्यावा॑पृथि॒वी इति॑ । आ । त॒त॒न्थ॒ ।
तस्मै॑ । ते॒ । इ॒न्दो॒ इति॑ । ह॒विषा॑ । वि॒धे॒म॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥१३
त्वम् । सोम । पितृऽभिः । सम्ऽविदानः । अनु । द्यावापृथिवी इति । आ । ततन्थ ।
तस्मै । ते । इन्दो इति । हविषा । विधेम । वयम् । स्याम । पतयः । रयीणाम् ॥१३
हे "सोम "त्वं "पितृभिः सह "संविदानः संगच्छमानः "द्यावापृथिवी द्यावापृथिव्यौ "अनु “आ “ततन्थ क्रमेण विस्तारयसि । "तस्मै सोमाय “हविषा “विधेम परिचरेम । "वयं "रयीणां धनानां "पतयः "स्याम भवेम ॥
त्राता॑रो देवा॒ अधि॑ वोचता नो॒ मा नो॑ नि॒द्रा ई॑शत॒ मोत जल्पिः॑ ।
व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥१४
त्राता॑रः । दे॒वाः॒ । अधि॑ । वो॒च॒त॒ । नः॒ । मा । नः॒ । नि॒ऽद्रा । ई॒श॒त॒ । मा । उ॒त । जल्पिः॑ ।
व॒यम् । सोम॑स्य । वि॒श्वह॑ । प्रि॒यासः॑ । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥१४
त्रातारः । देवाः । अधि । वोचत । नः । मा । नः । निऽद्रा । ईशत । मा । उत । जल्पिः ।
वयम् । सोमस्य । विश्वह । प्रियासः । सुऽवीरासः । विदथम् । आ । वदेम ॥१४
हे “त्रातारः रक्षितारो हे "देवाः "नः अस्मान् "अधि "वोचत अधिवचनं कुरुत । किंच “नः अस्मान् "निद्राः स्वप्नाः “मा “ईशत ईश्वरा मा भूवन् बाधितुम् । “उत अपि च “जल्पिः निन्दकः अस्मान् मा निन्दतु । "वयं "सोमस्य “प्रियासः प्रियाः स्याम “विश्वह सर्वेष्वप्यहःसु । सर्वदेत्यर्थः । “सुवीरासः शोभनपुत्राः सन्तः “विदथं स्तोत्रम् “आ “वदेम आभिमुख्येन वदेम । अथवा सुपुत्रा विदथं गृहमा वदेम । आवदनं पुत्रपौत्राणां धनेनोपच्छन्दनम् ॥
‘ त्वं नः सोम विश्वतः' इति सौम्ये पशौ हविषोऽनुवाक्या । सूत्रितं च -- ‘ त्वं नः सोम विश्वतो वयोधा था ते धामानि दिवि या पृथिव्याम् ' (आश्व. श्रौ. ३. ७) इति ॥
त्वं नः॑ सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः॑ ।
त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः॑ पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥१५
त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ ।
त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥१५
त्वम् । नः । सोम । विश्वतः । वयःऽधाः । त्वम् । स्वःऽवित् । आ । विश । नृऽचक्षाः ।
त्वम् । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥१५
हे “सोम “त्वं "नः अस्माकं "विश्वतः सर्वाभ्यो दिग्भ्यः "वयोधाः अन्नदाता । तथा “त्वं “स्वर्वित् स्वर्गलम्भकः "नृचक्षाः सर्वमनुष्यद्रष्टा त्वम् "आ “विश । हे “इन्दो “त्वं "सजोषाः सह प्रीयमाणः सन् “ऊतिभिः सह । अथवीतयो गन्तारो मरुतः । तैः सहितः सन् “पश्चात्तात् पश्चात् “उत वा “पुरस्तात् च पाहि ॥ ॥ १३ ॥ ॥ ६ ॥
टिप्पणी
मण्डल ८ | ||||||
---|---|---|---|---|---|---|