ऋग्वेदः सूक्तं ८.४७

विकिस्रोतः तः
(ऋग्वेद: सूक्तं ८.४७ इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
← सूक्तं ८.४६ ऋग्वेदः - मण्डल ८
सूक्तं ८.४७
त्रित आप्त्यः
सूक्तं ८.४८ →
दे. आदित्याः, १४-१८ आदित्योषसः(दुःस्वप्नघ्नं) । महापङ्क्तिः

महि वो महतामवो वरुण मित्र दाशुषे ।
यमादित्या अभि द्रुहो रक्षथा नेमघं नशदनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१॥
विदा देवा अघानामादित्यासो अपाकृतिम् ।
पक्षा वयो यथोपरि व्यस्मे शर्म यच्छतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥२॥
व्यस्मे अधि शर्म तत्पक्षा वयो न यन्तन ।
विश्वानि विश्ववेदसो वरूथ्या मनामहेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥३॥
यस्मा अरासत क्षयं जीवातुं च प्रचेतसः ।
मनोर्विश्वस्य घेदिम आदित्या राय ईशतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥४॥
परि णो वृणजन्नघा दुर्गाणि रथ्यो यथा ।
स्यामेदिन्द्रस्य शर्मण्यादित्यानामुतावस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥५॥
परिह्वृतेदना जनो युष्मादत्तस्य वायति ।
देवा अदभ्रमाश वो यमादित्या अहेतनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥६॥
न तं तिग्मं चन त्यजो न द्रासदभि तं गुरु ।
यस्मा उ शर्म सप्रथ आदित्यासो अराध्वमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥७॥
युष्मे देवा अपि ष्मसि युध्यन्त इव वर्मसु ।
यूयं महो न एनसो यूयमर्भादुरुष्यतानेहसो व ऊतयः सुऊतयो व ऊतयः ॥८॥
अदितिर्न उरुष्यत्वदितिः शर्म यच्छतु ।
माता मित्रस्य रेवतोऽर्यम्णो वरुणस्य चानेहसो व ऊतयः सुऊतयो व ऊतयः ॥९॥
यद्देवाः शर्म शरणं यद्भद्रं यदनातुरम् ।
त्रिधातु यद्वरूथ्यं तदस्मासु वि यन्तनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१०॥
आदित्या अव हि ख्यताधि कूलादिव स्पशः ।
सुतीर्थमर्वतो यथानु नो नेषथा सुगमनेहसो व ऊतयः सुऊतयो व ऊतयः ॥११॥
नेह भद्रं रक्षस्विने नावयै नोपया उत ।
गवे च भद्रं धेनवे वीराय च श्रवस्यतेऽनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१२॥
यदाविर्यदपीच्यं देवासो अस्ति दुष्कृतम् ।
त्रिते तद्विश्वमाप्त्य आरे अस्मद्दधातनानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१३॥
यच्च गोषु दुष्वप्न्यं यच्चास्मे दुहितर्दिवः ।
त्रिताय तद्विभावर्याप्त्याय परा वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१४॥
निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः ।
त्रिते दुष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१५॥
तदन्नाय तदपसे तं भागमुपसेदुषे ।
त्रिताय च द्विताय चोषो दुष्वप्न्यं वहानेहसो व ऊतयः सुऊतयो व ऊतयः ॥१६॥
यथा कलां यथा शफं यथ ऋणं संनयामसि ।*
एवा दुष्वप्न्यं सर्वमाप्त्ये सं नयामस्यनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१७॥
अजैष्माद्यासनाम चाभूमानागसो वयम् ।
उषो यस्माद्दुष्वप्न्यादभैष्माप तदुच्छत्वनेहसो व ऊतयः सुऊतयो व ऊतयः ॥१८॥

सायणभाष्यम्

‘ महि वः' इत्यष्टादशर्चं पञ्चमं सूक्तमाप्त्यस्य त्रितस्यार्षम् । षडष्टका महापङ्क्तिश्छन्दः । आद्यास्त्रयोदशर्चं आदित्यदेवताकाः । यच्च गोषु' इत्याद्याः पञ्चर्चं उषोदेवताका आदित्यदेवताकाश्च । तथा चानुक्रमणिका-’ महि वो यूना त्रित आप्त्य आदित्येभ्योऽन्त्याः पञ्चोषसेऽपि महापाङ्क्तम्' इति । सूक्तविनियोगो लैङ्गिकः ॥


महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे॑ ।

यमा॑दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१

महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । दा॒शुषे॑ ।

यम् । आ॒दि॒त्याः॒ । अ॒भि । द्रु॒हः । रक्ष॑थ । न । ई॒म् । अ॒घम् । न॒श॒त् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१

महि । वः । महतान् । अवः । वरुण । मित्र । दाशुषे ।

यम् । आदित्याः । अभि। द्रुहः । रक्षथ । न । ईम् । अघम् । नशत्। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १ ॥

हे "वरुण हे "मित्र । एतद्द्वयमर्यम्णोऽप्युपलक्षणम् । ६ वरुणादयः "महतां वः युप्माकम् “अवः रक्षणं “महि महत् । कस्मै । "दाशुषे हविर्दात्रे यजमानाय क्रियमाणम् । किंच हे आदित्याः “यं यजमानं "द्रुहः द्रोग्धुः सकाशात् "अभि "रक्षथ "ईम् एनं यजमानम् "अव "पापं न "नशत् न प्राप्नोति । कुत एवमिति तत्रोच्यते । “वः युष्माकम् ऊतयः रक्षणानि "अनेहसः अपापान्यनुपद्रवाणि च । “ऊतयः युष्माकं रक्षणानि सुऊतयः शोभनरक्षणानि । पुनरुक्तिरादरार्था ।


वि॒दा दे॑वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् ।

प॒क्षा वयो॒ यथो॒परि॒ व्य१॒॑स्मे शर्म॑ यच्छताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥२

वि॒द । दे॒वाः॒ । अ॒घाना॑म् । आदि॑त्यासः । अ॒प॒ऽआकृ॑तिम् ।

प॒क्षा । वयः॑ । यथा॑ । उ॒परि॑ । वि । अ॒स्मे इति॑ । शर्म॑ । य॒च्छ॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥२

विद। देवाः । अघानाम् । आदित्यासः । अपऽआकृतिम् ।

पक्षा । वयः । यथा । उपरि । वि । अस्मे इति । शर्म । यच्छत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ।।२।।

हे “देवाः "आदित्यासः आदित्याः यूयम् "अघानां दुःखानाम् "अपाकृतिम् अपाकरणं परिहारप्रकारं "विद जानीथ। यस्मादेवं तस्मात् "वयः पक्षिणः "यथा पक्षा पक्षौ उपरि स्वशिशुकानामुपरि कुर्वन्ति सुखाय तद्वत् "अस्मे अधि अस्मासु "शर्म सुखं यच्छत कुरुत । अधीति सप्तम्यर्थानुवादी । अस्मे अस्माकमुपरीति वा ॥


व्य१॒॑स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य॑न्तन ।

विश्वा॑नि विश्ववेदसो वरू॒थ्या॑ मनामहेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥३

वि । अ॒स्मे इति॑ । अधि॑ । शर्म॑ । तत् । प॒क्षा । वयः॑ । न । य॒न्त॒न॒ ।

विश्वा॑नि । वि॒श्व॒ऽवे॒द॒सः॒ । व॒रू॒थ्या॑ । म॒ना॒म॒हे॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥३

वि । अस्मे इति । अधि। शर्म । तत् । पक्षा । वयः । न । यन्तन ।

विश्वानि । विश्वऽवेदसः । वरूथ्या । मनामहे ।। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ३ ॥

हे आदित्याः यूयम् "अस्मे "अधि अस्मासु "तत् । युष्मास्वेवासाधारणं यत् "शर्म अस्ति तदित्यर्थः । तत् "वि "यन्तन विशेषेण प्रापयत । हे “विश्ववेदसः सर्वधनाः युष्मान् "विश्वानि सर्वाणि "वरूथ्या । वरूथं गृहम् । तदुचितानि धनानि "मनामहे याचामहे ॥


यस्मा॒ अरा॑सत॒ क्षयं॑ जी॒वातुं॑ च॒ प्रचे॑तसः ।

मनो॒र्विश्व॑स्य॒ घेदि॒म आ॑दि॒त्या रा॒य ई॑शतेऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥४

यस्मै॑ । अरा॑सत । क्षय॑म् । जी॒वातु॑म् । च॒ । प्रऽचे॑तसः ।

मनोः॑ । विश्व॑स्य । घ॒ । इत् । इ॒मे । आ॒दि॒त्याः । रा॒यः । ई॒श॒ते॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥४

यस्मै । अरासत । क्षयम् । जीवातुम् । च। प्रऽचेतसः ।

मनोः । विश्वस्य । घ । इत् । इमे । आदित्याः । रायः । ईशते । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ४ ॥

"यस्मै मनुष्याय "क्षयं निवासं जीवातुं जीवनसाधनमन्नं "च "प्रचेतसः प्रकृष्टमतयः "अरासत प्रयच्छन्ति तस्मै यजमानाय तदर्थम् "इमे “आदित्याः "विश्वस्य “घेत् सर्वस्याप्ययष्टुः "मनोः मनुष्यस्य धनिकस्य "रायः धनस्य "ईशते स्वामिनो भवन्त्यपहृत्य यजमानाय प्रदातुम् ॥


परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो॑ यथा ।

स्यामेदिन्द्र॑स्य॒ शर्म॑ण्यादि॒त्याना॑मु॒ताव॑स्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥५

परि॑ । नः॒ । वृ॒ण॒ज॒न् । अ॒घा । दुः॒ऽगानि॑ । र॒थ्यः॑ । य॒था॒ ।

स्याम॑ । इत् । इन्द्र॑स्य । शर्म॑णि । आ॒दि॒त्याना॑म् । उ॒त । अव॑सि । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥५

परि । नः । वृणजन् । अघा। दुःऽगानि । रथ्यः । यथा ।

स्याम् । इत् । इन्द्रस्य । शर्मणि । आदित्यानाम् । उत । अवसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ५ ॥

"परि “वृणजन् परिवर्जयन्तु "नः अस्माकम् "अघा अघानि पापानि । तत्र दृष्टान्तः । “दुर्गाणि दुर्गमनान् प्रदेशानवटधिष्ण्यादिकान् यथा परिवर्जयन्ति तद्वत् । "इन्द्रस्य “शर्मणि "स्याम भवेम वयम् । "उत अपि च आदित्यानाम् "अवसि रक्षणे च स्याम ॥ ॥ ७ ॥


प॒रि॒ह्वृ॒तेद॒ना जनो॑ यु॒ष्माद॑त्तस्य वायति ।

देवा॒ अद॑भ्रमाश वो॒ यमा॑दित्या॒ अहे॑तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥६

प॒रि॒ऽह्वृ॒ता । इत् । अ॒ना । जनः॑ । यु॒ष्माऽद॑त्तस्य । वा॒य॒ति॒ ।

देवाः॑ । अद॑भ्रम् । आ॒श॒ । वः॒ । यम् । आ॒दि॒त्याः॒ । अहे॑तन । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥६

परिऽह्वृता । इत् । अना। जनः । युष्माऽदत्तस्य । वायति ।

देवाः । अदभ्रम् । आश । वः। यम् । आदित्याः । अहेतन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ६ ॥

"परिह्वृतेत् परिपीडितेनैव तपोनियमादिना "अना प्राणयुक्तः "जनः "युष्मादत्तस्य युष्माभिर्दत्तं धनम् । कर्मणि षष्टी । “वायति गच्छति । हे "देवाः हे "आशवः शीघ्रगमनाः यूयं "यं यजमानम् “अहेतन प्राप्नुथः स जनः “अदभ्रम् अनल्पं धनं वायति प्राप्नोतीति संबन्धः ।।


न तं ति॒ग्मं च॒न त्यजो॒ न द्रा॑सद॒भि तं गु॒रु ।

यस्मा॑ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा॑ध्वमने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥७

न । तम् । ति॒ग्मम् । च॒न । त्यजः॑ । न । द्रा॒स॒त् । अ॒भि । तम् । गु॒रु ।

यस्मै॑ । ऊं॒ इति॑ । शर्म॑ । स॒ऽप्रथः॑ । आदि॑त्यासः । अरा॑ध्वम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥७

न । तम् । तिग्मम् । चन। त्यजः । न । द्रासत् । अभि । तम् । गुरु ।

यस्मै । ॐ इति । शर्म । सऽप्रथः । आदित्यासः । अराध्वम् । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥७॥

“तं मनुष्यं "तिग्मं "चन तीक्ष्णमेव सन्तं "त्यजः । क्रोधनामैतत् । अत्र क्रोधात् प्रयुज्यमानमायुधमुच्यते । "न "द्रासत् । 'द्रा कुत्सायां गतौ । कुत्सितं नागच्छति । न हिनस्तीत्यर्थः । तथा “तं जनं "गुरु प्रवृद्धमपरिहारार्हं दुःखं "न द्रासत् न गच्छति । हे आदित्यासः आदित्याः "सप्रथः समानप्रथनाः सर्वतः पृथुभूता वा यूयं "यस्मा "उ यस्मै यजमानाय । उशब्दः पूरणः । "शर्म सुखम् “अराध्वम् अदत्त तं न द्रासदिति ॥


यु॒ष्मे दे॑वा॒ अपि॑ ष्मसि॒ युध्य॑न्त इव॒ वर्म॑सु ।

यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा॑दुरुष्यताने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥८

यु॒ष्मे इति॑ । दे॒वाः॒ । अपि॑ । स्म॒सि॒ । युध्य॑न्तःऽइव । वर्म॑ऽसु ।

यू॒यम् । म॒हः । नः॒ । एन॑सः । यू॒यम् । अर्भा॑त् । उ॒रु॒ष्य॒त॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥८

युष्मे इति । देवाः । अपि । स्मसि । युध्यन्तःऽइव । वर्मऽसु ।

यूयम् । महः । नः । एनसः । यूयम् । अर्भात् । उरुष्यत । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ८ ॥

हे देवाः आदित्याः "युष्मे युष्मासु वयम् अपि "स्मसि अपि भवेम । युष्माभिरपिहिताः स्मेत्यर्थः । तत्र दृष्टान्तः । "युध्यन्तः शूराः “वर्मसु कवचेषु यथा भवन्ति तद्वत् । "यूयं "नः अस्मान् “महः महतः “एनसः पापात् “उरुष्यत रक्षत । तथा "यूयम् अस्मान् "अर्भात् अल्पादप्येनसः उरुष्यत ॥


अदि॑तिर्न उरुष्य॒त्वदि॑ति॒ः शर्म॑ यच्छतु ।

मा॒ता मि॒त्रस्य॑ रे॒वतो॑ऽर्य॒म्णो वरु॑णस्य चाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥९

अदि॑तिः । नः॒ । उ॒रु॒ष्य॒तु॒ । अदि॑तिः । शर्म॑ । य॒च्छ॒तु॒ ।

मा॒ता । मि॒त्रस्य॑ । रे॒वतः॑ । अ॒र्य॒म्णः । वरु॑णस्य । च॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥९

अदितिः । नः । उरुष्यतु । अदितिः । शर्म । यच्छतु ।।

माता । मित्रस्य । रेवतः । अर्यम्णः । वरुणस्य । च ।। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ९ ॥

“नः अस्मान् "अदितिः अखण्डनीया देवमाता "उरुष्यतु रक्षतु । तथा “अदितिः "शर्म सुखं “यच्छतु । अदितिर्विशेष्यते । या "माता निर्मात्री । कस्य । मित्रस्य "रेवतः धनवतः "अर्यम्णः “वरुणस्य च । सा न उरुष्यत्विति ॥


यद्दे॑वा॒ः शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् ।

त्रि॒धातु॒ यद्व॑रू॒थ्यं१॒॑ तद॒स्मासु॒ वि य॑न्तनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१०

यत् । दे॒वाः॒ । शर्म॑ । श॒र॒णम् । यत् । भ॒द्रम् । यत् । अ॒ना॒तु॒रम् ।

त्रि॒ऽधातु॑ । यत् । व॒रू॒थ्य॑म् । तत् । अ॒स्मासु॑ । वि । य॒न्त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१०

यत् । देवाः । शर्म । शरणम् । यत् । भद्रम् । यत् । अनातुरम् ।

त्रिऽधातु । यत् । वरूथ्यम् । तत् । अस्मासु । वि। यन्तन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १० ॥

हे "देवाः आदित्याः "यत् शर्म सुखं "शरणं शरणीयम् । "यत् "भद्रं सर्वैर्भजनीयम् । “यत् "अनातुरं रोगरहितम् । यत् "त्रिधातु त्रिगुणम् । "यद्वरूथ्यम् । वरूथं गृहम् । तदर्हम् । “तत् उक्तगुणकं शर्म "अस्मासु "वि "यन्तन वियच्छत ॥ ॥ ८ ॥


आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला॑दिव॒ स्पशः॑ ।

सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥११

आदि॑त्याः । अव॑ । हि । ख्यत॑ । अधि॑ । कूला॑त्ऽइव । स्पशः॑ ।

सु॒ऽती॒र्थम् । अर्व॑तः । य॒था॒ । अनु॑ । नः॒ । ने॒ष॒थ॒ । सु॒ऽगम् । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥११

आदित्याः । अव । हि । ख्यत । अधि । कूलात्ऽइव । स्पशः ।

सुऽतीर्थम् । अर्वतः । यथा । अनु । नः । नेपथ । सुऽगम् ।। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ ११ ॥

हे "आदित्याः यूयम् "अव "हि “ख्यत अव हि पश्यताधस्तास्थितानस्मान् । तत्र दृष्टान्तः । “कूलात् "अधि कूले "स्पशः स्पष्टाः । स्थिता इत्यर्थः । यथा कूलस्थः पुरुषोऽधोगतमुदकं जिज्ञासुस्तत्रस्थं मनुष्यं वा विलोकयितुमवाक्पश्यति तद्वत् । तथा कृत्वा "सुतीर्थं शोभनावतारप्रदेशम् “अर्वतः अश्वान् “यथा प्रापयन्त्यश्वरक्षकास्तद्वत् "नः अस्मान् "सुगं सुपन्थानम् अनु “नेषथ अनुनयथ ॥


नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त ।

गवे॑ च भ॒द्रं धे॒नवे॑ वी॒राय॑ च श्रवस्य॒ते॑ऽने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१२

न । इ॒ह । भ॒द्रम् । र॒क्ष॒स्विने॑ । न । अ॒व॒ऽयै । न । उ॒प॒ऽयै । उ॒त ।

गवे॑ । च॒ । भ॒द्रम् । धे॒नवे॑ । वी॒राय॑ । च॒ । श्र॒व॒स्य॒ते । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१२

न । इह । भद्रम् । रक्षस्विने । न । अवऽयै । न । उपऽयै । उत।

गवे । च । भद्रम् । धेनवे । वीराय । च । श्रवस्यते ।। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १२ ॥

हे आदित्याः “इह भूमौ "भद्रं कल्याणं सुखं "रक्षस्विने । रक्षो बलम् । बलवतेऽस्मद्द्वेष्ट्रे “न भवत्विति शेषः ।"अवयै अस्मान् हिंसितुमवगच्छते "न भवतु भद्रम् । तथा “उपयै उपगच्छते “न भवतु । तर्हि कस्य भवत्वित्युच्यते । “गवे “च "भद्रं युष्मदीयं भवतु । चशब्दो वक्ष्यमाणधेन्वाद्यपेक्षः। किंच “धेनवे नवप्रसूतिकायै भद्रं भवतु । "वीराय अस्मत्पुत्रादिकाय भद्रं भवतु । कीदृशाय वीराय । "श्रवस्यते अन्नमिच्छते । अथवोत्तरार्धेऽपि नेत्यनुवर्तते । अस्मद्विरोधिनो गवादिकाय भद्रं न भवत्विति तस्यार्थः ॥


यदा॒विर्यद॑पी॒च्यं१॒॑ देवा॑सो॒ अस्ति॑ दुष्कृ॒तम् ।

त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१३

यत् । आ॒विः । यत् । अ॒पी॒च्य॑म् । देवा॑सः । अस्ति॑ । दुः॒ऽकृ॒तम् ।

त्रि॒ते । तत् । विश्व॑म् । आ॒प्त्ये । आ॒रे । अ॒स्मत् । द॒धा॒त॒न॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१३

यत् । आविः । यत् । अपीच्यम् । देवासः । अस्ति । दुःऽकृतम् ।

त्रिते । तत् । विश्वम् । आप्त्ये । आरे । अस्मत् । दधातन । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १३ ॥

हे देवासः देवा आदित्याः यदाविः यत् पापमाविर्भूतम् "अस्ति । "दुष्कृतं "यत् च “अपीच्यम् अन्तर्हितमस्ति । ‘ अपीच्यम्' इत्यन्तर्हितनाम । "तद्विश्वं तदुभयम् "आप्त्ये “त्रिते मयि मा भूत्। किंतु “अस्मत् "आरे दूरे "दधातन स्थापयत ॥


‘यञ्च गोषु' इत्यादिसूक्तशेषेण दुःस्वप्नं दृष्ट्वादित्यमुपतिष्ठेत । तथा च स्वप्नममनोज्ञं दृष्ट्वा' इत्युपक्रम्य ' यच्च गोषु दुष्वप्न्यमिति पञ्चभिरादित्यमुपतिष्ठेत' (आश्व. गृ. ३. ६. ६) इति सूत्रितम् ॥


यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः ।

त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१४

यत् । च॒ । गोषु॑ । दुः॒ऽस्वप्न्य॑म् । यत् । च॒ । अ॒स्मे इति॑ । दु॒हि॒तः॒ । दि॒वः॒ ।

त्रि॒ताय॑ । तत् । वि॒भा॒ऽव॒रि॒ । आ॒प्त्याय॑ । परा॑ । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१४

यत् । च । गोषु । दुःस्वप्न्यम् । यत् । च । अस्मे इति । दुहितः । दिवः ।

त्रिताय । तत् । विभाऽवरि । आप्त्याय । परा । वह ।। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः । ॥ १४ ॥

हे "दिवः “दुहितः उषः उषोदेवते "यच्च गोषु अस्मदीयासु “दुष्वप्न्यम् अनर्थसूचकं दृष्टम् । स्वार्थिको यत् । किंच “यच्च दुष्वप्न्यम् "अस्मे अस्मासु दृष्टम् । गोपीइानिमित्तकमस्माकं पीडानिमित्तकं च यद्दुःस्वप्नं पश्याम इत्यर्थः । तत् सर्वं हे "विभावरि । उषोनामैतत् । हे व्युच्छनवति देवि “आप्त्याय "त्रिताय "परा “वह दूरे परिहर ।।।


नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः ।

त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१५

नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव॑ते । स्रज॑म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ ।

त्रि॒ते । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । परि॑ । द॒द्म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१५

निष्कम् । वा । घ । कृणवते । स्रजम् । वा। दुहितः । दिवः ।।

त्रिते । दुःस्वप्न्यम् । सर्वम् । आप्त्ये । परि । दद्मसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १५ ॥

हे "दिवः “दुहितः उषः "निष्कं वा “घ आभरणविशेषं वा "कृणवते कुर्वते स्वर्णकाराय यत् “दुष्वप्न्यं दृष्टम् । स्वर्णकारेण निर्माणसमये दृष्टमित्यर्थः । घेति पूरणः । वाशब्दश्चार्थे । “वा अथवा “स्रजं माल्यं कृणवते । कुर्वाण इत्यर्थः । तस्मिन्नपि मालाकारे मालानिर्माणसमये यद्दुष्वप्न्यं दृष्टं तदुभयविषयं दुःस्वप्नम् "आप्त्ये अपां पुत्रे “त्रिते वर्तमानं "परि “दद्मसि उपरि दद्मः । वयं त्रिताः परित्यजामेत्यर्थः । अथवा । त्रिते मयि यत् दुष्वप्न्यं दृष्टं तत् स्वर्णकाराय मालाकाराय वा परि दद्मसि । अस्मत्तोऽपि निष्कृष्य तयोरुपरि स्थापयामः ॥ ॥ ९ ॥


तद॑न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे॑ ।

त्रि॒ताय॑ च द्वि॒ताय॒ चोषो॑ दु॒ष्ष्वप्न्यं॑ वहाने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१६

तत्ऽअ॑न्नाय । तत्ऽअ॑पसे । तम् । भा॒गम् । उ॒प॒ऽसे॒दुषे॑ ।

त्रि॒ताय॑ । च॒ । द्वि॒ताय॑ । च॒ । उषः॑ । दुः॒ऽस्वप्न्य॑म् । व॒ह॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१६

तत्ऽअन्नाय । तत्ऽअपसे । तम् । भागम् । उपऽसेदुषे ।।

त्रिताय । च। द्विताय । च । उषः । दुःऽस्वप्न्यम् । वह ।। अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १६ ॥

“तदन्नाय । यदेव जागरावस्थायां भोज्यत्वेन प्रसिद्धं मधुपयसादि स्वप्नेऽपि तदेवान्नं यस्य सः । तादृशाय । प्रत्यक्षभोजनवत् स्वप्नेऽपि भोक्त्र इत्यर्थः। तथा “तदपसे । यदेवापः कर्म निन्दितं जाग्रदवस्थायां क्रियते तदेव कर्म स्वप्ने यस्य स तत्कर्मा । तादृशाय देवाय "तं “भागं दुःस्वप्नस्यांशम् "उपसेदुषे प्राप्नुवते “त्रिताय "द्विताय “च हे "उषः देवि “दुष्वप्न्यम् अन्नकर्मविषयं “वह अन्यत्र प्रापय । स्वप्ने दृष्टं मधुभोजनादिकं जाग्रदवस्थानुभूतवत् सुखकरं भवत्वित्यर्थः ॥


यथा॑ क॒लां यथा॑ श॒फं यथ॑ ऋ॒णं सं॒नया॑मसि ।

ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१७

यथा॑ । क॒लाम् । यथा॑ । श॒फम् । यथा॑ । ऋ॒णम् । स॒म्ऽनया॑मसि ।

ए॒व । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । सम् । न॒या॒म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१७

यथा । कलाम् । यथा । शफम् । यथा । ऋणम् । सम्ऽनयामसि ।

एव । दुःस्वप्न्यम् । सर्वम् । आप्त्ये । सम् । नयामसि । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १७ ॥

संज्ञपितं पशुं दानार्थं संस्कुर्वन्तः यथा येन प्रकारेण "कलां "शफम् इति संदायान्यत्र संनयन्ति । अथापरो यथाशब्दः पूरणः । अथवा । यथा कलां हृदयाद्यवयवमवदानार्हं संनयन्ति यथा च शफं शफोपलक्षितमनवदानार्हं शफास्थ्यादिकं संनयन्ति । यथा वा “ऋणं शनैः संनयन्ति “एव एवं "दुष्ष्वप्न्यं "सर्वमाप्त्ये वर्तमानं “सं "नयामसि संनयामः अपसारयामः ।।


अजै॑ष्मा॒द्यास॑नाम॒ चाभू॒माना॑गसो व॒यम् ।

उषो॒ यस्मा॑द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो॑ व ऊ॒तयः॑ सुऊ॒तयो॑ व ऊ॒तयः॑ ॥१८

अजै॑ष्म । अ॒द्य । अस॑नाम । च॒ । अभू॑म । अना॑गसः । व॒यम् ।

उषः॑ । यस्मा॑त् । दुः॒ऽस्वप्न्या॑त् । अभै॑ष्म । अप॑ । तत् । उ॒च्छ॒तु॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥१८

अजैष्म । अद्य । असनाम । च । अभूम । अनागसः । वयम् ।

उषः । यस्मात् । दुःऽस्वप्न्यात् । अभैष्म । अप । तत् । उच्छतु । अनेहसः । वः । ऊतयः । सुऽऊतयः । वः । ऊतयः ॥ १८ ॥

“वयं त्रिताः अद्य अजैष्म जयेम । "असनाम "च संभजेम च सुस्वप्नं सुखं वा । "अनागसः अपापाः "अभूम भवेम । हे "उषः "यस्मात् दुष्वप्न्यात् "अभैष्म भीताः स्म "तत् पापम् "अप “उच्छतु अपगच्छतु ॥ ॥ १० ॥


[सम्पाद्यताम्]

मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४७&oldid=208996" इत्यस्माद् पुनः प्राप्तिः