ऋग्वेदः सूक्तं ८.८८
← सूक्तं ८.८७ | ऋग्वेदः - मण्डल ८ सूक्तं ८.८८ नोधा गौतमः |
सूक्तं ८.८९ → |
दे. इन्द्रः। प्रगाथः - (विषमा बृहती, समा सतोबृहती) |
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥१॥
द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसम् ।
क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥२॥
न त्वा बृहन्तो अद्रयो वरन्त इन्द्र वीळवः ।
यद्दित्ससि स्तुवते मावते वसु नकिष्टदा मिनाति ते ॥३॥
योद्धासि क्रत्वा शवसोत दंसना विश्वा जाताभि मज्मना ।
आ त्वायमर्क ऊतये ववर्तति यं गोतमा अजीजनन् ॥४॥
प्र हि रिरिक्ष ओजसा दिवो अन्तेभ्यस्परि ।
न त्वा विव्याच रज इन्द्र पार्थिवमनु स्वधां ववक्षिथ ॥५॥
नकिः परिष्टिर्मघवन्मघस्य ते यद्दाशुषे दशस्यसि ।
अस्माकं बोध्युचथस्य चोदिता मंहिष्ठो वाजसातये ॥६॥
सायणभाष्यम्
‘ तं वो दस्मम्' इति षडृचमष्टमं सूक्तं गौतमस्य नोधस आर्षम् । तथा चानुक्रम्यते- तं वो दस्मं नोधाः' इति । प्रागाथं ह' इत्युक्तत्वादेतदादिसूक्तत्रयं प्रागाथम् । इन्द्रो देवता । महाव्रते निष्केवल्ये बार्हततृचाशीतावेतत्सूक्तम् । तथा च पञ्चमारण्यके सूत्रितं-- तं वो दस्ममृतीषहमा नो विश्वासु हव्यः' (ऐ. आ. ५. २. ४) इति । अग्निष्टोमे माध्यंदिनसवनेऽच्छावाकशस्त्रे ‘तं वो दस्मम्' इति प्रगाथः स्तोत्रियः । सूत्रितं च -- तं वो दस्ममृतीषहं तत्त्वा यामि सुवीर्यमिति प्रगाथौ स्तोत्रियानुरूपौ' (आश्व. श्रौ. ५. १६ ) इति । चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनो वैकल्पिकः स्तोत्रियोऽयमेव प्रगाथः (आश्व. श्रौ. ७. ४ )। विषुवत्यपि माध्यंदिनसवने ब्राह्मणाच्छंसिशस्त्रे ‘तं वो दस्ममृतीषहम्' इति नौधसस्य योनिः शंसनीया । ' तं वो दस्ममृतीषहमभि प्र वः सुराधसम्' (आश्व. श्रौ. ८. ६) इति ॥
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः ।
अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥१
तम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः ।
अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥१
तम् । वः । दस्मम् । ऋतिऽसहम् । वसोः । मन्दानम् । अन्धसः ।
अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीःऽभिः । नवामहे ॥१
नोधा इन्द्रं स्तौति । हे ऋविग्यजमानाः “दस्मं दर्शनीयम् “ऋतीषहम् । ऋतयो बाधकाः शत्रवः । तेषामभिभवितारम् । पुनः कीदृशम् । “वसोः वासयितुर्दुःखस्य निवासयितुः । यद्वा । वसोः पात्रे निवसतः । तादृशस्य “अन्धसः सोमलक्षणस्यान्नस्य पानेन “मन्दानं मन्दमानं मोदमानं “वः यष्टृयष्टव्यत्वेन युष्मत्संबन्धिनं “तं तादृशम् “इन्द्रं “गीर्भिः स्तुतिलक्षणाभिर्वाग्भिः “अभि “नवामहे ।‘नू स्तवने' 'नु शब्दे'। अभिष्टुमः। कुत्रेति। "स्वसरेषु । अत्र यास्कः- ‘ स्वसराण्यहानि स्वयंसारीण्यपि वा स्वरादित्यो भवति स एनानि सारयति' (निरु. ५. ४ ) इति । सूर्यनेतृकेषु दिवसेषु वयमभिष्टुमः । तत्र दृष्टान्तः । “वत्सं “न यथा “धेनवः नवप्रसूतिका धेनवः स्वसरेषु । सुष्ठ्वस्यन्ते प्रेर्यन्ते गावोऽत्रेति स्वसराणि गोष्ठानि । तेषु वत्समभिलक्ष्य शब्दयन्ति तद्वत् ॥
द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥२
द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ।
क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥२
द्युक्षम् । सुऽदानुम् । तविषीभिः । आऽवृतम् । गिरिम् । न । पुरुऽभोजसम् ।
क्षुऽमन्तम् । वाजम् । शतिनम् । सहस्रिणम् । मक्षु । गोऽमन्तम् । ईमहे ॥२
“द्युक्षं दीप्तीनां निवासस्थानम् । अतिशयितदीप्तिमित्यर्थः । यद्वा । द्युक्षं दिवि द्युलोके क्षियन्तं निवसन्तम् । “सुदानुं शोभनदानं “तविषीभिः बलैः “आवृतम् आच्छादितम् । आवरणे दृष्टान्तः । “गिरिं “न तविषीभिर्बलयुक्तैर्मेघैरावृतं शिलोच्चयमिव स्थितम् । पुनः कीदृशम् । “पुरुभोजसं सोमादिहविष्प्रदानेन बहुभिर्यजमानैर्भोजयितव्यं यद्वा बहूनां पालयितारमिन्द्रं “क्षुमन्तम् । “टुक्षु शब्दे । शब्दवन्तम् । अनेन पुत्रादिकं लक्ष्यते । स्तोत्रादीनि कुर्वाणं “शतिनं “सहस्रिणं शतसहस्रसंख्याकधनयुक्तं “गोमन्तं गवादियुक्तं “वाजम् अन्नं “मक्षु शीघ्रम् “ईमहे याचामहे । यद्वा । पूर्वार्धो वाजविशेषणत्वेन वा योजनीयः । प्रदीप्तं शोभनदानयोग्यं बलादियुक्तं बहुभिः पुत्रमित्रादिभिर्भोक्तव्यं शब्दादियुक्तमन्नमिन्द्रं याचामह इति ॥
चातुर्विंशिकेऽहनि माध्यंदिनसवने ब्राह्मणाच्छंसिनः ‘न त्वा बृहन्तः' इति वैकल्पिकोऽनुरूपः । सूत्रितं च--- न त्वा बृहन्तो अद्रय उभयं शृणवच्च नः' (आश्व. श्रौ. ७. ४) इति ।
न त्वा॑ बृ॒हन्तो॒ अद्र॑यो॒ वर॑न्त इन्द्र वी॒ळव॑ः ।
यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ॥३
न । त्वा॒ । बृ॒हन्तः॑ । अद्र॑यः । वर॑न्ते । इ॒न्द्र॒ । वी॒ळवः॑ ।
यत् । दित्स॑सि । स्तु॒व॒ते । माऽव॑ते । वसु॑ । नकिः॑ । तत् । आ । मि॒ना॒ति॒ । ते॒ ॥३
न । त्वा । बृहन्तः । अद्रयः । वरन्ते । इन्द्र । वीळवः ।
यत् । दित्ससि । स्तुवते । माऽवते । वसु । नकिः । तत् । आ । मिनाति । ते ॥३
हे "इन्द्र "बृहन्तः बलेन महान्तः अत एव “वीळवः सर्वतो दृढा अपि “अद्रयः पर्वताः “त्वा त्वां “न “वरन्ते बलेन न निवारयन्ति । अनिवारणमेवोत्तरार्धेन विवृणोति । “स्तुवते त्वद्विषयं स्तोत्रं कुर्वते "मावते मत्सदृशाय मादृशाय स्तोत्रे “यत् “वसु यद्धनं “दित्ससि त्वं दातुमिच्छसि तव देयं “तत् धनं “नकिः न कश्चित् “आ “मिनाति आभिमुख्येन हिनस्ति ।। ' मीञ् हिंसायाम् । ' मीनातेर्निगमे' इति ह्रस्वः । मावते । युष्मदस्मद्भ्यां सादृश्य उपसंख्यानम्' इति वतुप् ॥
योद्धा॑सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा॑ जा॒ताभि म॒ज्मना॑ ।
आ त्वा॒यम॒र्क ऊ॒तये॑ ववर्तति॒ यं गोत॑मा॒ अजी॑जनन् ॥४
योद्धा॑ । अ॒सि॒ । क्रत्वा॑ । शव॑सा । उ॒त । दं॒सना॑ । विश्वा॑ । जा॒ता । अ॒भि । म॒ज्मना॑ ।
आ । त्वा॒ । अ॒यम् । अ॒र्कः । ऊ॒तये॑ । व॒व॒र्त॒ति॒ । यम् । गोत॑माः । अजी॑जनन् ॥४
योद्धा । असि । क्रत्वा । शवसा । उत । दंसना । विश्वा । जाता । अभि । मज्मना ।
आ । त्वा । अयम् । अर्कः । ऊतये । ववर्तति । यम् । गोतमाः । अजीजनन् ॥४
हे इन्द्र “क्रत्वा वृत्रहननादिकर्मणा अपि वा प्रज्ञानेन “शवसा आत्मीयेन बलेन “योद्धा शत्रूणां संप्रहारकः “असि । “उत अपि च त्वं “दंसना स्वकीयेन कर्मणा “मज्मना । मज मुजि शब्दार्थाः' । मजमुजी चेति मजतिः शब्दार्थः । शत्रूणामाक्रोशनसमर्थेन बलेन “विश्वा “जाता सर्वाणि भूतजातान्यभिभवसि । उक्तार्थस्य विश्वा जातान्यभ्यस्मि मह्ना' (ऋ. सं. ८. १००, ४ ) इत्यादिष्विन्द्रेणैवोक्तत्वात् । एतादृशं “त्वा त्वाम् “अर्कः । ‘अर्च पूजायाम् । अर्चनीयः “अयं मन्त्रः यद्वार्को देवानामर्चकः पूजकोऽयं स्तोता “ऊतये स्वरक्षणाय “आ “ववर्तति आवर्तयति । आत्माभिमुख्ये करोतीत्यर्थः । वर्ततेर्लेटि बहुलं श्लुरडागमश्च । “यं त्वां “गोतमाः गोतमपुत्रा नोधःप्रभृतयः “अजीजनन् स्वयज्ञे प्रादुरबीभवन् । तं त्वामयं “मन्त्रः स्तोता वावर्तयति ॥
प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते॑भ्य॒स्परि॑ ।
न त्वा॑ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ॥५
प्र । हि । रि॒रि॒क्षे । ओज॑सा । दि॒वः । अन्ते॑भ्यः । परि॑ ।
न । त्वा॒ । वि॒व्या॒च॒ । रजः॑ । इ॒न्द्र॒ । पार्थि॑वम् । अनु॑ । स्व॒धाम् । व॒व॒क्षि॒थ॒ ॥५
प्र । हि । रिरिक्षे । ओजसा । दिवः । अन्तेभ्यः । परि ।
न । त्वा । विव्याच । रजः । इन्द्र । पार्थिवम् । अनु । स्वधाम् । ववक्षिथ ॥५
हे इन्द्र "दिवः द्युलोकस्य पर्यन्तेभ्यः “ओजसा । हिरवधारणे । स्वबलेनैव “प्र “रिरिक्षे प्रकर्षेणातिरिक्तो भवसि । रिचेर्लटि • बहुलं छन्दसि' इति श्लुः । प्रत्ययस्वरः । किंच हे “इन्द्र “पार्थिवं पृथिव्यां भवः “रजः लोकः “त्वा त्वां महता स्वशरीरेण “न “विव्याच न व्याप्नोति । द्यावापृथिवीभ्यामपि स्वतः स त्वं बलेन समर्थों भवसीत्यर्थः । एवंभूतः सन्नस्माकं “स्वधाम् अन्नमुदकं वा “अनु "ववक्षिथ अनुवोढुमिच्छ । वहेः सनन्तस्य छान्दसे लिटि रूपम् । मन्त्रत्वादामभावः ॥
नकि॒ः परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे॑ दश॒स्यसि॑ ।
अ॒स्माकं॑ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ॥६
नकिः॑ । परि॑ष्टिः । म॒घ॒ऽव॒न् । म॒घस्य॑ । ते॒ । यत् । दा॒शुषे॑ । द॒श॒स्यसि॑ ।
अ॒स्माक॑म् । बो॒धि॒ । उ॒चथ॑स्य । चो॒दि॒ता । मंहि॑ष्ठः । वाज॑ऽसातये ॥६
नकिः । परिष्टिः । मघऽवन् । मघस्य । ते । यत् । दाशुषे । दशस्यसि ।
अस्माकम् । बोधि । उचथस्य । चोदिता । मंहिष्ठः । वाजऽसातये ॥६
हे "मघवन् धनवन्निन्द्र "ते तव "मघस्य मंहनीयस्य धनस्य "परिष्टिः परिबाधको निरोद्धा “नकिः न कश्चिदस्ति । “यत् यदा “दाशुषे हविर्दत्तवते यजमानाय “दशस्यसि धनं प्रयच्छसि तदा तस्य निरोधको नास्तीत्यर्थः । तथा सति “चोदिता धनानां चोदयिता स्तोतृभ्यः प्रेरयिता अत एव “मंहिष्ठः दातृतमो मंहनीयो वा स त्वम् “अस्माकं संबन्धि “उचथस्य स्तोत्रं “वाजसातये अन्नलाभाय तदर्थं क्रियमाणमिति “बोधि बुध्यस्व । स्तोत्रेण स्तुतः सन्नस्मभ्यमन्नादिकं प्रयच्छेति शेषः । बोधि । ‘ बुध अवबोधने । भौवादिकः । लोटि छान्दसः शपो लुक् । ध्यादेशः ॥ ॥ ११ ॥
टिप्पणी
८.८८.१ तं वो दस्मं ऋतीषहं वसोर्मन्दानो अन्धसेति -
प्रजापतेर्नाविकम्, अभीवर्तम्, अभीवर्तस्य भागम्, नौधसम् (ग्रामगेयः)
त्रीणि यज्ञे ऽन्धांसीति ह स्म पूर्वे ब्राह्मणा मीमांसन्ते उच्चा ते जातम् अन्धसा॥ वसोर् मन्दानम् अन्धसः॥ पुरोजिती वो अन्धसः इति। त्रयः पशुषु भोगाः प्रातर् मध्यंदिने सायम्। तान् एवैतेनावरुन्द्धे॥ - जैब्रा. १.११६
मण्डल ८ | ||||||
---|---|---|---|---|---|---|