ऋग्वेदः सूक्तं ८.९३
← सूक्तं ८.९२ | ऋग्वेदः - मण्डल ८ सूक्तं ८.९३ सुकक्ष आङ्गिरसः । |
सूक्तं ८.९४ → |
दे. इन्द्रः, ३४ इन्द्र - ऋभवश्च । गायत्री । |
उद्घेदभि श्रुतामघं वृषभं नर्यापसम् ।
अस्तारमेषि सूर्य ॥१॥
नव यो नवतिं पुरो बिभेद बाह्वोजसा ।
अहिं च वृत्रहावधीत् ॥२॥
स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।
उरुधारेव दोहते ॥३॥
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
सर्वं तदिन्द्र ते वशे ॥४॥
यद्वा प्रवृद्ध सत्पते न मरा इति मन्यसे ।
उतो तत्सत्यमित्तव ॥५॥
ये सोमासः परावति ये अर्वावति सुन्विरे ।
सर्वाँस्ताँ इन्द्र गच्छसि ॥६॥
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥७॥
इन्द्रः स दामने कृत ओजिष्ठः स मदे हितः ।
द्युम्नी श्लोकी स सोम्यः ॥८॥
गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।
ववक्ष ऋष्वो अस्तृतः ॥९॥
दुर्गे चिन्नः सुगं कृधि गृणान इन्द्र गिर्वणः ।
त्वं च मघवन्वशः ॥१०॥
यस्य ते नू चिदादिशं न मिनन्ति स्वराज्यम् ।
न देवो नाध्रिगुर्जनः ॥११॥
अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः ।
उभे सुशिप्र रोदसी ॥१२॥
त्वमेतदधारयः कृष्णासु रोहिणीषु च ।
परुष्णीषु रुशत्पयः ॥१३॥
वि यदहेरध त्विषो विश्वे देवासो अक्रमुः ।
विदन्मृगस्य ताँ अमः ॥१४॥
आदु मे निवरो भुवद्वृत्रहादिष्ट पौंस्यम् ।
अजातशत्रुरस्तृतः ॥१५॥
श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनाम् ।
आ शुषे राधसे महे ॥१६॥
अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
यत्सोमेसोम आभवः ॥१७॥
बोधिन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
शृणोतु शक्र आशिषम् ॥१८॥
कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।
कया स्तोतृभ्य आ भर ॥१९॥
कस्य वृषा सुते सचा नियुत्वान्वृषभो रणत् ।
वृत्रहा सोमपीतये ॥२०॥
अभी षु णस्त्वं रयिं मन्दसानः सहस्रिणम् ।
प्रयन्ता बोधि दाशुषे ॥२१॥
पत्नीवन्तः सुता इम उशन्तो यन्ति वीतये ।
अपां जग्मिर्निचुम्पुणः ॥२२॥
इष्टा होत्रा असृक्षतेन्द्रं वृधासो अध्वरे ।
अच्छावभृथमोजसा ॥२३॥
इह त्या सधमाद्या हरी हिरण्यकेश्या ।
वोळ्हामभि प्रयो हितम् ॥२४॥
तुभ्यं सोमाः सुता इमे स्तीर्णं बर्हिर्विभावसो ।
स्तोतृभ्य इन्द्रमा वह ॥२५॥
आ ते दक्षं वि रोचना दधद्रत्ना वि दाशुषे ।
स्तोतृभ्य इन्द्रमर्चत ॥२६॥
आ ते दधामीन्द्रियमुक्था विश्वा शतक्रतो ।
स्तोतृभ्य इन्द्र मृळय ॥२७॥
भद्रम्भद्रं न आ भरेषमूर्जं शतक्रतो ।
यदिन्द्र मृळयासि नः ॥२८॥
स नो विश्वान्या भर सुवितानि शतक्रतो ।
यदिन्द्र मृळयासि नः ॥२९॥
त्वामिद्वृत्रहन्तम सुतावन्तो हवामहे ।
यदिन्द्र मृळयासि नः ॥३०॥
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतम् ॥३१॥
द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।
उप नो हरिभिः सुतम् ॥३२॥
त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।
उप नो हरिभिः सुतम् ॥३३॥
इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिम् ।
वाजी ददातु वाजिनम् ॥३४॥
सायणभाष्यम्
‘ उद्घ' इति चतुस्त्रिंशदृचं त्रयोदशं सूक्तं सुकक्षस्यार्षं गायत्रमैन्द्रम् । अन्त्या त्विन्द्रर्भुदेवताका । तथा चानुक्रान्तम्- उद्ध चतुस्त्रिंशत्सुकक्षोऽन्त्यैन्द्रार्भवी' इति । द्वितीये पर्याये होतुः शस्त्र उत्तमावर्जमेतत्सूक्तम् । सूत्रितं च - उद्घेदभीत्युत्तमामुद्धरेत्' ( आश्व. श्रौ. ६. ४ ) इति । महाव्रतेऽप्यस्य विनियोगः पूर्वसूक्तेन सहोक्तः । ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्र आद्यस्तृचः । सूत्रितं च - ‘ उद्घेदभीति तिस्र इन्द्र क्रतुविदं सुतमिति याज्या' (आश्व. श्रौ. ५. १० ) इति । तथाप्तोर्यामे मैत्रावरुणातिरिक्तोक्थेऽयं तृचोऽनुरूपः । सूत्रितं च -- यदद्य कच्च वृत्रहन्नुद्घेदभि श्रुतामघमा नो विश्वाभिः' ( आश्व. श्रौ. ९. ११ ) इति ॥
उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
अस्ता॑रमेषि सूर्य ॥१
उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् ।
अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥१
उत् । घ । इत् । अभि । श्रुतऽमघम् । वृषभम् । नर्यऽअपसम् ।
अस्तारम् । एषि । सूर्य ॥१
सुकक्ष इन्द्रगुणानाह । हे "सूर्य । द्वादशसु भानुष्विन्द्रोऽपि सूर्यात्मना पठितः । तस्मात्सूर्यात्मक सुवीर्य हे इन्द्र “श्रुतमघं सर्वदा देयत्वेन विख्यातधनमत एव "वृषभं याचमानानां धनस्य वर्षितारं "नर्यापसम् । नरहितं नर्यम् । नरहितकर्माणम् "अस्तारं दानशौण्डमौदार्यवन्तमेतादृशानुभावमभितः "उत् "एषि । "इत् अवधारणे । त्वमेव तस्य यज्ञे सूर्यात्मना उद्गतोऽसि। "घ इति प्रसिद्धौ ॥
नव॒ यो न॑व॒तिं पुरो॑ बि॒भेद॑ बा॒ह्वो॑जसा ।
अहिं॑ च वृत्र॒हाव॑धीत् ॥२
नव॑ । यः । न॒व॒तिम् । पुरः॑ । बि॒भेद॑ । बा॒हुऽओ॑जसा ।
अहि॑म् । च॒ । वृ॒त्र॒ऽहा । अ॒व॒धी॒त् ॥२
नव । यः । नवतिम् । पुरः । बिभेद । बाहुऽओजसा ।
अहिम् । च । वृत्रऽहा । अवधीत् ॥२
"यः इन्द्रः "नव “नवतिं नवनवतिसंख्याका एकोनशतसंख्याकाः शम्बरस्य “पुरः पुरीः “बाह्वोजसा स्वबाहुबलेनैव "बिभेद दिवोदासाय भिनत्ति स्म । तथा च मन्त्रः - ‘ दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य' ( ऋ. सं. २. १९. ६) इति । सः "वृत्रहा वृत्रासुरस्य हन्ता स इन्द्रः "अहिं “च केनाप्यहन्तव्यं मेघमपामावरकं वृत्रं वा "अवधीत् । स इन्द्रोऽस्माकं धनं ददात्वित्युत्तरेण संबन्धः ॥
स न॒ इन्द्र॑ः शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।
उ॒रुधा॑रेव दोहते ॥३
सः । नः॒ । इन्द्रः॑ । शि॒वः । सखा॑ । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् ।
उ॒रुधा॑राऽइव । दो॒ह॒ते॒ ॥३
सः । नः । इन्द्रः । शिवः । सखा । अश्वऽवत् । गोऽमत् । यवऽमत् ।
उरुधाराऽइव । दोहते ॥३
“सः पूर्वोक्तलक्षणः "शिवः कल्याणतमः "सखा यष्टृयष्टव्यस्तोतृस्तुत्यलक्षणेन संबन्धेनास्माकं मित्रभूतः एतादृशः "इन्द्रः "अश्ववत् अश्वयुक्तं "गोमत् पश्वादिसहितं "यवमत् । ‘ अयवादिभ्यः' (पा. सू. ८. २. ९) इति प्रतिषेधान्मतुपो वत्वाभावः । यव इति धान्यविशेषः । धान्ययुक्तं धनं “नः अस्मभ्यं "दोहते दोग्धु ददातु। तत्र दृष्टान्तः । "उरुधारेव । दोहनकाले प्रभूतपयोधारा यद्वा बहूनां पोषयित्री गौर्यथा वत्सस्य पयो दोग्धि तथा प्रभूतं धनमस्माकं दोग्धु ददातु । दुहेर्लेट्यडागमः ॥
यद॒द्य कच्च॑ वृत्रहन्नु॒दगा॑ अ॒भि सू॑र्य ।
सर्वं॒ तदि॑न्द्र ते॒ वशे॑ ॥४
यत् । अ॒द्य । कत् । च॒ । वृ॒त्र॒ऽह॒न् । उ॒त्ऽअगाः॑ । अ॒भि । सू॒र्य॒ ।
सर्व॑म् । तत् । इ॒न्द्र॒ । ते॒ । वशे॑ ॥४
यत् । अद्य । कत् । च । वृत्रऽहन् । उत्ऽअगाः । अभि । सूर्य ।
सर्वम् । तत् । इन्द्र । ते । वशे ॥४
हे "वृत्रहन् वृत्रस्यापामावरकस्य मेघस्य हन्तः हे "सूर्य सूर्यात्मक "इन्द्र "अद्य अस्मिन् दिने "यत् "कच्च यत्किंचित्पदार्थजातम् "अभि अभिमुखीकृत्य "उदगाः । ‘ इण् गतौ । उत्पूर्वः । तस्य लुङि गादेशः। स्वतेजसोद्गतः प्रादुर्भूतोऽसि तदा “तत् "सर्वं स्थावरजङ्गमात्मकं जगत् "ते तव "वशे भवति । त्वदधीनं भवति । उदिते सूर्ये त्वदर्थं प्राक्कर्म कुर्वन्ति जुह्वति च ॥
यद्वा॑ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से ।
उ॒तो तत्स॒त्यमित्तव॑ ॥५
यत् । वा॒ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । न । म॒रै॒ । इति॑ । मन्य॑से ।
उ॒तो इति॑ । तत् । स॒त्यम् । इत् । तव॑ ॥५
यत् । वा । प्रऽवृद्ध । सत्ऽपते । न । मरै । इति । मन्यसे ।
उतो इति । तत् । सत्यम् । इत् । तव ॥५
वाशब्दः समुच्चये । अपि च हे "प्रवृद्ध स्वबलेन प्रवर्धमान "सत्पते सतां पते स्वप्रकाशाधिक्येन सतां नक्षत्राणां पते हे इन्द्र "न “मरै "इति मनुष्यवद्वार्धक्येनाहं न म्रिय इति "यत् यदि "मन्ये युध्यसे। मृङ् प्राणत्यागे'। लेट्यडागमः।' वैतोऽन्यत्र' इत्यैकारः। "उतो अपि च "तव “तत् न म्रिय इति मननं “सत्यमित् यथार्थमेव । इन्द्रो न म्रियत इत्यर्थे मन्त्रान्तरं-- न ह्यस्या अपरं चन जरसा मरते पतिः' (ऋ. सं. १०. ८६. ११) इति ॥ ॥ २१ ॥
ये सोमा॑सः परा॒वति॒ ये अ॑र्वा॒वति॑ सुन्वि॒रे ।
सर्वाँ॒स्ताँ इ॑न्द्र गच्छसि ॥६
ये । सोमा॑सः । प॒रा॒ऽवति॑ । ये । अ॒र्वा॒ऽवति॑ । सु॒न्वि॒रे ।
सर्वा॑न् । तान् । इ॒न्द्र॒ । ग॒च्छ॒सि॒ ॥६
ये । सोमासः । पराऽवति । ये । अर्वाऽवति । सुन्विरे ।
सर्वान् । तान् । इन्द्र । गच्छसि ॥६
हे "इन्द्र "ये "सोमासः सोमाः “परावति विप्रकृष्टेऽतिदूरदेशे “ये सोमाः “अर्वावति अन्तिकतमे देशे च “सुन्विरे । छन्दसि द्विर्वचनस्य विकल्पितत्वादत्र द्विर्वचनाभावः। ये सोमा ऋत्विग्भिरभिषूयन्ते “सर्वान् दूरे समीपे चाभिषूयमाणान् “तान् सोमान् “गच्छसि तत्पानार्थं युगपत्प्राप्नोषि । अनेनेन्द्रस्य सर्वगतत्वं सूचितम् ॥
अप्तोर्यामे ब्राह्मणाच्छंसिनोऽतिरिक्तोक्थे ' तमिन्द्रं वाजयामसि' इति स्तोत्रियस्तृचः । सूत्रितं च - तमिन्द्रं वाजयामसि महाँ इन्द्रो य ओजसा' ( आश्व. श्रौ. ९. ११ ) इति । व्यूळ्हस्य दशरात्रस्य पञ्चमेऽहनि निष्केवल्येऽयमेव तृचो निविद्धानीयः । सूत्रितं च व्यूळ्हश्चेदिति खण्डे-- ‘ मरुत्वाँ इन्द्र मीढ्वस्तमिन्द्रं वाजयामसि' (आश्व. श्रौ. ८. ८) इति ।
तमिन्द्रं॑ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे ।
स वृषा॑ वृष॒भो भु॑वत् ॥७
तम् । इन्द्र॑म् । वा॒ज॒या॒म॒सि॒ । म॒हे । वृ॒त्राय॑ । हन्त॑वे ।
सः । वृषा॑ । वृ॒ष॒भः । भु॒व॒त् ॥७
तम् । इन्द्रम् । वाजयामसि । महे । वृत्राय । हन्तवे ।
सः । वृषा । वृषभः । भुवत् ॥७
यजमाना आहुः । “तं पूर्वोक्तलक्षणम् “इन्द्रं “वाजयामसि वाजयामः । सोमेन स्तुतिभिर्वा वाजवन्तं बलवन्तं कुर्मः । किमर्थम् । "महे महते "वृत्राय अपामावरकं वृत्रासुरं “हन्तवे हन्तुम् । सोमपानेन मत्तः स्तुतिभिर्वा स्तुतः सन् "वृषा धनानां सेक्ता दाता “सः इन्द्रः “वृषभः अस्माकं स्तोतॄणां सोमस्य दातॄणां धनादिसेचको दाता “भुवत् भवतु ॥
इन्द्र॒ः स दाम॑ने कृ॒त ओजि॑ष्ठ॒ः स मदे॑ हि॒तः ।
द्यु॒म्नी श्लो॒की स सो॒म्यः ॥८
इन्द्रः॑ । सः । दाम॑ने । कृ॒तः । ओजि॑ष्ठः । सः । मदे॑ । हि॒तः ।
द्यु॒म्नी । श्लो॒की । सः । सो॒म्यः ॥८
इन्द्रः । सः । दामने । कृतः । ओजिष्ठः । सः । मदे । हितः ।
द्युम्नी । श्लोकी । सः । सोम्यः ॥८
“सः “इन्द्रः “दामने स्तोतृभ्यो धनादिदानायैव “कृतः प्रजापतिना सृष्टः । किंच “ओजिष्ठः ओजस्वितमः “सः एवेन्द्रः “मदे। माद्यन्त्यनेनेति" मदः सोमः । तस्मिंश्च प्रजापतिना सृष्टिकाले “हितः । सोमपानार्थं च निहित इत्यर्थः । “द्युम्नी । 'द्युम्नं द्योततेर्यशो वान्नं वा' इति । यशस्व्यन्नवान् वा अत एव “श्लोकी । श्लोकः स्तुतिः । तद्वान् “सः इन्द्रः “सोम्यः सोमार्हो भवति ।
गि॒रा वज्रो॒ न सम्भृ॑त॒ः सब॑लो॒ अन॑पच्युतः ।
व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ॥९
गि॒रा । वज्रः॑ । न । सम्ऽभृ॑तः । सऽब॑लः । अन॑पऽच्युतः ।
व॒व॒क्षे । ऋ॒ष्वः । अस्तृ॑तः ॥९
गिरा । वज्रः । न । सम्ऽभृतः । सऽबलः । अनपऽच्युतः ।
ववक्षे । ऋष्वः । अस्तृतः ॥९
“गिरा स्तुतिलक्षणया वाचा स्तोतृभिः “संभृतः उत्पादितस्तीक्ष्णीकृतः । तत्र दृष्टान्तः । “वज्रो “न । वज्र आयुधम् । तत्कर्तृभिर्निशितधारो यथा भवति तीक्ष्णीक्रियते तद्वत् स्तोतृभिः स्तुत्या संभृतोऽत एव “सबलः बलसहितस्तस्मात् "अनपच्युतः परैरप्रच्युतः । अनभिगत इत्यर्थः । तादृशः “ऋष्वः महान् दीप्यमानो वा “अस्तृतः युद्धे शत्रुभिरहिंसित इन्द्रः “ववक्षे स्तोतृभ्यो धनादिकं वोढुमिच्छति ॥
दु॒र्गे चि॑न्नः सु॒गं कृ॑धि गृणा॒न इ॑न्द्र गिर्वणः ।
त्वं च॑ मघव॒न्वश॑ः ॥१०
दुः॒ऽगे । चि॒त् । नः॒ । सु॒ऽगम् । कृ॒धि॒ । गृ॒णा॒नः । इ॒न्द्र॒ । गि॒र्व॒णः॒ ।
त्वम् । च॒ । म॒घ॒ऽव॒न् । वशः॑ ॥१०
दुःऽगे । चित् । नः । सुऽगम् । कृधि । गृणानः । इन्द्र । गिर्वणः ।
त्वम् । च । मघऽवन् । वशः ॥१०
हे “गिर्वणः गीर्भिर्वननीय “इन्द्र “गृणानः स्तोतृभिः स्तूयमानस्त्वं “नः अस्माकं “दुर्गे “चित् दुर्गमेऽपि मार्गे “सुगं सुगमं पन्थानं “कृधि तथा कुरु । हे “मघवन् धनवन्निन्द्र “त्वम् । चशब्दश्चेदर्थे । यदि “वशः सोमपानार्थं तत्प्रदातॄनस्मान् कामयेथाः तदा पन्थानं शोभनगमनं कुरुष्व । वष्टेर्लेट्यडागमः । चशब्दयोगादनिघातः ॥ ॥ २२ ॥
यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य॑म् ।
न दे॒वो नाध्रि॑गु॒र्जन॑ः ॥११
यस्य॑ । ते॒ । नु । चि॒त् । आ॒ऽदिश॑म् । न । मि॒नन्ति॑ । स्व॒ऽराज्य॑म् ।
न । दे॒वः । न । अध्रि॑ऽगुः । जनः॑ ॥११
यस्य । ते । नु । चित् । आऽदिशम् । न । मिनन्ति । स्वऽराज्यम् ।
न । देवः । न । अध्रिऽगुः । जनः ॥११
हे इन्द्र “यस्य “ते तव “आदिशम् । आदिशति नयति सर्वत्रानयेत्यादिग्बलम् । औणादिकः करणे प्रत्ययः । यद्वा । आदेश एवादिगाज्ञा । भावे क्विप् । त्वदीयामाज्ञां “नू “चित् इदानीं पुरा च “न “मिनन्ति केचिदपि न हिंसन्ति । किंच। "स्वराज्यं तव स्वभूतं राज्यं च । यद्वा । स्वशब्देन स्वर्गोऽभिधीयते । स्वर्गस्वामित्वं च न हिंसन्ति । हिंसकानाह। “न “देवः त्वदन्यो देवोऽपि च तथापि “अध्रिगुः अधृतगमनः संग्रामे त्वरमाणो वीरोऽपि “न च "जनः प्रादुर्भूतो मनुष्योऽपि । एते न मिनन्तीत्यर्थः ॥
अधा॑ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं॑ सपर्यतः ।
उ॒भे सु॑शिप्र॒ रोद॑सी ॥१२
अध॑ । ते॒ । अप्र॑तिऽस्कुतम् । दे॒वी इति॑ । शुष्म॑म् । स॒प॒र्य॒तः॒ ।
उ॒भे इति॑ । सु॒ऽशि॒प्र॒ । रोद॑सी॒ इति॑ ॥१२
अध । ते । अप्रतिऽस्कुतम् । देवी इति । शुष्मम् । सपर्यतः ।
उभे इति । सुऽशिप्र । रोदसी इति ॥१२
हे “सुशिप्र सुहनो शोभनशिरस्त्राणेन्द्र “अध अपि च “देवी देव्यौ स्वतेजसा दीप्यमाने “उभे “रोदसी द्यावापृथिव्यौ “अप्रतिष्कुतम् । स्कु इति सौत्रो धातुः स्तम्भने वर्तते । शत्रुभिरप्रतिरोधनीयं “ते त्वदीयं “शुष्मं परबलशोषकं बलं “सपर्यतः पूजयतः । त्वदधीने एव भवतः ॥
त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च ।
परु॑ष्णीषु॒ रुश॒त्पय॑ः ॥१३
त्वम् । ए॒तत् । अ॒धा॒र॒यः॒ । कृ॒ष्णासु॑ । रोहि॑णीषु । च॒ ।
परु॑ष्णीषु । रुश॑त् । पयः॑ ॥१३
त्वम् । एतत् । अधारयः । कृष्णासु । रोहिणीषु । च ।
परुष्णीषु । रुशत् । पयः ॥१३
अस्य सामर्थ्यमेवोपपादयति । हे इन्द्र “कृष्णासु कृष्णवर्णासु गोषु तथा “रोहिणीषु । ‘ वर्णादनुदात्तात्तोपधात्तो नः' (पा. सू. ४. १. ३९) इति ङीप् । रोहितवर्णासु “च गोषु "रुशत् । रोचतेर्दीप्तिकर्मणः । दीप्यमानं श्वेतम् “एतत् परिदृश्यमानं “पयः क्षीरं “त्वम् “अधारयः धारयसि । तस्मात्त्वद्बलं पूजयत इति समन्वयः ॥
वि यदहे॒रध॑ त्वि॒षो विश्वे॑ दे॒वासो॒ अक्र॑मुः ।
वि॒दन्मृ॒गस्य॒ ताँ अम॑ः ॥१४
वि । यत् । अहेः॑ । अध॑ । त्वि॒षः । विश्वे॑ । दे॒वासः॑ । अक्र॑मुः ।
वि॒दत् । मृ॒गस्य॑ । तान् । अमः॑ ॥१४
वि । यत् । अहेः । अध । त्विषः । विश्वे । देवासः । अक्रमुः ।
विदत् । मृगस्य । तान् । अमः ॥१४
“अध अपि च "अहेः अहन्तव्यस्य वृत्रासुरस्य “त्विषः तेजोरूपादुच्छ्वासाद्भीताः यद्वा तस्य प्रभावेन परिगमिताः “विश्वे सर्वे “देवासः देवाः “यत् यदा “वि "अक्रमुः विविधं पादविहरणमकुर्वन् । स्वस्थानं परित्यज्यान्यं देशमगच्छन्नित्यर्थः । तदानीं “मृगस्य । एवं तान् भीषयितुं वृत्रो मृगरूपोऽभवत् । तद्रूपस्य संबन्धि “अमः सर्वतो गमनशीलं बलं तज्जातं भयं वा “तान् सर्वान् देवान् “विदत् अविन्दत् । प्राप्नोदित्यर्थः । तस्यासुरस्येन्द्रो निवारको हन्ताभवदित्युत्तरेण संबन्धः ॥
आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य॑म् ।
अजा॑तशत्रु॒रस्तृ॑तः ॥१५
आत् । ऊं॒ इति॑ । मे॒ । नि॒ऽव॒रः । भु॒व॒त् । वृ॒त्र॒ऽहा । अ॒दि॒ष्ट॒ । पौंस्य॑म् ।
अजा॑तऽशत्रुः । अस्तृ॑तः ॥१५
आत् । ऊं इति । मे । निऽवरः । भुवत् । वृत्रऽहा । अदिष्ट । पौंस्यम् ।
अजातऽशत्रुः । अस्तृतः ॥१५
“आदु इत्यवधारणे । देवानां भीत्या सर्वतो गमनानन्तरमेव “मे स्तोतृस्तुत्यलक्षणेन संबन्धेन मम संबन्ध्ययमिन्द्रः "निवरः वृत्रासुरस्य निवारयिता हन्ता “भुवत् अभवत् । ततः “वृत्रहा वृत्रस्य हन्तेन्द्रः “पौंस्यम् । पुंसः कर्म पौंस्यम् । यद्वा । स्त्रीपुंसाभ्याम् (पा. सू. ४. १. ८७ ) इति भवार्थे स्रञ् । नकारस्य यकारो वर्णव्यत्ययेन । पुंसीन्द्रे भवम् । यद्वा । बलनामैतत् । स्वबलम् ।। “अदिष्ट तस्य राज्ये दिशति निदधाति । तद्राज्यं स्ववशमकरोदित्यर्थः । ततः प्रभृतीन्द्रः “अजातशत्रुः अनुत्पन्नशत्रुः "अस्तृतः संग्रामे परैरहिंसितश्चाभवत् ॥ ॥ २३ ॥
श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।
आ शु॑षे॒ राध॑से म॒हे ॥१६
श्रु॒तम् । वः॒ । वृ॒त्र॒हन्ऽत॑मम् । प्र । शर्ध॑म् । च॒र्ष॒णी॒नाम् ।
आ । शु॒षे॒ । राध॑से । म॒हे ॥१६
श्रुतम् । वः । वृत्रहन्ऽतमम् । प्र । शर्धम् । चर्षणीनाम् ।
आ । शुषे । राधसे । महे ॥१६
हे ऋत्विग्यष्टारः “श्रुतं बलवत्तया प्रसिद्धमत एव “वृत्रहन्तमम् अतिशयेन वृत्रहन्तारं "शर्धं बलभूतं वेगवन्तं वा एतादृशमिन्द्रं “चर्षणीनां मनुष्याणां “वः युष्माकम् “आशुषे । अश्नोतेर्लेट्युत्तम इटि सिप् । व्यत्ययेनोप्रत्ययः । ‘बहुलं छन्दसि' इत्यडागमः । तमिन्द्रं स्तुतिभिः प्रीणयित्वा युष्मभ्यं प्रकर्षेणाश्नवै । प्रयच्छामीत्यर्थः । किमर्थम्। “महे महते "राधसे धनाय धनं युष्मभ्यं दातुम् ॥
अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत ।
यत्सोमे॑सोम॒ आभ॑वः ॥१७
अ॒या । धि॒या । च॒ । ग॒व्य॒ऽया । पुरु॑ऽनामन् । पुरु॑ऽस्तुत ।
यत् । सोमे॑ऽसोमे । आ । अभ॑वः ॥१७
अया । धिया । च । गव्यऽया । पुरुऽनामन् । पुरुऽस्तुत ।
यत् । सोमेऽसोमे । आ । अभवः ॥१७
हे "पुरुनामन् बहुविधशक्रवृत्रहादिनामोपेत । यद्वा । बहुस्तुतिमन् । नामयन्ति स्तुत्यं देवं वशं नयन्तीति नाम स्तोत्रम् । अत एव “पुरुष्टुत बहुभिरभिष्टुतेन्द्र “सोमेसोमे अस्मदीयेषु सोमेषु त्वं यदा “आभवः तेषां पानार्थं समन्तादभवः तदा वयम् “अया अनया । कीदृश्या । “गव्यया गा आत्मन इच्छन्त्या “धिया अनया बुद्ध्या युक्ता भवेम । सोमं पीतवति त्वयि वयं गवादियुक्ता भवेमेत्यर्थः ॥
बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या॑सुतिः ।
शृ॒णोतु॑ श॒क्र आ॒शिष॑म् ॥१८
बो॒धित्ऽम॑नाः । इत् । अ॒स्तु॒ । नः॒ । वृ॒त्र॒ऽहा । भूरि॑ऽआसुतिः ।
शृ॒णोतु॑ । शु॒क्रः । आ॒ऽशिष॑म् ॥१८
बोधित्ऽमनाः । इत् । अस्तु । नः । वृत्रऽहा । भूरिऽआसुतिः ।
शृणोतु । शुक्रः । आऽशिषम् ॥१८
अयं परोक्षकृतः । “वृत्रहा वृत्रहन्ता “भूर्यासुतिः । बहुषु देशेष्विन्द्रार्थं सोम आसूयतेऽभिषूयत इति तादृशः । यद्वा । बहूनि सोमादिहवींषीन्द्रार्थमासूयन्ते हूयन्त इति तादृशः । "बोधिन्मनाः । ‘ बुध अवगमने' । औणादिक इतिप्रत्ययः । यस्य मनः स्तोतॄणामभिमतं बुध्यते जानातीति तथोक्तः । “इत् अवधारणे। “नः अस्माकं बोधिन्मना एव "अस्तु । सर्वदास्मदभीप्सितानि जानात्वेवेत्यर्थः । यद्वा । एतादृश इन्द्रो नोऽस्माकं यज्ञे भवत्विति । ततः “शक्रः संग्रामे शत्रुहननसमर्थ इन्द्रः “आशिषम् अस्मदीयां स्तुतिमाशासनं वा “शृणोतु ।।
ज्योतिष्टोमे चातुर्विंशिकेऽहनि माध्यंदिने मैत्रावरुणस्य ‘कया त्वं न ऊत्या' इति तृचोऽनुरूपः। सूत्रितं च -- होत्रकाणां कया नश्चित्र आ भुवत् कया त्वं न ऊत्या' (आश्व. श्रौ. ७. ४) इति ॥
कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् ।
कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥१९
कया॑ । त्वम् । नः॒ । ऊ॒त्या । अ॒भि । प्र । म॒न्द॒से॒ । वृ॒ष॒न् ।
कया॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥१९
कया । त्वम् । नः । ऊत्या । अभि । प्र । मन्दसे । वृषन् ।
कया । स्तोतृऽभ्यः । आ । भर ॥१९
हे “वृषन् कामानां वर्षितरिन्द्र “कया केन “ऊत्या । अव रक्षणादिषु गत्यर्थे । ऊतियूति' इत्यादिना निपातितः । केनाभिगमनेन “नः अस्मान् “अभि अभितः “प्र “मन्दसे प्रकर्षेण मादयसि । अस्मदीयं यज्ञं प्रति सोमपानार्थमागमनेन वा त्वदीयस्तुतिश्रवणार्थमागमनेन वा कदास्मान् प्रमादयसीति । किंच “कया केनाभिगमनेन “स्तोतृभ्यः अस्मभ्यं धनम् “आ “भर आबिभर्षीतीन्द्रं स्तोता पृच्छति ॥
कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ॥२०
कस्य॑ । वृषा॑ । सु॒ते । सचा॑ । नि॒युत्वा॑न् । वृ॒ष॒भः । र॒ण॒त् ।
वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥२०
कस्य । वृषा । सुते । सचा । नियुत्वान् । वृषभः । रणत् ।
वृत्रऽहा । सोमऽपीतये ॥२०
“वृषा इन्द्रः “कस्य यजमानस्य "सचा "सुते ऋग्भिः सहाभिषुते सोमे । अनेन तद्वान् यज्ञो लक्ष्यते । कस्य यज्ञे “सोमपीतये सोमपानाय तदर्थं "रणत् रमते । कीदृशः । “नियुत्वान् । नितरां युवन्ति मिश्रयन्ति स्वबलेन शत्रूनिति नियुतो मरुतः । तद्वान् । यद्वा । नियुत इति वायोर्वाहनाश्वाः । स वायुः कदाचित् संग्राम इन्द्राय स्वाश्वानदात् । तद्वान् । “वृषभः धनानामपां वा वर्षकः “वृत्रहा वृत्रस्य हन्तेन्द्रः कस्य यज्ञे रमते । इदानीं नोऽस्मदीयं यागं प्रत्यागच्छतु । यद्वा । कस्याध्वरे रमते । न कुत्रापि । किंत्वस्मद्यज्ञ एव सोमपानार्थं संक्रीडते ॥ ॥ २४ ॥
अ॒भी षु ण॒स्त्वं र॒यिं म॑न्दसा॒नः स॑ह॒स्रिण॑म् ।
प्र॒य॒न्ता बो॑धि दा॒शुषे॑ ॥२१
अ॒भि । सु । नः॒ । त्वम् । र॒यिम् । म॒न्द॒सा॒नः । स॒ह॒स्रिण॑म् ।
प्र॒ऽय॒न्ता । बो॒धि॒ । दा॒शुषे॑ ॥२१
अभि । सु । नः । त्वम् । रयिम् । मन्दसानः । सहस्रिणम् ।
प्रऽयन्ता । बोधि । दाशुषे ॥२१
हे इन्र्ो “त्वं “मन्दसानः अस्माभिर्दत्तेन सोमेन मोदमानः सन् "सहस्रिणं सहस्रसंख्याकं धनं “नः अस्मभ्यं "सु सुष्ठु “अभि आभर । तदेवाह । त्वं “दाशुषे हविर्दत्तवते यजमानाय “प्रयन्ता धनादेः प्रदाता कर्मणो नियन्ता वा भवानीति "बोधि बुध्यस्व । ‘बुध अवगमने'। भौवादिकः । लोटि छान्दसो विकरणस्य लुक् । हेर्धिः। धित्वे धकारलोपश्छान्दसः ॥
पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।
अ॒पां जग्मि॑र्निचुम्पु॒णः ॥२२
पत्नी॑ऽवन्तः । सु॒ताः । इ॒मे । उ॒शन्तः॑ । य॒न्ति॒ । वी॒तये॑ ।
अ॒पाम् । जग्मिः॑ । नि॒ऽचु॒म्पु॒णः ॥२२
पत्नीऽवन्तः । सुताः । इमे । उशन्तः । यन्ति । वीतये ।
अपाम् । जग्मिः । निऽचुम्पुणः ॥२२
"पत्नीवन्तः । सोमसेकार्थे पत्न्यः पालयित्र्य आपो वसतीवर्य एकधनाश्च । तद्वन्तः “सुताः अस्माभिरभिषुताः “इमे ग्रहस्थाश्चमसस्थाश्च सोमाः “उशन्तः आत्मनः पानं कामयमानाः सन्तः “यन्ति इन्द्रं गच्छन्ति । किमर्थम् । “वीतये आत्मनः पानाय । किंच “निचुम्पुणः । ‘ निचान्तपृणः । (निरु. ५. १७) इति यास्कः । ‘चमु अदने'। निचान्तो भक्षितः पृणः प्रीणयिता । यद्वा । ‘ निचमनेन प्रीणाति' इति भक्षणेन तर्पयतीति निचुम्पुणः । अभिषुतस्य सोमस्याप्सु प्रक्षेपासंभवात् सामर्थ्यादृजीषरूपः सोमो गृह्यते । तादृशः सोमः “अपां “जग्मिः । अपामिति 'न लोकाव्यय इति षष्ठीप्रतिषेधाभावश्छान्दसः । अप इत्यर्थः । यद्वा । अपां मध्यं वापः प्रति वा जग्मिर्गमनशीलः साधुगन्ता वा । सोमश्चेन्द्रं गच्छति । स ह्यवभृथकाल ऋजीषमप्सु प्रास्यन्तीति वचनादप्स्वृजीषरूपः प्रक्षिप्यते । तदाह अपां जग्मिरिति ।
इ॒ष्टा होत्रा॑ असृक्ष॒तेन्द्रं॑ वृ॒धासो॑ अध्व॒रे ।
अच्छा॑वभृ॒थमोज॑सा ॥२३
इ॒ष्टाः । होत्राः॑ । अ॒सृ॒क्ष॒त॒ । इन्द्र॑म् । वृ॒धासः॑ । अ॒ध्व॒रे ।
अच्छ॑ । अ॒व॒ऽभृ॒थम् । ओज॑सा ॥२३
इष्टाः । होत्राः । असृक्षत । इन्द्रम् । वृधासः । अध्वरे ।
अच्छ । अवऽभृथम् । ओजसा ॥२३
अपां जग्मिरिति सामर्थ्यादवभृथदिन एव ---- र - वि- जः कुर्वन्तीत्युक्तम् । तत्प्रसङ्गादाह । “अध्वरे अस्मदीये यज्ञे “वृधासः हविर्भिरिन्द्रं वर्धयन्तः “इष्टाः इष्टवन्तो यागं कृतवन्तः सप्तसंख्याकाः “होत्राः होत्रकाः “अवभृथम् अन्त्यदिवसम् “अच्छ प्रति “ओजसा स्वतेजसा सहिताः “इन्द्रम् “असृक्षत विसृजन्ति । यावदवभृथं सप्तहोत्रका यजन्तीति ॥
इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर॑ण्यकेश्या ।
वो॒ळ्हाम॒भि प्रयो॑ हि॒तम् ॥२४
इ॒ह । त्या । स॒ध॒ऽमाद्या॑ । हरी॒ इति॑ । हिर॑ण्यऽकेश्या ।
वो॒ळ्हाम् । अ॒भि । प्रयः॑ । हि॒तम् ॥२४
इह । त्या । सधऽमाद्या । हरी इति । हिरण्यऽकेश्या ।
वोळ्हाम् । अभि । प्रयः । हितम् ॥२४
एषा व्याख्याता (ऋ. सं. ८. ३२. २९ ) । अत्रापि वाक्यार्थो विधीयते । “सधमाद्या इन्द्रेण सह हविर्भिस्तर्पयितव्यौ यद्वा संग्रामे सह माद्यन्तौ “हिरण्यकेश्या हिरण्मयस्कन्धगतकेशवन्तौ “त्या तौ प्रसिद्धौ “हरी हरितवर्णावेतन्नामकावश्वौ "इह अस्मिन् यज्ञे “हितं - - वादिषु निहितं हितकरं वा “प्रयः हवीरूपमन्नमभिलक्ष्य “वोळ्हाम् इन्द्रं वहताम् । प्रापयतामिति ॥
तुभ्यं॒ सोमा॑ः सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।
स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥२५
तुभ्य॑म् । सोमाः॑ । सु॒ताः । इ॒मे । स्ती॒र्णम् । ब॒र्हिः । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । आ । व॒ह॒ ॥२५
तुभ्यम् । सोमाः । सुताः । इमे । स्तीर्णम् । बर्हिः । विभावसो इति विभाऽवसो ।
स्तोतृऽभ्यः । इन्द्रम् । आ । वह ॥२५
हे “विभावसो विशेषेण भासमानवसुमन् । यद्वा । विशिष्टा भा विभाः प्रकृष्टदीप्तयः । ता निवसन्त्यत्रेति विभावसुरग्निः । हे तादृशाग्ने “तुभ्यं त्वदर्थम् “इमे “सोमाः “सुताः अभिषुताः । तथा “बर्हिः “स्तीर्णम् । तस्मात् “स्तोतृभ्यः अस्मभ्यमस्मदर्थम् “इन्द्रं सोमपानार्थम् “आ “वह आह्वय । यज्ञे प्रति प्रापयेत्यर्थः ॥ ॥ २५ ॥
आ ते॒ दक्षं॒ वि रो॑च॒ना दध॒द्रत्ना॒ वि दा॒शुषे॑ ।
स्तो॒तृभ्य॒ इन्द्र॑मर्चत ॥२६
आ । ते॒ । दक्ष॑म् । वि । रो॒च॒ना । दध॑त् । रत्ना॑ । वि । दा॒शुषे॑ ।
स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । अ॒र्च॒त॒ ॥२६
आ । ते । दक्षम् । वि । रोचना । दधत् । रत्ना । वि । दाशुषे ।
स्तोतृऽभ्यः । इन्द्रम् । अर्चत ॥२६
ऋषिर्ऋत्विग्यजमानान् प्रत्याह । हे यष्टः “दाशुषे इन्द्राय हविर्दत्तवते “ते तुभ्यं “रोचना रोचनं दीप्यमानं “दक्षं बलम् “आ आभिमुख्येन “वि “दधत् इन्द्रो विदधातु । यद्वा । रोचनमिति स्वर्गः । देवतेजसा दीप्तं रोचननामानं लोकं विदधातु । तथा “रत्ना रत्नानि च तुभ्यं करोतु ।' डुधाञ् धारणपोषणयोः'। लेटि ‘घोर्लोपो लेटि वा' (पा. सू. ७. ३. ७० ) इत्याकारलोपः । अडागमः । हे स्तोतारः “स्तोतृभ्यः इन्द्रविषयस्तोत्रकारिभ्यो युष्मभ्यं च बलरत्नादिकमिन्द्रः कुरुताम्। तस्मात् तम् “इन्द्रं यूयम् “अर्चत हविर्भिः स्तुतिभिश्च पूजयत ॥
आ ते॑ दधामीन्द्रि॒यमु॒क्था विश्वा॑ शतक्रतो ।
स्तो॒तृभ्य॑ इन्द्र मृळय ॥२७
आ । ते॒ । द॒धा॒मि॒ । इ॒न्द्रि॒यम् । उ॒क्था । विश्वा॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
स्तो॒तृऽभ्यः॑ । इ॒न्द्र॒ । मृ॒ळ॒य॒ ॥२७
आ । ते । दधामि । इन्द्रियम् । उक्था । विश्वा । शतक्रतो इति शतऽक्रतो ।
स्तोतृऽभ्यः । इन्द्र । मृळय ॥२७
हे “शतक्रतो इन्द्र “ते तव “इन्द्रियं वीर्यवन्तं सोमं “विश्वा “उक्था सर्वाणि स्तोत्राणि “आ "दधामि संपादयामि । हे "इन्द्र त्वं “स्तोतृभ्यः “मृळय सुखय ।।
भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥२८
भ॒द्रम्ऽभ॑द्रम् । नः॒ । आ । भ॒र॒ । इष॑म् । ऊर्ज॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥२८
भद्रम्ऽभद्रम् । नः । आ । भर । इषम् । ऊर्जम् । शतक्रतो इति शतऽक्रतो ।
यत् । इन्द्र । मृळयासि । नः ॥२८
हे “शतक्रतो शतविधकर्मन् शतप्रज्ञ वा “इन्द्र “भद्रंभद्रं कल्याणतममथ सुखोत्पादकं वा धनं “नः अस्मभ्यम् “आ “भर आसंपादय देहि । तथा “इषम् अन्नम् “ऊर्जम् अन्नरसं यद्वा बलवदन्नं च देहि । “नः अस्मान् “यत् यदि “मृळयासि सुखयसि तर्हि तद्धनादिकं देहीति । ‘मृड सुखने'। ण्यन्तस्य लेट्याडागमः ॥
स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥२९
सः । नः॒ । विश्वा॑नि । आ । भ॒र॒ । सु॒वि॒तानि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥२९
सः । नः । विश्वानि । आ । भर । सुवितानि । शतक्रतो इति शतऽक्रतो ।
यत् । इन्द्र । मृळयासि । नः ॥२९
हे “शतक्रतो इन्द्र “सः पूर्वोक्तलक्षणस्त्वं “विश्वानि सर्वाणि "सुवितानि । सुष्ठ्वीयते प्राप्यते येष्विति सुवितानि मङ्गलानि । सुपूर्वादेतेः क्ते प्रत्यये उवङादेशः । सर्वानभ्युदयान् “नः अस्मभ्यमाहर । हे "इन्द्र यदि “नः अस्मान् सुखयसि तर्हि धनादिसहितानभ्युदयान् देहीति ॥
त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥३०
त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥३०
त्वाम् । इत् । वृत्रहन्ऽतम । सुतऽवन्तः । हवामहे ।
यत् । इन्द्र । मृळयासि । नः ॥३०
हे “वृत्रहन्तम अतिशयेन वृत्रस्यापामावरकस्य हन्तरिन्द्र “सुतवन्तः अभिषुतसोमवन्तो वयम् । इदवधारणे' । “त्वामित् त्वामेव “हवामहे । अस्मद्यज्ञमागत्य सोमपानायाह्वयामः । हे “इन्द्र “नः अस्मान् यदि सुखयसि तर्ह्याह्वयाम इति ॥ ॥ २६ ॥
व्यूळ्हस्य दशरात्रस्य षष्ठेऽहनि निष्केवल्ये ‘उप नो हरिभिः' इति तृचो निविद्धानीयः । सूत्रितं च --- अयं ह येन वा इदमुप नो हरिभिः सुतम् ' ( आश्व. श्रौ. ८. ८) इति ॥
उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥३१
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् । या॒हि । म॒दा॒ना॒म् । प॒ते॒ ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥३१
उप । नः । हरिऽभिः । सुतम् । याहि । मदानाम् । पते ।
उप । नः । हरिऽभिः । सुतम् ॥३१
हे "मदानां “पते । माद्यन्तेऽनेनेति मदाः सोमाः। ‘मदोऽनुपसर्गे' इति करणेऽप्प्रत्ययः । सोमानां स्वामिन्निन्द्र “हरिभिः ‘आ शतेन हरिभिः' (ऋ. सं. २.१८.६ ) इत्यादिषु बहूनामश्वानां श्रुतेरत्रापि शतसहस्रसंख्याकैरश्वैः सह “नः अस्माकं यज्ञे “सुतम् अभिषुतं सोमम् “उप याहि । तत्पानार्थं शीघ्रमायाहि । पुनः “उप "नः इत्यादरार्थः ॥
द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्र॑ः श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥३२
द्वि॒ता । यः । वृ॒त्र॒हन्ऽत॑मः । वि॒दे । इन्द्रः॑ । श॒तऽक्र॑तुः ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥३२
द्विता । यः । वृत्रहन्ऽतमः । विदे । इन्द्रः । शतऽक्रतुः ।
उप । नः । हरिऽभिः । सुतम् ॥३२
“वृत्रहन्तमः अतिशयेन वृत्रस्य हन्ता “शतक्रतुः नानाविधकर्मा “यः “इन्द्रः “द्विता द्विधा “विदे वृत्रवधादावुग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति द्विप्रकारेण सर्वैर्ज्ञायते । “विद ज्ञाने'। कर्मणि विहितस्य तप्रत्ययस्य लोपस्त आत्मनेपदेषु' इति तलोपः । स त्वं “हरिभिः सह "सुतं सोममुपयाहि ॥
त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥३३
त्वम् । हि । वृ॒त्र॒ऽह॒न् । ए॒षा॒म् । पा॒ता । सोमा॑नाम् । असि॑ ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥३३
त्वम् । हि । वृत्रऽहन् । एषाम् । पाता । सोमानाम् । असि ।
उप । नः । हरिऽभिः । सुतम् ॥३३
हे “वृत्रहन् वृत्रस्य पापस्य वा हन्तरिन्द्र । हिशब्दो हेत्वर्थे। यस्मात् “त्वम् “एषाम् अस्मदीयानां “सोमानां “पाता पानकर्ता “असि भवसि । एषाम् इति इदमोऽन्वादेशे अशोदेशोऽनुदात्तश्च । अतस्त्वम् अश्वैः सह सोमं पातुमुपयाहि आगच्छ ॥
व्यूळ्हस्य दशरात्रस्य नवमेऽहनि वैश्वदेवे अभिप्लवतृचस्य ‘इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तन' इति द्वे ऋचावार्भव्यौ । सूत्रितं च- इन्द्र इषे ददातु नस्ते नो रत्नानि धत्तनेत्येका द्वे व (आश्व. श्रौ. ८. ११ ) इति ॥
इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।
वा॒जी द॑दातु वा॒जिन॑म् ॥३४
इन्द्रः॑ । इ॒षे । द॒दा॒तु॒ । नः॒ । ऋ॒भु॒क्षण॑म् । ऋ॒भुम् । र॒यिम् ।
वा॒जी । द॒दा॒तु॒ । वा॒जिन॑म् ॥३४
इन्द्रः । इषे । ददातु । नः । ऋभुक्षणम् । ऋभुम् । रयिम् ।
वाजी । ददातु । वाजिनम् ॥३४
“इन्द्रः एवास्माभिः स्तुत इष्टः सन् "ऋभुक्षणम् । ‘वा षपूर्वस्य' इति दीर्घाभावः । यागादिकर्मकरणेन महान्तं सर्वेषां भ्रातॄणां श्रेष्ठं वा । अथवा तृतीयसवने प्रजापतिसवित्रोर्मध्ये सोमपातृत्वात् महान्तम् । “रयिं दातारम् “ऋभुं सोमपानेनामर्त्यत्वं प्राप्तं तादृशमेतन्नामकं देवं “नः अस्मभ्यम् “इषे अन्नार्थं “ददातु प्रयच्छतु । तथा “वाजी बलवानिन्द्रः “वाजिनं बलवन्तमन्नवन्तं वा वाजनामानं कनीयांसं भ्रातरं च अस्माकमन्नलाभाय “ददातु ॥ ॥ २७ ॥ ॥ ९ ॥
टिप्पणी
मण्डल ८ | ||||||
---|---|---|---|---|---|---|