सामवेदः/कौथुमीया/संहिता/ग्रामगेयः/प्रपाठकः ०५/गौतमस्य भद्रं(भद्रंभद्रं)

विकिस्रोतः तः

[[File:गौतमस्य भद्रम्(भद्रंभद्रं).jpg|thumb|700px|गौतमस्य भद्रम्।।

भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो ।
यदिन्द्र मृडयासि नः ॥ १७३ ॥ ऋ. ८.९३.२८

(१७३।१)
॥ गौतमस्य भद्रं । गोतमो गायत्रीन्द्रः ॥
भद्रंभाद्राम् ॥ नआभाऽ२३राऽ३ । आइषामूर्जाम् ॥ शतक्राऽ२३ताऽ३उ ॥ यादिन्द्रामॄ ॥
डाs२याऽ२३४औहोवा ॥ सीऽ२३४नाः ॥
( दी० ३ | प० ७ । मा० ७) ३० (ठे । ३११ )

[सम्पाद्यताम्]

टिप्पणी

तासु गोतमस्य भद्रम् (इमा नु कं इति)। गोतमो वै श्रीकामस् तपो ऽतप्यत। स एतत् सामापश्यत्। तेनास्तुत। ततो वै स श्रियम् आश्नुत। तच् छ्रीर् वै भद्रम्। प्रजा वै भद्रम्। प्रजायै या प्रजा सा श्रेयः। अपि ह प्रजायै प्रजां पश्यते य एवं वेद। यद् उ गोतमो ऽपश्यत् तस्माद् गोतमस्य भद्रम् इत्य् आख्यायते। - जैब्रा ३.१७२

भद्रं साम(ऊह्यगानम्)