ऋग्वेदः सूक्तं ८.८७
← सूक्तं ८.८६ | ऋग्वेदः - मण्डल ८ सूक्तं ८.८७ कृष्ण आङ्गिरसो, वासिष्ठो वा द्युम्नीकः, प्रियमेध आङ्गिरसो वा। |
सूक्तं ८.८८ → |
दे. अश्विनौ । प्रगाथः ( विषमा बृहती, समा सतोबृहती ) |
द्युम्नी वां स्तोमो अश्विना क्रिविर्न सेक आ गतम् ।
मध्वः सुतस्य स दिवि प्रियो नरा पातं गौराविवेरिणे ॥१॥
पिबतं घर्मं मधुमन्तमश्विना बर्हिः सीदतं नरा ।
ता मन्दसाना मनुषो दुरोण आ नि पातं वेदसा वयः ॥२॥
आ वां विश्वाभिरूतिभिः प्रियमेधा अहूषत ।
ता वर्तिर्यातमुप वृक्तबर्हिषो जुष्टं यज्ञं दिविष्टिषु ॥३॥
पिबतं सोमं मधुमन्तमश्विना बर्हिः सीदतं सुमत् ।
ता वावृधाना उप सुष्टुतिं दिवो गन्तं गौराविवेरिणम् ॥४॥
आ नूनं यातमश्विनाश्वेभिः प्रुषितप्सुभिः ।
दस्रा हिरण्यवर्तनी शुभस्पती पातं सोममृतावृधा ॥५॥
वयं हि वां हवामहे विपन्यवो विप्रासो वाजसातये ।
ता वल्गू दस्रा पुरुदंससा धियाश्विना श्रुष्ट्या गतम् ॥६॥
सायणभाष्यम्
‘द्युम्नी वाम् ' इति षडृचं सप्तमं सूक्तम् । तथा चानुक्रम्यते- द्युम्नी षड्वासिष्ठो वा द्युम्नीकः प्रियमेधो वा प्रागाथं ह ' इति । वसिष्ठपुत्रो द्युम्नीक ऋषिराङ्गिरसः प्रियमेधो वा । उभयत्र वाशब्दाद्यदोभावपि न स्यातां तदा प्रकृत आङ्गिरसः कृष्ण एव ऋषिः । अयुजो बृहत्यो युजः सतोबृहत्यः । अश्विनौ देवता । प्रातरनुवाके आश्विने क्रतौ बार्हते छन्दस्याश्विनशस्त्रे चेदं सूक्तम् । सूत्रितं च – ' द्युम्नी वां यत्स्थ इति बार्हतम् ' ( आश्व. श्रौ. ४. १५) इति ॥
द्यु॒म्नी वां॒ स्तोमो॑ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तं ।
मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ॥१
द्यु॒म्नी । वा॒म् । स्तोमः॑ । अ॒श्वि॒ना॒ । क्रिविः॑ । न । सेके॑ । आ । ग॒त॒म् ।
मध्वः॑ । सु॒तस्य॑ । सः । दि॒वि । प्रि॒यः । न॒रा॒ । पा॒तम् । गौ॒रौऽइ॑व । इरि॑णे ॥१
द्युम्नी । वाम् । स्तोमः । अश्विना । क्रिविः । न । सेके । आ । गतम् ।
मध्वः । सुतस्य । सः । दिवि । प्रियः । नरा । पातम् । गौरौऽइव । इरिणे ॥१
हे “अश्विना अश्विनौ अयमनुपक्षीणस्तोत्रो द्युम्नीक एतन्नामक ऋषिः "वां युवयोः “स्तोमः स्तोता भवति । युष्मत्स्तुतौ कृतायां स्तोत्राणि नाल्पीभवन्ति किंतु पुनर्वर्धन्त इत्यर्थः। तत्र दृष्टान्तः । “क्रिविर्न । क्रिविरिति कूपनाम । कूपो यथा “सेके उदकसेचने वृष्टौ भवन्त्यां नाल्पोदको' भवति तद्वत् । यद्वा । वां युवयोः स्तोमो युष्मद्विषया स्तुतिर्द्युम्न्यन्नवती खलु । स्तोत्रे कृते तस्मा अन्नादिकं प्रयच्छत इत्यर्थः । तस्माद्युवामस्मदीयं यज्ञं प्रति “आ “गतम् । स्तोत्राणि श्रोतुमागच्छतम् । हे “नरा नरौ नेतारावश्विनौ “सः अयं स्तोता दिवि द्योतमाने अस्मिन् यज्ञे “सुतस्य अभिषुतस्य “मध्वः मदकरस्य सोमस्य “प्रियः स्तोत्रकारित्वेन प्रियतमो भवति । ततस्तेन सुतं सोमं “पातं युवां शीघ्रमागत्य पिबतम् । तत्र दृष्टान्तः । “गौराविव यथा तृषितौ गौरावेतन्नामको मृगौ “इरिणे तटाकादिषूदकपानार्थं शीघ्रमागच्छतस्तद्वत् ॥
पिब॑तं घ॒र्मं मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं नरा ।
ता मं॑दसा॒ना मनु॑षो दुरो॒ण आ नि पा॑तं॒ वेद॑सा॒ वयः॑ ॥२
पिब॑तम् । घ॒र्मम् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । न॒रा॒ ।
ता । म॒न्द॒सा॒ना । मनु॑षः । दु॒रो॒णे । आ । नि । पा॒त॒म् । वेद॑सा । वयः॑ ॥२
पिबतम् । घर्मम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । नरा ।
ता । मन्दसाना । मनुषः । दुरोणे । आ । नि । पातम् । वेदसा । वयः ॥२
हे अश्विना अश्विनौ “मधुमन्तं मदवन्तम् । मदकारिणमित्यर्थः। तादृशं रसवन्तं वा “घर्मम् । ‘घृ क्षरणदीप्त्योः ' । पात्रेषु क्षरन्तं सोमं “पिबतम् । यद्वा । मधुमन्तम् । मधुर्मदकरः सोमः तद्वन्तं घर्मं महावीरपात्रगतं क्षीरं पिबतं सोमं चेति । न तु साहचर्येण तदसंभवात् । हे “नरा नरौ नेतारौ सर्वस्य हे अश्विनौ “बर्हिः बर्हिषि यज्ञे “आ “सीदतम् उपविशतम् । यद्वा । पूर्वं द्वितीयं पादं व्याख्याय प्रथमपादो व्याख्येयः । उपसदनानन्तरं सोमपानं युक्तमिति । किंच “मनुषः मनुष्यस्य “दुरोणे गृहभूतेऽस्मिन् देवयजने “मन्दसाना सोमपानेन मोदमानौ “ता तौ पूर्वोक्तलक्षणौ युवां “वेदसा पुरोडाशादिलक्षणेन हविषा सह “वयः सोमरूपमन्नम् “आ आगत्य “नि “पातं निपिबतम् । यद्वा । वेदसा धनेन सह वयोऽस्माकमायुर्नि पातं नितरां रक्षतम् ॥
आ वां॒ विश्वा॑भिरू॒तिभिः॑ प्रि॒यमे॑धा अहूषत ।
ता व॒र्तिर्या॑त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं॑ य॒ज्ञं दिवि॑ष्टिषु ॥३
आ । वा॒म् । विश्वा॑भिः । ऊ॒तिऽभिः॑ । प्रि॒यऽमे॑धाः । अ॒हू॒ष॒त॒ ।
ता । व॒र्तिः । या॒त॒म् । उप॑ । वृ॒क्तऽब॑र्हिषः । जुष्ट॑म् । य॒ज्ञम् । दिवि॑ष्टिषु ॥३
आ । वाम् । विश्वाभिः । ऊतिऽभिः । प्रियऽमेधाः । अहूषत ।
ता । वर्तिः । यातम् । उप । वृक्तऽबर्हिषः । जुष्टम् । यज्ञम् । दिविष्टिषु ॥३
हे अश्विनौ “प्रियमेधाः । मेधो यज्ञः । प्रियतमयज्ञा यजमानाः । यद्वा । प्रियमेधा एतन्नामक ऋषिः । पूजायां बहुवचनम् । यष्टार ऋषिर्वा “विश्वाभिरूतिभिः सर्वैः पालनैः सह । अथवा अवतिः याञ्चाकर्मा । सर्वैरभिलषितयाचनैः सहिताः "अहूषत आह्वासिषुः आह्वासीत् । आत्मनः पालनहेतुकत्वेन । यद्वाभिलषितदानाय वामाह्वयन्ति । “ता तौ युवां “वृक्तबर्हिषः आस्तरणार्थं छिन्नबर्हिषो यष्टुः संबन्धि जुष्टं सर्वैर्देवैः सेवितं पर्याप्तं वा “यज्ञं यजनीयं हविः प्रति “दिविष्टिषु दिवसानामह्नामागमनेषु प्रातःकालेषु यज्ञेषु वा “वर्तिः । वर्तन्तेऽत्रेति वर्तिगृहम् । तत् “उप “आ “यातं हविःस्वीकरणार्थं युवामागच्छतम् ॥
पिब॑तं॒ सोमं॒ मधु॑मंतमश्वि॒ना ब॒र्हिः सी॑दतं सु॒मत् ।
ता वा॑वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो गं॒तं गौ॒रावि॒वेरि॑णं ॥४
पिब॑तम् । सोम॑म् । मधु॑ऽमन्तम् । अ॒श्वि॒ना॒ । आ । ब॒र्हिः । सी॒द॒त॒म् । सु॒ऽमत् ।
ता । व॒वृ॒धा॒नौ । उप॑ । सु॒ऽस्तु॒तिम् । दि॒वः । ग॒न्तम् । गौ॒रौऽइ॑व । इरि॑णम् ॥४
पिबतम् । सोमम् । मधुऽमन्तम् । अश्विना । आ । बर्हिः । सीदतम् । सुऽमत् ।
ता । ववृधानौ । उप । सुऽस्तुतिम् । दिवः । गन्तम् । गौरौऽइव । इरिणम् ॥४
हे “अश्विना अश्विनौ “मधुमन्तं रसवन्तं मदवन्तं वा “सोमं युवां “पिबतम् । ततः "बर्हिः बर्हिषि यज्ञे “सुमत् शोभनम् “आ सीदतम् । पश्चात् "ववृधानौ सोमपानेन वृद्धौ "ता तौ युवां “दिवः द्युलोकात् "सुष्टुतिम् अस्माभिः क्रियमाणां शोभनां स्तुतिम् “उप गन्तं उपगच्छतम् । तत्र दृष्टान्तः । “गौराविव यथा गौरमृगावन्यस्माद्देशात् "इरिणं तटाकादिकं प्रति जलपानार्थमागच्छतस्तद्वत् ॥
आ नू॒नं या॑तमश्वि॒नाश्वे॑भिः प्रुषि॒तप्सु॑भिः ।
दस्रा॒ हिर॑ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ॥५
आ । नू॒नम् । या॒त॒म् । अ॒श्वि॒ना॒ । अश्वे॑भिः । प्रु॒षि॒तप्सु॑ऽभिः ।
दस्रा॑ । हिर॑ण्यवर्तनी॒ इति॒ हिर॑ण्यऽवर्तनी । शु॒भः॒ । प॒ती॒ इति॑ । पा॒तम् । सोम॑म् । ऋ॒त॒ऽवृ॒धा॒ ॥५
आ । नूनम् । यातम् । अश्विना । अश्वेभिः । प्रुषितप्सुऽभिः ।
दस्रा । हिरण्यवर्तनी इति हिरण्यऽवर्तनी । शुभः । पती इति । पातम् । सोमम् । ऋतऽवृधा ॥५
हे “अश्विना अश्विनौ युवां “प्रुषितप्सुभिः । प्सु इति रूपनाम । ' प्रुष स्नेहनसेचनपूरणेषु ' । स्निग्धरूपैः दीप्तरूपैरित्यर्थः । तादृशैः शीघ्रगामिभिरश्वैः सह “नूनम् इदानीम् "यातम् अस्मदीयं यज्ञं प्रत्यागच्छतम् । हे “दस्रा दस्रौ दर्शनीयावुपक्षपयितारौ वा हे “हिरण्यवर्तनी । वर्ततेऽत्रेति वर्तनी रथः । हिरण्मयरथौ हे “शुभस्पती उदकस्य कल्याणस्य वा पालयितारौ हे “ऋतावृधा सत्यस्य यज्ञस्य वा वर्धयितारौ हे अश्विनौ युवां शीघ्रमागत्य “सोमं “पातं पिबतम् ॥
व॒यं हि वां॒ हवा॑महे विप॒न्यवो॒ विप्रा॑सो॒ वाज॑सातये ।
ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तं ॥६
व॒यम् । हि । वा॒म् । हवा॑महे । वि॒प॒न्यवः॑ । विप्रा॑सः । वाज॑ऽसातये ।
ता । व॒ल्गू इति॑ । द॒स्रा । पु॒रु॒ऽदंस॑सा । धि॒या । अश्वि॑ना । श्रु॒ष्टी । आ । ग॒त॒म् ॥६
वयम् । हि । वाम् । हवामहे । विपन्यवः । विप्रासः । वाजऽसातये ।
ता । वल्गू इति । दस्रा । पुरुऽदंससा । धिया । अश्विना । श्रुष्टी । आ । गतम् ॥६
हे अश्विनौ “विपन्यवः स्तोतारः अत एव “विप्रासः विप्रा मेधाविनः “वयं “वाजसातये अन्नलाभाय “वाम् । हिरवधारणे । युवामेव “हवामहे स्तुतिभिराह्वयामः । ततः “वल्गू। वल्गनं कुशलगमनम् । कुशलगमनशीलौ “पुरुदंससा बहुकर्माणौ तौ युवां “धिया अस्मदीयया स्तुत्याहूतौ सन्तौ “श्रुष्टी । श्रुष्टीति क्षिप्रनाम । क्षिप्रमस्मभ्यं धनादिदानाय “आ “गतम् आगच्छतम् ॥ ॥१०॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|