ऋग्वेदः सूक्तं ८.८६
← सूक्तं ८.८५ | ऋग्वेदः - मण्डल ८ सूक्तं ८.८६ कृष्ण आङ्गिरसः, विश्वको वा कार्ष्णिः। |
सूक्तं ८.८७ → |
दे. अश्विनौ। जगती। |
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथुः ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥१॥
कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥२॥
युवं हि ष्मा पुरुभुजेममेधतुं विष्णाप्वे ददथुर्वस्यइष्टये ।
ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥३॥
उत त्यं वीरं धनसामृजीषिणं दूरे चित्सन्तमवसे हवामहे ।
यस्य स्वादिष्ठा सुमतिः पितुर्यथा मा नो वि यौष्टं सख्या मुमोचतम् ॥४॥
ऋतेन देवः सविता शमायत ऋतस्य शृङ्गमुर्विया वि पप्रथे ।
ऋतं सासाह महि चित्पृतन्यतो मा नो वि यौष्टं सख्या मुमोचतम् ॥५॥
सायणभाष्यम्
‘उभा हि दस्रा' इति पञ्चर्चं षष्ठं सूक्तम् । विश्वको नाम कृष्णस्य पुत्रः कृष्ण एव वर्षिः । जगती छन्दः । अश्विनौ देवता । तथानुक्रम्यते-- ’उभा हि पञ्च विश्वको वा कार्ष्णिर्जागतम्' इति । विनियोगो लिङ्गादवगन्तव्यः ॥
उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ ।
ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥१
उ॒भा । हि । द॒स्रा । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । उ॒भा । दक्ष॑स्य । वच॑सः । ब॒भू॒वथुः॑ ।
ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥१
उभा । हि । दस्रा । भिषजा । मयःऽभुवा । उभा । दक्षस्य । वचसः । बभूवथुः ।
ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥१
हे अश्विनौ “दस्रा दर्शनीयौ। यद्वा । ‘दसु उपक्षये'। सर्वेषां शत्रूणामुपक्षपयितारौ । “भिषजा देवानां वैद्यौ । यद्वा भीतीनां त्रासयितारौ। यदा नरा अश्विनौ स्तुवन्ति तदा तौ तेषां भीतिमपनयत इत्यर्थः । पृषोदरादित्वाद्रूपसिद्धिः । तादृशौ अत एव “मयोभुवा मयसः सुखस्य भावयितारौ “उभा परस्परं द्वित्वसंख्यापूरकौ “उभा उभौ द्वौ युवां “दक्षस्य एतन्नामस्य प्रजापतेः “वचसः स्तुतेः संबन्धिनौ बभूवथुः । “हि प्रसिद्धौ । पुरा युवां दक्षेणास्ताविषाथां खलु। “ता तादृशौ प्रशस्तौ “वां युवां “विश्वकः एतन्नामक ऋषिः तनूकृथे। तनोति कुलमिति तनूः पुत्रः । तस्य विष्णाप्वो निमित्तं “हवते स्तुतिभिराह्वयति । तस्मात् “नः अस्माकं “सख्या सख्यानि यष्ट्टयष्टव्यतया जातानि सखित्वानि “मा “वि “यौष्टं मा पृथकुरुतम् । यौतेर्लुङि सिचि रूपम्। किंच युवां “मुमोचतम् अस्मानागन्तुं रथे स्थित्वाश्वप्रग्रहान्मुञ्चतम् । मुञ्चतेर्लोटि ‘बहुलं छन्दसि' इति शपः श्लुः । अडागमः । अत्र विष्णापूनामानं पुत्रमुद्दिश्य तस्य पिता विश्वको युवामाह्वयतीत्यात्मानमाह । यद्वा । विश्वकस्य पिता कृष्णो नामर्षिर्मम पुत्रो विश्वकः पुत्रार्थं युवामधिह्वयतीति वदति ॥
क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये ।
ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥२
क॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये ।
ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥२
कथा । नूनम् । वाम् । विऽमनाः । उप । स्तवत् । युवम् । धियम् । ददथुः । वस्यःऽइष्टये ।
ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥२
हे अश्विनौ “विमनाः एतन्नामक ऋषिः “नूनं पुरा “कथा कथं “वां युवाम् “उप “स्तवत् कथमुपास्तौत् । तेन स्तुतौ “युवं युवां “वस्यइष्टये । वस्यो वसीयः प्रशस्तं धनम् । तस्याभिलषितस्येष्टयेऽभिगमनाय यद्वा वसिष्ठधनस्येष्टये प्राप्तये “धियं बुद्धिं विमनसे “ददथुः अददाथां खलु । वस्य इति वसुमच्छब्दादीयसुनि ‘विन्मतोर्लुक् ' इति लुक् । ईयसुन ईकारलोपश्छान्दसः ।। तादृशौ युवां “विश्वको “हवते इति गतम् ॥
यु॒वं हि ष्मा॑ पुरुभुजे॒ममे॑ध॒तुं वि॑ष्णा॒प्वे॑ द॒दथु॒र्वस्य॑इष्टये ।
ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥३
यु॒वम् । हि । स्म॒ । पु॒रु॒ऽभु॒जा॒ । इ॒मम् । ए॒ध॒तुम् । वि॒ष्णा॒प्वे॑ । द॒दथुः॑ । वस्यः॑ऽइष्टये ।
ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥३
युवम् । हि । स्म । पुरुऽभुजा । इमम् । एधतुम् । विष्णाप्वे । ददथुः । वस्यःऽइष्टये ।
ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥३
हे “पुरुभुजा पुरुभुजौ पुरूणां बहूनां धनादिदानेन भोजयितारौ । यद्वा । बहूनां स्तोतॄणां पालयितारावश्विनौ । “युवम् । "हि “ष्म इत्यवधारणे । युवामेव “इममेधतुम् । एधतेः ‘एधिवहोश्चतुः' ( उ. सू. १, ७८ ) इति चतुप्रत्ययः । चित्त्वादन्तोदात्तः । इमां धनादिवृद्धिं “विष्णाप्वे । विष्णोः सर्वेषां देवानां मुख्यत्वात् तद्ग्रहणे सर्वे देवा गृहीता भवन्ति । विष्ण्वादीन् कर्मणा व्याप्नोतीति विष्णापूः । पृषोदरादिः । यद्वा । विष्णुं सर्वग्रहेषु व्याप्तं सोमं दशापवित्रेणापुनातीति । तस्य चतुर्थी विष्णाप्व इति । एतन्नामके मम पुत्रे पौत्रे वा । पुत्राय पौत्राय वा । इमां धनादिवृद्धिं “ददथुः अदत्तम् । किमर्थम् । “वस्यइष्टये वसीयसः प्रशस्तधनस्येष्टय इच्छां पूरयितुम् ।' क्रियार्थोपपदस्य । (पा. सू. २. ३. १४ ) इति चतुर्थी । “ता “वाम् इति पूर्ववद्वयाख्येयम् ॥
उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं॑ दू॒रे चि॒त्संत॒मव॑से हवामहे ।
यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥४
उ॒त । त्यम् । वी॒रम् । ध॒न॒ऽसाम् । ऋ॒जी॒षिण॑म् । दू॒रे । चि॒त् । सन्त॑म् । अव॑से । ह॒वा॒म॒हे॒ ।
यस्य॑ । स्वादि॑ष्ठा । सु॒ऽम॒तिः । पि॒तुः । य॒था॒ । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥४
उत । त्यम् । वीरम् । धनऽसाम् । ऋजीषिणम् । दूरे । चित् । सन्तम् । अवसे । हवामहे ।
यस्य । स्वादिष्ठा । सुऽमतिः । पितुः । यथा । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥४
हे अश्विनौ “उत अपि च “वीरं कर्मणि समर्थं “धनसां धनानां संभक्तारम् "ऋजीषिणम् । ऋजीषोऽपार्जितोऽभिषुतः सोमः। तद्वन्तं “दूरे “चित् दूर एव “सन्तं भवन्तं विनष्टमिव “त्यं तं विष्णाप्वम् “अवसे अस्माकं रक्षणाय “हवामहे आह्वयामः । पुत्रो हि पितरं रक्षति । किंच “यस्य पुत्रस्य पौत्रस्य वा “सुमतिः शोभना स्तुतिः “स्वादिष्ठा स्वादुतमा । अतिशयेन देवानां स्वादुकारिणीत्यर्थः । तत्र दृष्टान्तः । “पितुर्यथा । पितुर्विश्वकस्य स्तुतिर्यथा देवानां प्रीतिकरी तद्वत् । तस्मात्तमाह्वयाम इति शेषः । “मा “नो इति गतार्थः ॥
ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृंग॑मुर्वि॒या वि प॑प्रथे ।
ऋ॒तं सा॑साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तं ॥५
ऋ॒तेन॑ । दे॒वः । स॒वि॒ता । श॒म्ऽआ॒य॒ते॒ । ऋ॒तस्य॑ । शृङ्ग॑म् । उ॒र्वि॒या । वि । प॒प्र॒थे॒ ।
ऋ॒तम् । स॒सा॒ह॒ । महि॑ । चि॒त् । पृ॒त॒न्य॒तः । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥५
ऋतेन । देवः । सविता । शम्ऽआयते । ऋतस्य । शृङ्गम् । उर्विया । वि । पप्रथे ।
ऋतम् । ससाह । महि । चित् । पृतन्यतः । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥५
ऋषिः सत्यप्रशंसां करोति । हे अश्विनौ “देवः द्योतमानः सविता सर्वस्य स्वस्वकर्मणि प्रेरक एतन्नामको देवः “ऋतेन सत्येन “शमायते सायंकाले स्वकिरणसमूहं शमयति । ततोऽनन्तरं स एव सविता “ऋतस्य सत्यस्य “शृङ्गम् अग्रम् “उर्विया उरु विस्तीर्णं यथा भवति तथा प्रातःकाले “वि “पप्रथे विशेषेण प्रथयति । सर्वतो विस्तारयति । किंच “पृतन्यतः पृतनामिच्छतः संयुयुत्सोः शत्रोः “महि “चित् महदपि बलम् “ऋतं सत्यं स्वयमेवाभिभवति । इत्थमृतं प्रशस्तमभूत् । तस्माद्युवामपि तेनर्तेन “नः अस्माकं सख्यानि “मा वि “यौष्टम् । अत्रागन्तुमश्वरश्मीन् मुञ्चतमिति ॥ ॥ ९ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|