ऋग्वेदः सूक्तं ८.६७
← सूक्तं ८.६६ | ऋग्वेदः - मण्डल ८ सूक्तं ८.६७ मत्स्यः साम्मदः, मैत्रावरुणिर्मान्यः, बहवो वा मत्स्याः जालनद्धाः |
सूक्तं ८.६८ → |
दे. आदित्याः, १०-१२ अदितिः । गायत्री |
त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे ।
सुमृळीकाँ अभिष्टये ॥१॥
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा ।
आदित्यासो यथा विदुः ॥२॥
तेषां हि चित्रमुक्थ्यं वरूथमस्ति दाशुषे ।
आदित्यानामरंकृते ॥३॥
महि वो महतामवो वरुण मित्रार्यमन् ।
अवांस्या वृणीमहे ॥४॥
जीवान्नो अभि धेतनादित्यासः पुरा हथात् ।
कद्ध स्थ हवनश्रुतः ॥५॥
यद्वः श्रान्ताय सुन्वते वरूथमस्ति यच्छर्दिः ।
तेना नो अधि वोचत ॥६॥
अस्ति देवा अंहोरुर्वस्ति रत्नमनागसः ।
आदित्या अद्भुतैनसः ॥७॥
मा नः सेतुः सिषेदयं महे वृणक्तु नस्परि ।
इन्द्र इद्धि श्रुतो वशी ॥८॥
मा नो मृचा रिपूणां वृजिनानामविष्यवः ।
देवा अभि प्र मृक्षत ॥९॥
उत त्वामदिते मह्यहं देव्युप ब्रुवे ।
सुमृळीकामभिष्टये ॥१०॥
पर्षि दीने गभीर आँ उग्रपुत्रे जिघांसतः ।
माकिस्तोकस्य नो रिषत् ॥११॥
अनेहो न उरुव्रज उरूचि वि प्रसर्तवे ।
कृधि तोकाय जीवसे ॥१२॥
ये मूर्धानः क्षितीनामदब्धासः स्वयशसः ।
व्रता रक्षन्ते अद्रुहः ॥१३॥
ते न आस्नो वृकाणामादित्यासो मुमोचत ।
स्तेनं बद्धमिवादिते ॥१४॥
अपो षु ण इयं शरुरादित्या अप दुर्मतिः ।
अस्मदेत्वजघ्नुषी ॥१५॥
शश्वद्धि वः सुदानव आदित्या ऊतिभिर्वयम् ।
पुरा नूनं बुभुज्महे ॥१६॥
शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः ।
देवाः कृणुथ जीवसे ॥१७॥
तत्सु नो नव्यं सन्यस आदित्या यन्मुमोचति ।
बन्धाद्बद्धमिवादिते ॥१८॥
नास्माकमस्ति तत्तर आदित्यासो अतिष्कदे ।
यूयमस्मभ्यं मृळत ॥१९॥
मा नो हेतिर्विवस्वत आदित्याः कृत्रिमा शरुः ।
पुरा नु जरसो वधीत् ॥२०॥
वि षु द्वेषो व्यंहतिमादित्यासो वि संहितम् ।
विष्वग्वि वृहता रपः ॥२१॥
सायणभाष्यम्
' त्यान्नु ' इत्येकविंशत्यृचमष्टमं सूक्तम् । अत्रानुक्रमणिका -- त्यान्नु सैका मत्स्यः सांमदो मैत्रावरुणिर्मान्यो वा बहवो वा मत्स्या जालनद्धा आदित्यानस्तुवन् ' । संमदाख्यस्य महामीनस्य पुत्रो मत्स्यो यद्वा मित्रावरुणयोः पुत्रो मान्योऽथवा बहवो वा मत्स्या जालनद्धाः सन्तो बन्धनमोक्षायादित्यानस्तुवन् । अतस्त एवर्षयः । ‘ परं गायत्रं प्राग्वत्सप्रेः' इति परिभाषया गायत्री छन्दः । आदित्या देवता । सूक्तविनियोगो लैङ्गिकः ॥
त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे ।
सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥१
त्यान् । नु । क्ष॒त्रिया॑न् । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ ।
सु॒ऽमृ॒ळी॒कान् । अ॒भिष्ट॑ये ॥१
त्यान् । नु । क्षत्रियान् । अवः । आदित्यान् । याचिषामहे ।
सुऽमृळीकान् । अभिष्टये ॥१
“त्यान् तान् “आदित्यान् “क्षत्रियान् जात्या क्षत्रियान् “अवः “रक्षणं “याचिषामहे याचामहे । कीदृशान् । “सुमृळीकान् सुष्ठु सुखयितॄन् । किमर्थम् । अभिष्टये अभिगमनायाभिमताय वा। मत्स्यपक्षे जालनिर्गमनं प्रार्थितमितरपक्षेऽभिमतमिति विवेकः ॥
मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा ।
आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥२
मि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा ।
आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥२
मित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा ।
आदित्यासः । यथा । विदुः ॥२
“मित्रः “वरुणः “अर्यमा "आदित्यासः आदित्याः “नः अस्मान् अंहतिम् “अति “पर्षत् अतिनयन्तु । ते "यथा “विदुः येन प्रकारेण दुःसहं जानन्ति तथाति पर्षदिति । इतरपक्षे अंहतिं पापमति पर्षदिति ॥
तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ ।
आ॒दि॒त्याना॑मरं॒कृते॑ ॥३
तेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ ।
आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥३
तेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे ।
आदित्यानाम् । अरम्ऽकृते ॥३
“तेषाम् आदित्यानां “हि खलु “चित्रं चायनीयम् “उक्थ्यं स्तुत्यं “वरूथं धनम् “अस्ति “दाशुषे हविर्दात्रे "अरंकृते अलंकर्त्रे पर्याप्तकारिणे यजमानाय दातव्यं धनमस्तीति ॥
महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् ।
अवां॒स्या वृ॑णीमहे ॥४
महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । अर्य॑मन् ।
अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥४
महि । वः । महताम् । अवः । वरुण । मित्र । अर्यमन् ।
अवांसि । आ । वृणीमहे ॥४
हे वरुणादयः "मंहतां “वः “अवः रक्षणं "महि महत् दाशुषे हविर्दात्रे करणीयमस्ति । अतः “अवांसि रक्षणानि “आ “वृणीमहे ।।
जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् ।
कद्ध॑ स्थ हवनश्रुतः ॥५
जी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि॑त्यासः । पु॒रा । हथा॑त् ।
कत् । ह॒ । स्थ॒ । ह॒व॒न॒ऽश्रु॒तः॒ ॥५
जीवान् । नः । अभि । धेतन । आदित्यासः । पुरा । हथात् ।
कत् । ह । स्थ । हवनऽश्रुतः ॥५
हे “आदित्यासः आदित्याः “नः अस्मान् “जीवान् इदानीं जीवतः सतः “अभि “धेतन अभिधावत । अभिधावनं कुरुत। "पुरा “हथात् हननात् पुरा मृतेः पूर्वम् । “कत् क्व “स्थ भवथ। हे “हवनश्रुतः आह्वानश्रोतारः । आह्वानं श्रुत्वा शीघ्रमागच्छतेति ॥ ॥ ५१ ॥
यद्व॑ः श्रा॒न्ताय॑ सुन्व॒ते वरू॑थ॒मस्ति॒ यच्छ॒र्दिः ।
तेना॑ नो॒ अधि॑ वोचत ॥६
यत् । वः॒ । श्रा॒न्ताय॑ । सु॒न्व॒ते । वरू॑थम् । अस्ति॑ । यत् । छ॒र्दिः ।
तेन॑ । नः॒ । अधि॑ । वो॒च॒त॒ ॥६
यत् । वः । श्रान्ताय । सुन्वते । वरूथम् । अस्ति । यत् । छर्दिः ।
तेन । नः । अधि । वोचत ॥६
“श्रान्ताय कर्मणः “सुन्वते अभिषुण्वते यजमानाय दातव्यं “यत् वरूथं वरणीयं धनं “वः युष्माकम् “अस्ति “यत् च “छर्दिः सुखवासयोग्यं गृहमस्ति “तेन द्वयेनास्मान् प्रीणयित्वा “नः अस्मान् “अधि “वोचत अधिवचनं कुरुत ॥
अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना॑गसः ।
आदि॑त्या॒ अद्भु॑तैनसः ॥७
अस्ति॑ । दे॒वाः॒ । अं॒होः । उ॒रु । अस्ति॑ । रत्न॑म् । अना॑गसः ।
आदि॑त्याः । अद्भु॑तऽएनसः ॥७
अस्ति । देवाः । अंहोः । उरु । अस्ति । रत्नम् । अनागसः ।
आदित्याः । अद्भुतऽएनसः ॥७
हे "देवाः "अंहोः हन्तुः पापशीलस्य "उरु “अस्ति महत् पापमस्ति । “अनागसः अपापस्य “रत्नं रमणीयं सुकृतं श्रेयः “अस्ति । ततो हे “आदित्याः अद्भुतैनसः अभूतपापाः । अतोऽस्मदभिमतं कुरुतेति भावः ॥
मा न॒ः सेतु॑ः सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ ।
इन्द्र॒ इद्धि श्रु॒तो व॒शी ॥८
मा । नः॒ । सेतुः॑ । सि॒से॒त् । अ॒यम् । म॒हे । वृ॒ण॒क्तु॒ । नः॒ । परि॑ ।
इन्द्रः॑ । इत् । हि । श्रु॒तः । व॒शी ॥८
मा । नः । सेतुः । सिसेत् । अयम् । महे । वृणक्तु । नः । परि ।
इन्द्रः । इत् । हि । श्रुतः । वशी ॥८
“नः अस्मान् “सेतुः बन्धको जालः “मा “सिषेत् मा बध्नातु । "नः अस्मान् “महे महते कर्मणे "परि “वृणक्तु परिवर्जयतु जालात् । कः । “इन्द्र “इत् इन्द्र एव “श्रुतः विश्रुतः “वशी सर्वस्य वशीकर्ता । स परि वृणक्तु ।।
मा नो॑ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना॑मविष्यवः ।
देवा॑ अ॒भि प्र मृ॑क्षत ॥९
मा । नः॒ । मृ॒चा । रि॒पू॒णाम् । वृ॒जि॒नाना॑म् । अ॒वि॒ष्य॒वः॒ ।
देवाः॑ । अ॒भि । प्र । मृ॒क्ष॒त॒ ॥९
मा । नः । मृचा । रिपूणाम् । वृजिनानाम् । अविष्यवः ।
देवाः । अभि । प्र । मृक्षत ॥९
हे “अविष्यवः रक्षितुमिच्छन्तः "देवाः “नः अस्मान् “वृजिनानां हिंसकानां रिपूणां “मृचा । मृचिर्हिँसाकर्मा । ' यत्क्षुरेण मर्चयता सुपेशसा ' (आश्व. गृ. १. १७. १५) इत्यादिषु तथा दृष्टत्वात् । हिंसकेन जालेन “मा अभि “प्र “मृक्षत। अभिमर्शनमुपरि जालस्य प्रेरणं मा कुरुत । यद्वा। मृचा जालेन प्राप्ता बाधा नोऽस्माकं मा भवतु । हे देवाः यूयं च परिमार्जयत परिहरत ॥
आधाने पवमानेष्टिषु ‘ उत त्वामदिते ' इत्यनुवाक्या । सूत्रितं च - ‘ उत त्वामदिते महि महीमू षु मातरम् ' (आश्व. श्रौ. २. १) इति । आदित्ये पशौ वपाया अनुवाक्येयमेव । सूत्रितं च -- ‘उत त्वामदिते मह्यनेहो न उरुव्रजे ' (आश्व. श्रौ. ३. ८) इति ॥
उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे ।
सु॒मृ॒ळी॒काम॒भिष्ट॑ये ॥१०
उ॒त । त्वाम् । अ॒दि॒ते॒ । म॒हि॒ । अ॒हम् । दे॒वि॒ । उप॑ । ब्रु॒वे॒ ।
सु॒ऽमृ॒ळी॒काम् । अ॒भिष्ट॑ये ॥१०
उत । त्वाम् । अदिते । महि । अहम् । देवि । उप । ब्रुवे ।
सुऽमृळीकाम् । अभिष्टये ॥१०
हे “महि महति "अदिते देवमातः “देवि “त्वाम् “अहं मत्स्यपक्षे मत्स्यप्रमुखोऽहम् “उप “ब्रुवे उपेत्य स्तौमि । कीदृशीम्। "सुमृळीकां सुष्ठु सुखयित्रीम् । किमर्थम् । “अभिष्टये अभिमताय ॥ ॥५२॥
पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां॑सतः ।
माकि॑स्तो॒कस्य॑ नो रिषत् ॥११
पर्षि॑ । दी॒ने । ग॒भी॒रे । आ । उग्र॑ऽपुत्रे । जिघां॑सतः ।
माकिः॑ । तो॒कस्य॑ । नः॒ । रि॒ष॒त् ॥११
पर्षि । दीने । गभीरे । आ । उग्रऽपुत्रे । जिघांसतः ।
माकिः । तोकस्य । नः । रिषत् ॥११
हे अदिते “आ “पर्षि सर्वतः पालयसि । “दीने क्षीणे “गभीरे उदके। उदकनामैतत् ' गभीरं गहनम् ' इति तन्नामसु पाठात् । "उग्रपुत्रे। उद्गूर्णाः पुत्रा यस्मिन् तत् । तस्मिन्नुदके “जिघांसतः हिंसतो जालं “तोकस्य अस्माकं तनयस्य तनयं “माकिः “रिषत् मैव हिंसां करोतु ।।
आदित्यस्य पशौ ‘अनेहो नः' इति पुरोडाशस्यानुवाक्या । सूत्रितं च - ‘ अनेहो न उरुव्रजेऽदितिर्ह्यजनिष्ट ' (आश्व. श्रौ, ३. ८) इति ॥
अ॒ने॒हो न॑ उरुव्रज॒ उरू॑चि॒ वि प्रस॑र्तवे ।
कृ॒धि तो॒काय॑ जी॒वसे॑ ॥१२
अ॒ने॒हः । नः॒ । उ॒रु॒ऽव्र॒जे॒ । उरू॑चि । वि । प्रऽस॑र्तवे ।
कृ॒धि । तो॒काय॑ । जी॒वसे॑ ॥१२
अनेहः । नः । उरुऽव्रजे । उरूचि । वि । प्रऽसर्तवे ।
कृधि । तोकाय । जीवसे ॥१२
“अनेहः अपापान् “नः अस्मान् हे “उरुव्रजे विस्तीर्णगमने। दूरमियमदितिर्भूमिरूपा गता भवत्यतिविस्तृतत्वात् । अथवोरुगमने धीरे हे “उरूचि उरुत्वं “वि “प्रसर्तवे अभिसरणाय “कृधि कुरु । कस्मै । "तोकाय पुत्राय मत्स्याय “जीवसे तस्य जीवनाय । यथा जीवेम पुत्रान्रक्षितुं तथोरुत्वं कुर्विति ॥
ये मू॒र्धान॑ः क्षिती॒नामद॑ब्धास॒ः स्वय॑शसः ।
व्र॒ता रक्ष॑न्ते अ॒द्रुह॑ः ॥१३
ये । मू॒र्धानः॑ । क्षि॒ती॒नाम् । अद॑ब्धासः । स्वऽय॑शसः ।
व्र॒ता । रक्ष॑न्ते । अ॒द्रुहः॑ ॥१३
ये । मूर्धानः । क्षितीनाम् । अदब्धासः । स्वऽयशसः ।
व्रता । रक्षन्ते । अद्रुहः ॥१३
"ये "मूर्धानः सर्वेषां मूर्धस्थानीया उच्छ्रिताः “क्षितीनां मनुष्याणाम् “अदब्धासः अहिंसकाः “स्वयशसः स्वायत्तकीर्तयः “व्रता व्रतान्यस्मदीयानि कर्माणि “रक्षन्ते पालयन्ते “अद्रुहः अद्रोग्धारः सन्तः।।
ते न॑ आ॒स्नो वृका॑णा॒मादि॑त्यासो मु॒मोच॑त ।
स्ते॒नं ब॒द्धमि॑वादिते ॥१४
ते । नः॒ । आ॒स्नः । वृका॑णाम् । आदि॑त्यासः । मु॒मोच॑त ।
स्ते॒नम् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥१४
ते । नः । आस्नः । वृकाणाम् । आदित्यासः । मुमोचत ।
स्तेनम् । बद्धम्ऽइव । अदिते ॥१४
हे "आदित्यासः आदित्याः “ते यूयं “नः अस्मान् “वृकाणां हिंसकानामादातॄणां वा "आस्नः आस्यात् सकाशात् "मुमोचत विमोचनं कुरुत "स्तेनं "बद्धमिव । हे "अदिते त्वं च मोचयास्मानिति ॥
अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः ।
अ॒स्मदे॒त्वज॑घ्नुषी ॥१५
अपो॒ इति॑ । सु । नः॒ । इ॒यम् । शरुः॑ । आदि॑त्याः । अप॑ । दुः॒ऽम॒तिः ।
अ॒स्मत् । ए॒तु॒ । अज॑घ्नुषी ॥१५
अपो इति । सु । नः । इयम् । शरुः । आदित्याः । अप । दुःऽमतिः ।
अस्मत् । एतु । अजघ्नुषी ॥१५
हे "आदित्याः “इयं “शरुः हिंसिका प्रसितिः जालिकप्रेरिता “अजघ्नुषी अहिंसन्ती सती “अस्मत् अस्मत्तः “सु सुष्ठु “अपो “एतु अपगच्छत्वेव । तथा “दुर्मतिः दुष्टा मतिरप्यजघ्नुषी अस्मत्तः "अप गच्छतु ॥ ॥ ५३ ॥
शश्व॒द्धि व॑ः सुदानव॒ आदि॑त्या ऊ॒तिभि॑र्व॒यम् ।
पु॒रा नू॒नं बु॑भु॒ज्महे॑ ॥१६
शश्व॑त् । हि । वः॒ । सु॒ऽदा॒न॒वः॒ । आदि॑त्याः । ऊ॒तिऽभिः॑ । व॒यम् ।
पु॒रा । नू॒नम् । बु॒भु॒ज्महे॑ ॥१६
शश्वत् । हि । वः । सुऽदानवः । आदित्याः । ऊतिऽभिः । वयम् ।
पुरा । नूनम् । बुभुज्महे ॥१६
हे "सुदानवः सुदाना हे "आदित्याः “वः युष्माकम् “ऊतिभिः रक्षाभिः “वयं "पुरा “नूनम् इदानीमपि "शश्वत् सर्वदा “बुभुज्महे । यद्वा । शश्वत् बहून् भोगान् भुञ्ज्महे ।।
शश्व॑न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं॑ चि॒देन॑सः ।
देवा॑ः कृणु॒थ जी॒वसे॑ ॥१७
शश्व॑न्तम् । हि । प्र॒ऽचे॒त॒सः॒ । प्र॒ति॒ऽयन्त॑म् । चि॒त् । एन॑सः ।
देवाः॑ । कृ॒णु॒थ । जी॒वसे॑ ॥१७
शश्वन्तम् । हि । प्रऽचेतसः । प्रतिऽयन्तम् । चित् । एनसः ।
देवाः । कृणुथ । जीवसे ॥१७
हे "प्रचेतसः प्रकृष्टमतयो हे "देवाः “शश्वन्तं बहुमपि “प्रतियन्तं “चित् प्रतिगच्छन्तमपि शत्रुम् “एनसः पापस्य कर्तारम् । अथवैनसः पापकृतः । व्यत्ययेन बहुवचनम् । पापकर्तारं “जीवसे जीवनायास्माकं “कृणुथ कुरुत । अस्मत्तो वियुक्तमिति शेषः ॥
तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो॑चति ।
ब॒न्धाद्ब॒द्धमि॑वादिते ॥१८
तत् । सु । नः॒ । नव्य॑म् । सन्य॑से । आदि॑त्याः । यत् । मुमो॑चति ।
ब॒न्धात् । ब॒द्धम्ऽइ॑व । अ॒दि॒ते॒ ॥१८
तत् । सु । नः । नव्यम् । सन्यसे । आदित्याः । यत् । मुमोचति ।
बन्धात् । बद्धम्ऽइव । अदिते ॥१८
“तत् बन्धकं "नः अस्माकं “सु सुष्ठु “नव्यं स्तुत्यं “सन्यसे संभजनाय भवतु । अस्माकं मोचनेन स्तुत्यं भवत्वित्यर्थः । हे "आदित्याः अदितेः पुत्रा हे “अदिते त्वदनुग्रहात् “यत् “मुमोचति मुञ्चत्यस्मान् बन्धनसाधनं पूर्वं यत् प्रतिबन्धकत्वादासीत् तदेव युष्मदनुग्रहादस्मान् मुञ्चतु । यद्वा । युष्माकं यद्रक्षणमस्मान् मुञ्चति तत् सुष्ठु स्तुत्यं संभजनाय भवत्विति योज्यम् ॥
नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे॑ ।
यू॒यम॒स्मभ्यं॑ मृळत ॥१९
न । अ॒स्माक॑म् । अ॒स्ति॒ । तत् । तरः॑ । आदि॑त्यासः । अ॒ति॒ऽस्कदे॑ ।
यू॒यम् । अ॒स्मभ्य॑म् । मृ॒ळ॒त॒ ॥१९
न । अस्माकम् । अस्ति । तत् । तरः । आदित्यासः । अतिऽस्कदे ।
यूयम् । अस्मभ्यम् । मृळत ॥१९
हे "आदित्यासः आदित्या युष्मत्कर्तृकः “तत् "तरः वेगः “अस्माकं “न “अस्ति यो वेगो बन्धकाज्जालात् “अतिष्कदे अस्माकमतिस्कन्दनाय प्रभवति । अतः “यूयमस्मभ्यं “मृळत । तत्तादृशं तरः कुरुतेत्यर्थः ॥
मा नो॑ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरु॑ः ।
पु॒रा नु ज॒रसो॑ वधीत् ॥२०
मा । नः॒ । हे॒तिः । वि॒वस्व॑तः । आदि॑त्याः । कृ॒त्रिमा॑ । शरुः॑ ।
पु॒रा । नु । ज॒रसः॑ । व॒धी॒त् ॥२०
मा । नः । हेतिः । विवस्वतः । आदित्याः । कृत्रिमा । शरुः ।
पुरा । नु । जरसः । वधीत् ॥२०
हे "आदित्याः “नः अस्मान् “विवस्वतः विवस्वत्पुत्रस्य यमस्य । पुत्रे पितृशब्दः । तस्य “हेतिः आयुधभूता “कृत्रिमा क्रियया निष्पन्ना “शरुः हिंसिका प्रसितिः “पुरा पूर्वं “नु इदानीम् । सर्वदेत्यर्थः । "जरसः इदानीं जीर्णान् “मा “वधीत् मा हिंस्यात् ॥
वि षु द्वेषो॒ व्यं॑ह॒तिमादि॑त्यासो॒ वि संहि॑तम् ।
विष्व॒ग्वि वृ॑हता॒ रप॑ः ॥२१
वि । सु । द्वेषः॑ । वि । अं॒ह॒तिम् । आदि॑त्यासः । वि । सम्ऽहि॑तम् ।
विष्व॑क् । वि । वृ॒ह॒त॒ । रपः॑ ॥२१
वि । सु । द्वेषः । वि । अंहतिम् । आदित्यासः । वि । सम्ऽहितम् ।
विष्वक् । वि । वृहत । रपः ॥२१
हे "आदित्यासः आदित्याः “द्वेषः द्वेष्टॄन “सु सुष्ठु “वि “वृहत उन्मूलयत । नाशयतेत्यर्थः ।। तथा “अंहतिं पातकं पापं “वि वृहत । हन्तेरंह च ( उ. सू. ४.५०२) इत्यतिप्रत्ययः । तथा “संहितं जालं “वि वृहत । तथा “रपः पापं सर्वं “विष्वक् विषूचीनं“ वि वृहत ।' रपो रिप्रमिति पापनामनी भवतः ' ( निरु. ४. २१ ) इति यास्कः ॥ ॥ ५४ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ।।
इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण
सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये षष्ठाष्टके चतुर्थोऽध्यायः ॥
टिप्पणी
अष्टमेऽहनि मत्स्यः सांमदस्तस्योदकेचरा विशस्त इम आसत इति मत्स्याः पुञ्जिष्ठा इत्युप-समानीताः स्युस्तानुपदिशति पुराणविद्यावेदः सोऽयमिति पुराणमाचक्षीत - आश्व.श्रौ.सू. १०.७.८
अश्वमेधे पारिप्लवम् -- मत्स्यः सांमद इत्यष्टमे २२। तस्योदकचरा विशस्त इम आसत इति मत्स्यान्मत्स्यविदो वोपदिशति २३ इतिहासवेदो वेदः सोऽयमितीतिहासमाचक्षीत -- शांश्रौसू. १६.२.२४
ज्योतिष्टोमे अग्निचयने दीक्षणीया -- त्यान्नु क्षत्रियान्धारयन्तः - शांश्रौसू. ९.२४.३
अथाष्टमेऽहन् एवमेवैतास्विष्टिषु संस्थितास्वेषैवावृदध्वर्यविति हवै होतरित्येवाध्वर्युर्मत्स्यः साम्मदो राजेत्याह तस्योदकेचरा विशस्त इम आसत इति मत्स्याश्च मत्स्यहनश्चोपसमेता भवन्ति तानुपदिशतीतिहासो वेदः सोऽयमिति कंचिदितिहासमाचक्षीतैवमेवाध्वर्युः सम्प्रेष्यति न प्रक्रमान्जुहोति - शब्रा १३.४.३.१२
मण्डल ८ | ||||||
---|---|---|---|---|---|---|