ऋग्वेदः सूक्तं ८.६४
← सूक्तं ८.६३ | ऋग्वेदः - मण्डल ८ सूक्तं ८.६४ प्रगाथः काण्वः। |
सूक्तं ८.६५ → |
दे. इन्द्रः। गायत्री। |
उत्त्वा मन्दन्तु स्तोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ॥१॥
पदा पणीँरराधसो नि बाधस्व महाँ असि ।
नहि त्वा कश्चन प्रति ॥२॥
त्वमीशिषे सुतानामिन्द्र त्वमसुतानाम् ।
त्वं राजा जनानाम् ॥३॥
एहि प्रेहि क्षयो दिव्याघोषञ्चर्षणीनाम् ।
ओभे पृणासि रोदसी ॥४॥
त्यं चित्पर्वतं गिरिं शतवन्तं सहस्रिणम् ।
वि स्तोतृभ्यो रुरोजिथ ॥५॥
वयमु त्वा दिवा सुते वयं नक्तं हवामहे ।
अस्माकं काममा पृण ॥६॥
क्व स्य वृषभो युवा तुविग्रीवो अनानतः ।
ब्रह्मा कस्तं सपर्यति ॥७॥
कस्य स्वित्सवनं वृषा जुजुष्वाँ अव गच्छति ।
इन्द्रं क उ स्विदा चके ॥८॥
कं ते दाना असक्षत वृत्रहन्कं सुवीर्या ।
उक्थे क उ स्विदन्तमः ॥९॥
अयं ते मानुषे जने सोमः पूरुषु सूयते ।
तस्येहि प्र द्रवा पिब ॥१०॥
अयं ते शर्यणावति सुषोमायामधि प्रियः ।
आर्जीकीये मदिन्तमः ॥११॥
तमद्य राधसे महे चारुं मदाय घृष्वये ।
एहीमिन्द्र द्रवा पिब ॥१२॥
सायणभाष्यम्
‘उत्त्वा मन्दन्तु' इति द्वादशर्चं पञ्चमं सूक्तं प्रगाथस्यार्षम् । प्राग्वत्सप्रपरिभाषया गायत्रमैन्द्रम् । ‘उत्त्वा' इत्यनुक्रमणिका । विनियोगो लैङ्गिकः ॥
उत्त्वा॑ मंदंतु॒ स्तोमाः॑ कृणु॒ष्व राधो॑ अद्रिवः ।
अव॑ ब्रह्म॒द्विषो॑ जहि ॥१
उत् । त्वा॒ । म॒न्द॒न्तु॒ । स्तोमाः॑ । कृ॒णु॒ष्व । राधः॑ । अ॒द्रि॒ऽवः॒ ।
अव॑ । ब्र॒ह्म॒ऽद्विषः॑ । ज॒हि॒ ॥१
उत् । त्वा । मन्दन्तु । स्तोमाः । कृणुष्व । राधः । अद्रिऽवः ।
अव । ब्रह्मऽद्विषः । जहि ॥१
हे इन्द्र “त्वा त्वां “स्तोमाः स्तुतयः "उत् उत्कृष्टं “मन्दन्तु मादयन्तु । “कृणुष्व कुरु “राधः अन्नं हे “अद्रिवः वज्रवन्निन्द्र अस्मभ्यम् । किंच “ब्रह्मद्विषः ब्राह्मणद्वेष्टॄन् “अव "जहि ॥
प॒दा प॒णीँर॑रा॒धसो॒ नि बा॑धस्व म॒हाँ अ॑सि ।
न॒हि त्वा॒ कश्च॒न प्रति॑ ॥२
प॒दा । प॒णीन् । अ॒रा॒धसः॑ । नि । बा॒ध॒स्व॒ । म॒हान् । अ॒सि॒ ।
न॒हि । त्वा॒ । कः । च॒न । प्रति॑ ॥२
पदा । पणीन् । अराधसः । नि । बाधस्व । महान् । असि ।
नहि । त्वा । कः । चन । प्रति ॥२
“पणीन् लुब्धात् “अराधसः यष्टव्यधनरहितान् केवलधनान् “पदा पादेन अतिक्रम्य “नि नितरां “बाधस्व । “त्वा त्वां तव "कश्चन कश्चिदपि देवोऽसुरो मनुष्यो वा “प्रति प्रतिनिधिः सदृशो “नहि अस्ति खलु ॥
त्वमी॑शिषे सु॒ताना॒मिंद्र॒ त्वमसु॑तानां ।
त्वं राजा॒ जना॑नां ॥३
त्वम् । ई॒शि॒षे॒ । सु॒ताना॑म् । इ॒न्द्र॒ । त्वम् । असु॑तानाम् ।
त्वम् । राजा॑ । जना॑नाम् ॥३
त्वम् । ईशिषे । सुतानाम् । इन्द्र । त्वम् । असुतानाम् ।
त्वम् । राजा । जनानाम् ॥३
हे इन्द्र “त्वं “सुतानाम् अभिषुतानां सोमानाम् “ईशिषे ईश्वरो भवसि । तथा “त्वम् “असुतानां वल्ल्याकारे वर्तमानानां चेशिषे । “त्वं जनानां सर्वेषां “राजा भवसि ॥
एहि॒ प्रेहि॒ क्षयो॑ दि॒व्या॒३॒॑घोषं॑चर्षणी॒नां ।
ओभे पृ॑णासि॒ रोद॑सी ॥४
आ । इ॒हि॒ । प्र । इ॒हि॒ । क्षयः॑ । दि॒वि । आ॒ऽघोष॑न् । च॒र्ष॒णी॒नाम् ।
आ । उ॒भे इति॑ । पृ॒णा॒सि॒ । रोद॑सी॒ इति॑ ॥४
आ । इहि । प्र । इहि । क्षयः । दिवि । आऽघोषन् । चर्षणीनाम् ।
आ । उभे इति । पृणासि । रोदसी इति ॥४
हे इन्द्र “एहि आगच्छ । तथा “प्रेहि प्रगच्छ । दिवि द्युलोकात् । किम् । “क्षयः निवासम् । किं कुर्वन् । “आघोषन् शब्दं कुर्वन् । किमर्थम् । “चर्षणीनां मनुष्याणामर्थाय । अथवा । हविः स्वीकृत्य प्रेहि सुखेन गच्छ । दिवमाघोषन् यजमानं स्तुवन् । “उभे रोदसी द्यावापृथिव्यौ “आ “पृणासि आपूरयसि तेजसा वृष्ट्या वा ।।
त्यं चि॒त्पर्व॑तं गि॒रिं श॒तवं॑तं सह॒स्रिणं॑ ।
वि स्तो॒तृभ्यो॑ रुरोजिथ ॥५
त्यम् । चि॒त् । पर्व॑तम् । गि॒रिम् । श॒तऽव॑न्तम् । स॒ह॒स्रिण॑म् ।
वि । स्तो॒तृऽभ्यः॑ । रु॒रो॒जि॒थ॒ ॥५
त्यम् । चित् । पर्वतम् । गिरिम् । शतऽवन्तम् । सहस्रिणम् ।
वि । स्तोतृऽभ्यः । रुरोजिथ ॥५
हे इन्द्र त्वं “त्यं “चित् तम् । चिदिति पूरणः । “पर्वतं पर्ववन्तं “गिरिं मेघम् । उभयोर्मेघनामत्वादेको योगरूढो द्रष्टव्यः । “शतवन्तं शतोदकवन्तं तथा “सहस्रिणम् अपरिमितवृष्टिं मेघं “स्तोतृभ्यः अर्थाय “वि “रुरोजिथ विरुज वज्रेण ।।
व॒यमु॑ त्वा॒ दिवा॑ सु॒ते व॒यं नक्तं॑ हवामहे ।
अ॒स्माकं॒ काम॒मा पृ॑ण ॥६
व॒यम् । ऊं॒ इति॑ । त्वा॒ । दिवा॑ । सु॒ते । व॒यम् । नक्त॑म् । ह॒वा॒म॒हे॒ ।
अ॒स्माक॑म् । काम॑म् । आ । पृ॒ण॒ ॥६
वयम् । ऊं इति । त्वा । दिवा । सुते । वयम् । नक्तम् । हवामहे ।
अस्माकम् । कामम् । आ । पृण ॥६
हे इन्द्र "वयं “त्वा त्वां “दिवा अहनि “सुते सोमेऽभिषुते "हवामहे आह्वयामः । तथा “वयं “नक्त हवामहे । आहूत आगत्य "अस्माकं “काममा “पृण आपूरय ॥ ॥ ४४ ॥
क्व१॒॑ स्य वृ॑ष॒भो युवा॑ तुवि॒ग्रीवो॒ अना॑नतः ।
ब्र॒ह्मा कस्तं स॑पर्यति ॥७
क्व॑ । स्यः । वृ॒ष॒भः । युवा॑ । तु॒वि॒ऽग्रीवः॑ । अना॑नतः ।
ब्र॒ह्मा । कः । तम् । स॒प॒र्य॒ति॒ ॥७
क्व । स्यः । वृषभः । युवा । तुविऽग्रीवः । अनानतः ।
ब्रह्मा । कः । तम् । सपर्यति ॥७
“स्यः सः “वृषभः वर्षिता "युवा नित्यतरुणः “तुविग्रीवः विस्तीर्णकन्धरः "अनानतः कदाचिदप्यनवनत इन्द्रः “क्व कुत्र वर्तत इति को जानातीत्यर्थः। “कः “ब्रह्मा स्तोता त्वा त्वां “सपर्यति पूजयति ॥
कस्य॑ स्वि॒त्सव॑नं॒ वृषा॑ जुजु॒ष्वाँ अव॑ गच्छति ।
इंद्रं॒ क उ॑ स्वि॒दा च॑के ॥८
कस्य॑ । स्वि॒त् । सव॑नम् । वृषा॑ । जु॒जु॒ष्वान् । अव॑ । ग॒च्छ॒ति॒ ।
इन्द्र॑म् । कः । ऊं॒ इति॑ । स्वि॒त् । आ । च॒के॒ ॥८
कस्य । स्वित् । सवनम् । वृषा । जुजुष्वान् । अव । गच्छति ।
इन्द्रम् । कः । ऊं इति । स्वित् । आ । चके ॥८
"कस्य “स्वित् “सवनम् । स्विदिति विचिकित्सायाम् । “वृषा वर्षितेन्द्रः “जुजुष्वान् प्रीयमाणः “अव “गच्छति । “क “उ को वा यजमानः “इन्द्रम् “आ “चके जानाति स्तोतुम् । “स्वित् इति पूरणः ॥
कं ते॑ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या॑ ।
उ॒क्थे क उ॑ स्वि॒दंत॑मः ॥९
कम् । ते॒ । दा॒नाः । अ॒स॒क्ष॒त॒ । वृत्र॑ऽहन् । कम् । सु॒ऽवीर्या॑ ।
उ॒क्थे । कः । ऊं॒ इति॑ । स्वि॒त् । अन्त॑मः ॥९
कम् । ते । दानाः । असक्षत । वृत्रऽहन् । कम् । सुऽवीर्या ।
उक्थे । कः । ऊं इति । स्वित् । अन्तमः ॥९
“ते त्वां “दानाः यजमानैर्दत्ताः “असक्षत सेवन्ते। हे “वृत्रहन् वृत्रस्य हन्तरिन्द्र “कं कीदृशं त्वाम् “उक्थे शस्त्रे सुवीर्या शोभनवीर्याणि स्तोत्राण्यसक्षत । “क “उ “स्विदन्तमः वान्तिकतमो भवति युद्धे ॥
द्वितीये पर्याये होतुः शस्त्रे ' अयं ते मानुषे ' इति तृचोऽनुरूपः । सूत्रितं च- अयं ते मानुषे जन उद्घेदभि' ( आश्व. श्रौ. ६. ४ ) इति ॥
अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते ।
तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥१०
अ॒यम् । ते॒ । मानु॑षे । जने॑ । सोमः॑ । पू॒रुषु॑ । सू॒य॒ते॒ ।
तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥१०
अयम् । ते । मानुषे । जने । सोमः । पूरुषु । सूयते ।
तस्य । आ । इहि । प्र । द्रव । पिब ॥१०
“अयं सोमः “ते त्वदर्थं तव स्वभूतो वा “पूरुषु मनुष्येषु मध्ये “मानुषे “जने मयि “सूयते। अथवा पूरुनामसु राजसु सूयते । “तस्य । तमित्यर्थः । तम् “एहि आगच्छ । आगत्य च “प्र “द्रव गृहसमीपम् । तथा कृत्वा “पिब तं सोमम् ॥
अ॒यं ते॑ शर्य॒णाव॑ति सु॒षोमा॑या॒मधि॑ प्रि॒यः ।
आ॒र्जी॒कीये॑ म॒दिंत॑मः ॥११
अ॒यम् । ते॒ । श॒र्य॒णाऽव॑ति । सु॒ऽसोमा॑याम् । अधि॑ । प्रि॒यः ।
आ॒र्जी॒कीये॑ । म॒दिन्ऽत॑मः ॥११
अयम् । ते । शर्यणाऽवति । सुऽसोमायाम् । अधि । प्रियः ।
आर्जीकीये । मदिन्ऽतमः ॥११
“अयम् अस्माभिरभिषुतः सोमः "ते त्वां "मदिन्तमः मादयितृतमः । अयम् “अधि श्रितः आश्रितः । कुत्रेति तदुच्यते । “शर्यणावति कुरुक्षेत्रस्य जघनार्धभवे शरतृणोपेते सरसि । तत्सरः कुत्र वर्तत इति उच्यते । “सुषोमायाम् एतन्नामिकायां नद्याम् । सा च कुत्र वर्तत इति तदुच्यते । आर्जीकीये एतन्नामके देशे। एवमुक्तप्रकारेणात्यन्तदूरदेशे वर्तते यः सोमः स एवायमभिषुतः । तं पिबेत्युत्तरत्रान्वयः ॥
तम॒द्य राध॑से म॒हे चारुं॒ मदा॑य॒ घृष्व॑ये ।
एही॑मिंद्र॒ द्रवा॒ पिब॑ ॥१२
तम् । अ॒द्य । राध॑से । म॒हे । चारु॑म् । मदा॑य । घृष्व॑ये ।
आ । इ॒हि॒ । ई॒म् । इ॒न्द्र॒ । द्रव॑ । पिब॑ ॥१२
तम् । अद्य । राधसे । महे । चारुम् । मदाय । घृष्वये ।
आ । इहि । ईम् । इन्द्र । द्रव । पिब ॥१२
“तं पूर्वमन्त्र उपवर्णितं “चारुं चरणशीलं सोमं “महे महते “राधसे अस्माकं धनाय तव “घृष्वये शत्रूणां घर्षणशीलाय "मदाय “पिब । हे "इन्द्र तदर्थं “द्रव गच्छ शीघ्रं सोमपात्रं प्रति । तदर्थम् “ईम् इदानीम् “एहि आगच्छ ॥ ॥ ४५ ॥
टिप्पणी
८.६४.१ उत् त्वा मन्दन्तु सोमाः इति
मण्डल ८ | ||||||
---|---|---|---|---|---|---|