सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.४

विकिस्रोतः तः
← सूक्तं ८.३ ऋग्वेदः - मण्डल ८
सूक्तं ८.४
देवातिथिः काण्वः।
सूक्तं ८.५ →
दे. इन्द्रः, १५-१८ पूषा वा, १९-२१ कुरुङ्गः। प्रगाथः (विषमा बृहती, समा सतोबृहती), २१ पुरउष्णिक् ।


यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥१॥
यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।
कण्वासस्त्वा ब्रह्मभि स्तोमवाहस इन्द्रा यच्छन्त्या गहि ॥२॥
यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणम् ।
आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥३॥
मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।
आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥४॥
प्र चक्रे सहसा सहो बभञ्ज मन्युमोजसा ।
विश्वे त इन्द्र पृतनायवो यहो नि वृक्षा इव येमिरे ॥५॥
सहस्रेणेव सचते यवीयुधा यस्त आनळुपस्तुतिम् ।
पुत्रं प्रावर्गं कृणुते सुवीर्ये दाश्नोति नमउक्तिभिः ॥६॥
मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।
महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुम् ॥७॥
सव्यामनु स्फिग्यं वावसे वृषा न दानो अस्य रोषति ।
मध्वा सम्पृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥८॥
अश्वी रथी सुरूप इद्गोमाँ इदिन्द्र ते सखा ।
श्वात्रभाजा वयसा सचते सदा चन्द्रो याति सभामुप ॥९॥
ऋश्यो न तृष्यन्नवपानमा गहि पिबा सोमं वशाँ अनु ।
निमेघमानो मघवन्दिवेदिव ओजिष्ठं दधिषे सहः ॥१०॥
अध्वर्यो द्रावया त्वं सोममिन्द्रः पिपासति ।
उप नूनं युयुजे वृषणा हरी आ च जगाम वृत्रहा ॥११॥
स्वयं चित्स मन्यते दाशुरिर्जनो यत्रा सोमस्य तृम्पसि ।
इदं ते अन्नं युज्यं समुक्षितं तस्येहि प्र द्रवा पिब ॥१२॥
रथेष्ठायाध्वर्यवः सोममिन्द्राय सोतन ।
अधि ब्रध्नस्याद्रयो वि चक्षते सुन्वन्तो दाश्वध्वरम् ॥१३॥
उप ब्रध्नं वावाता वृषणा हरी इन्द्रमपसु वक्षतः ।
अर्वाञ्चं त्वा सप्तयोऽध्वरश्रियो वहन्तु सवनेदुप ॥१४॥
प्र पूषणं वृणीमहे युज्याय पुरूवसुम् ।
स शक्र शिक्ष पुरुहूत नो धिया तुजे राये विमोचन ॥१५॥
सं नः शिशीहि भुरिजोरिव क्षुरं रास्व रायो विमोचन ।
त्वे तन्नः सुवेदमुस्रियं वसु यं त्वं हिनोषि मर्त्यम् ॥१६॥
वेमि त्वा पूषन्नृञ्जसे वेमि स्तोतव आघृणे ।
न तस्य वेम्यरणं हि तद्वसो स्तुषे पज्राय साम्ने ॥१७॥
परा गावो यवसं कच्चिदाघृणे नित्यं रेक्णो अमर्त्य ।
अस्माकं पूषन्नविता शिवो भव मंहिष्ठो वाजसातये ॥१८॥
स्थूरं राधः शताश्वं कुरुङ्गस्य दिविष्टिषु ।
राज्ञस्त्वेषस्य सुभगस्य रातिषु तुर्वशेष्वमन्महि ॥१९॥
धीभिः सातानि काण्वस्य वाजिनः प्रियमेधैरभिद्युभिः ।
षष्टिं सहस्रानु निर्मजामजे निर्यूथानि गवामृषिः ॥२०॥
वृक्षाश्चिन्मे अभिपित्वे अरारणुः ।
गां भजन्त मेहनाश्वं भजन्त मेहना ॥२१॥


सायणभाष्यम्

‘यदिन्द्र' इत्येकविंशत्यृचं चतुर्थं सूक्तं काण्वगोत्रस्य देवातिथेरार्षम् । वृक्षाश्चिन्मे' इत्येषा पुरउष्णिक् शिष्टास्त्वयुजो बृहत्यो युजः सतोबृहत्यः । ‘ स्थूरं राधः' इत्यादिभिस्तिसृभिः कुरुङ्गदानस्य स्तूयमानत्वात्तास्तद्देवताकाः । तत्पूर्वाः पञ्चदश्याद्याश्चतस्रः पूषदेवताका इन्द्रदेवताका वा शिष्टा ऐन्द्र्यः । तथा चानुक्रान्तं-- यदिन्द्र सैका देवातिथिस्तृचोऽन्त्यः पुरउष्णिगन्तः कुरुङ्गस्य दानस्तुतिस्तत्पूर्वाश्चतस्रः पौष्ण्यो वा' इति । महाव्रते निष्केवल्ये बार्हततृचाशीतावाद्याश्चतुर्दशर्चः शंसनीयाः । तथैव पञ्चमारण्यके---’ यदिन्द्र प्रागपागुदगिति चतुर्दश' (ऐ. आ. ५. २. ४ ) इति । चातुर्विंशिकेऽहनि माध्यंदिने सवनेऽच्छावाकशस्त्र आद्यः प्रगाथो वैकल्पिकः स्तोत्रियः । सूत्र्यते हि -- ’ यदिन्द्र प्रागपागुदग्यथा गौरो अपा कृतम्' (आश्व. श्रौ. ७. ४) इति ॥


यदि॑न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभि॑ः ।

सिमा॑ पु॒रू नृषू॑तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे॑ ॥१

यत् । इ॒न्द्र॒ । प्राक् । अपा॑क् । उद॑क् । न्य॑क् । वा॒ । हू॒यसे॑ । नृऽभिः॑ ।

सिम॑ । पु॒रु । नृऽसू॑तः । अ॒सि॒ । आन॑वे । असि॑ । प्र॒ऽश॒र्ध॒ । तु॒र्वशे॑ ॥१

यत् । इन्द्र । प्राक् । अपाक् । उदक् । न्यक् । वा । हूयसे । नृऽभिः ।

सिम । पुरु । नृऽसूतः । असि । आनवे । असि । प्रऽशर्ध । तुर्वशे ॥१

हे “इन्द्र “यत् यदि “प्राक् प्राच्यां दिशि वर्तमानैः । सप्तम्यन्ताद्दिक्छब्दाद्विहितस्यास्तातेः ‘ अञ्चेर्लुक्' (पा. सू. ५. ३. ३०) इति लुक् । “अपाक् प्रतीच्यां दिशि वर्तमानैः । यदि वा “उदक् उदीच्यां दिशि वर्तमानैः । यत् “वा “न्यक् नीच्यां दिशि अधस्ताद्वर्तमानैः। ‘न्यधी च' इति नेः प्रकृतिस्वरत्वम्। 'उदात्तस्वरितयोर्यणः' इति परस्यानुदात्तस्य स्वरितत्वम् । एवंभूतैः “नृभिः स्तोतृभिस्त्वं "हूयसे स्वस्वकार्याय आहूयसे हे “सिम श्रेष्ठेन्द्र । ‘सिम इति वै श्रेष्ठमाचक्षते' इति वाजसनेयकम् । यद्यप्येवं बहुभिराहूयसे तथापि “आनवे । अनुर्नाम राजा । तस्य पुत्रे राजर्षौ “पुरु बहुलं "नृषूतः नृभिस्तदीयैः स्तोतृभिः प्रेरितः “असि भवसि । राज्ञो हितकरणे त्वां स्तोतारः प्रेरयन्तीत्यर्थः । ‘षू प्रेरणे' । अस्मात् कर्मणि निष्ठा ।' तृतीया कर्मणि' इति पूर्वपदप्रकृतिस्वरत्वम् । अपि च हे प्रशर्ध प्रकर्षेण शर्धयितरभिभवितरिन्द्र "तुर्वशे एतत्संज्ञे च राजनि नृषूतः “असि नृभिः प्रेरितो भवसि ।।


यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा॑ ।

कण्वा॑सस्त्वा॒ ब्रह्म॑भि॒ः स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ॥२

यत् । वा॒ । रुमे॑ । रुश॑मे । श्याव॑के । कृपे॑ । इन्द्र॑ । मा॒दय॑से । सचा॑ ।

कण्वा॑सः । त्वा॒ । ब्रह्म॑ऽभिः । स्तोम॑ऽवाहसः । इन्द्र॑ । आ । य॒च्छ॒न्ति॒ । आ । ग॒हि॒ ॥२

यत् । वा । रुमे । रुशमे । श्यावके । कृपे । इन्द्र । मादयसे । सचा ।

कण्वासः । त्वा । ब्रह्मऽभिः । स्तोमऽवाहसः । इन्द्र । आ । यच्छन्ति । आ । गहि ॥२

“यद्वा यद्यपि रुमादिषु चतुर्ष राजसु हे “इन्द्र त्वं “सचा सह “मादयसे माद्यसि तथापि “स्तोमवाहसः स्तोमानां स्तोत्राणां वोढारः “कण्वासः कण्वगोत्रा ऋषयः “ब्रह्मभिः परिवृढैर्मन्त्रैर्हविर्भिर्वा हे “इन्द्र त्वाम् “आ “यच्छन्ति आगमयन्ति । यद्वा । द्वितीयार्थे तृतीया । ब्रह्मभिर्ब्रह्माणि हवींष्याभिमुख्येन प्रयच्छन्ति ददति । ‘दाण् दाने '। 'पाघ्रा' इत्यादिना यच्छादेशः । अतस्त्वम् “आ “गहि शीघ्रमागच्छ । गमेर्लोटि छान्दसः शपो लुक् ॥


चातुर्विंशिकेऽहनि माध्यंदिनसवनेऽच्छावाकशस्त्रे यथा' इति प्रगाथोऽनुरूपः । सूत्रितं च -- ’ यथा गौरो अपा कृतमित्यच्छावाकस्य' (आश्व. श्रौ. ७. ४) इति ॥

यथा॑ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् ।

आ॒पि॒त्वे न॑ः प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे॑षु॒ सु सचा॒ पिब॑ ॥३

यथा॑ । गौ॒रः । अ॒पा । कृ॒तम् । तृष्य॑न् । एति॑ । अव॑ । इरि॑णम् ।

आ॒ऽपि॒त्वे । नः॒ । प्र॒ऽपि॒त्वे । तूय॑म् । आ । ग॒हि॒ । कण्वे॑षु । सु । सचा॑ । पिब॑ ॥३

यथा । गौरः । अपा । कृतम् । तृष्यन् । एति । अव । इरिणम् ।

आऽपित्वे । नः । प्रऽपित्वे । तूयम् । आ । गहि । कण्वेषु । सु । सचा । पिब ॥३

"गौरः गौरमृगः “तृष्यन् पिपासन् "अपा अद्भिरुदकैः । व्यत्ययेनैकवचनम्। 'ऊडिदम्' इत्यादिना विभक्तेरुदात्तत्वम्। “कृतं संपूर्णं कृतम् “इरिणं निस्तृणं तटाकदेशं “यथा येन प्रकारेण “अव “एति अवगच्छति । अवशब्दोऽभिशब्दस्यार्थे । अभिमुखः सन् शीघ्रं गच्छति तथा “आपित्वे बन्धुत्वे “प्रपित्वे प्राप्ते सति हे इन्द्र त्वं “नः अस्मान् "तूयम्। क्षिप्रनामैतत् । शीघ्रम् “आ “गहि आगच्छ । आगत्य च "कण्वेषु कण्वपुत्रेष्वस्मासु "सचा सहैकयत्नेनैव विद्यमानं सर्वं सोमं “सु सुष्ठु “पिब ॥


मन्द॑न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया॑य सुन्व॒ते ।

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सह॑ः ॥४

मन्द॑न्तु । त्वा॒ । म॒घ॒ऽव॒न् । इ॒न्द्र॒ । इन्द॑वः । रा॒धः॒ऽदेया॑य । सु॒न्व॒ते ।

आ॒ऽमुष्य॑ । सोम॑म् । अ॒पि॒बः॒ । च॒मू इति॑ । सु॒तम् । ज्येष्ठ॑म् । तत् । द॒धि॒षे॒ । सहः॑ ॥४

मन्दन्तु । त्वा । मघऽवन् । इन्द्र । इन्दवः । राधःऽदेयाय । सुन्वते ।

आऽमुष्य । सोमम् । अपिबः । चमू इति । सुतम् । ज्येष्ठम् । तत् । दधिषे । सहः ॥४

हे "मघवन् धनवन् “इन्द्र “इन्दवः क्लेदनाः सोमास्त्वां “मन्दन्तु मादयन्तु हर्षयन्तु । मदेर्व्यत्ययेन' परस्मैपदम् । किमर्थम् । “सुन्वते सोमाभिषवं कुर्वते यजमानाय "राधोदेयाय राधसो धनस्य दानार्थम् । ददातेः ‘अचो यत्' इति भावे यत् ।'ईद्यति' इतीकारः । यतोऽनावः' इत्याद्युदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । ‘शतुरनुमः' इति सुन्वच्छब्दात् परा विभक्तिरुदात्ता । अपि च त्वं “सोमम् "आमुष्य आमोषणं कृत्वा अदत्तमपि बलादपहृत्य "अपिबः पीतवानसि । ‘स यज्ञवेशसं कृत्वा प्रासहा सोममपिबत्' (तै. सं. २. ४. १२. १) इति श्रुतेः । कीदृशं सोमम् । “चमू चम्वोरधिषवणफलकयोः “सुतम् अभिषुतम् । यद्वा चमूभ्यां चमसाभ्यां होतुर्मैत्रावरुणस्य च संबन्धिभ्यां संस्कृताभिर्वसतीवरीभिः सुतमभिषुतम् । यस्मादेवं “तत् तस्मात् कारणात् “ज्येष्ठं प्रशस्यतमं वृद्धतमं वा “सहः बलं “दधिषे हे इन्द्र त्वं धारयसि । अतो मदीया अपि सोमास्त्वां मादयन्त्विति प्रार्थ्यते ॥


प्र च॑क्रे॒ सह॑सा॒ सहो॑ ब॒भञ्ज॑ म॒न्युमोज॑सा ।

विश्वे॑ त इन्द्र पृतना॒यवो॑ यहो॒ नि वृ॒क्षा इ॑व येमिरे ॥५

प्र । च॒क्रे॒ । सह॑सा । सहः॑ । ब॒भञ्ज॑ । म॒न्युम् । ओज॑सा ।

विश्वे॑ । ते॒ । इ॒न्द्र॒ । पृ॒त॒ना॒ऽयवः॑ । य॒हो॒ इति॑ । नि । वृ॒क्षाःऽइ॑व । ये॒मि॒रे॒ ॥५

प्र । चक्रे । सहसा । सहः । बभञ्ज । मन्युम् । ओजसा ।

विश्वे । ते । इन्द्र । पृतनाऽयवः । यहो इति । नि । वृक्षाःऽइव । येमिरे ॥५

स इन्द्रः “सहसा आत्मीयेनाभिभवेन वीर्यकर्मणा "सहः शत्रूणामभिभवनं “प्र “चक्रे प्रकर्षेण कृतवान् । तथा “ओजसा बलेन "मन्युं परकीयं क्रोधं "बभञ्ज भग्नवान् । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । हे “यहो । महन्नामैतत् । हे महन् “इन्द्र “विश्वे सर्वे “पृतनायवः युद्धकामाः शत्रवः "ते त्वया “वृक्षाइव महीरुहा इव “नि "येमिरे नियता आसन् । यथा वृक्षा निश्चलास्तिष्ठन्ति तद्वन्निर्व्यापारा अभूवन्नित्यर्थः ॥ ॥ ३० ॥


स॒हस्रे॑णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् ।

पु॒त्रं प्रा॑व॒र्गं कृ॑णुते सु॒वीर्ये॑ दा॒श्नोति॒ नम॑उक्तिभिः ॥६

स॒हस्रे॑णऽइव । स॒च॒ते॒ । य॒वि॒ऽयुधा॑ । यः । ते॒ । आन॑ट् । उप॑ऽस्तुतिम् ।

पु॒त्रम् । प्रा॒व॒र्गम् । कृ॒णु॒ते॒ । सु॒ऽवीर्ये॑ । दा॒श्नोति॑ । नम॑उक्तिऽभिः ॥६

सहस्रेणऽइव । सचते । यविऽयुधा । यः । ते । आनट् । उपऽस्तुतिम् ।

पुत्रम् । प्रावर्गम् । कृणुते । सुऽवीर्ये । दाश्नोति । नमउक्तिऽभिः ॥६

हे इन्द्र "ते तव “उपस्तुतिं स्तोत्रं “यः पुरुषः "आनट् प्राप्नोति त्वां प्रापयति । अश्रोतेर्लङि व्यत्ययेन परस्मैपदम् । --- “सचते समवैति । ‘षच समवाये । “सहस्रेणेव यथा सहस्रसंख्येन बलेन तथेत्यर्थः। यश्च यजमानः “नमउक्तिभिः नमस्कारवचनैः स्तोत्रैः सार्धं “दाश्नोति हवींषि तुभ्यं ददाति । ‘दाशृ दाने'। स यजमानः “सुवीर्ये शोभनवीर्ययुक्ते संग्रामे “प्रावर्गं प्रकर्षेण शत्रूणां वर्जयितारं “पुत्रं “कृणुते करोति उत्पादयति । त्वत्प्रसादाल्लभत इत्यर्थः । प्रपूर्वाद्वृजेः ‘कृत्यल्युटो बहुलम्' इति कर्तरि घञ्। 'उपसर्गस्य घञ्यमनुष्ये' (पा. सू. ६. ३. १२२) इति दीर्घः । थाथादिनोत्तरपदान्तोदात्तत्वम् । यद्वा । सुवीर्यं इत्येतत् पुत्रस्य विशेषणम् । द्वितीयार्थे सप्तमी । शोभनवीर्यं पुत्रम् । बहुव्रीहौ ‘ वीरवीर्यौ च' इत्युत्तरपदाद्युदात्तत्वम् ॥


मा भे॑म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ ।

म॒हत्ते॒ वृष्णो॑ अभि॒चक्ष्यं॑ कृ॒तं पश्ये॑म तु॒र्वशं॒ यदु॑म् ॥७

मा । भे॒म॒ । मा । श्र॒मि॒ष्म॒ । उ॒ग्रस्य॑ । स॒ख्ये । तव॑ ।

म॒हत् । ते॒ । वृष्णः॑ । अ॒भि॒ऽचक्ष्य॑म् । कृ॒तम् । पश्ये॑म । तु॒र्वश॑म् । यदु॑म् ॥७

मा । भेम । मा । श्रमिष्म । उग्रस्य । सख्ये । तव ।

महत् । ते । वृष्णः । अभिऽचक्ष्यम् । कृतम् । पश्येम । तुर्वशम् । यदुम् ॥७

हे इन्द्र "उग्रस्य उद्गूर्णबलस्य “तव “सख्ये सखित्वे सति वयं “मा “भेम मा भैष्म । कुतश्चिदपि शत्रोर्भीता मा भूम। "मा “श्रमिष्म श्रान्ताः पीडिताश्च मा भूम। "वृष्णः कामानां वर्षितुः “ते तव संबन्धि “महत् प्रभूतं “कृतं वृत्रवधादिलक्षणं कर्म “अभिचक्ष्यम् अभितः ख्यापनीयं स्तोतव्यम् । अतो महानुभावस्य तव सख्यं प्राप्तानां भीतिश्रमौ न जायेते इत्यर्थः। तत् कथमवगम्यत इति चेदुच्यते । “तुर्वशम् एतत्संज्ञं राजर्षिं “यदुम् एतत्संज्ञं च त्वत्प्रसादात् सुखेन जीवन्तौ “पश्येम दृष्टवन्तः खलु वयम् । अतः कारणात् त्वत्सख्यं प्राप्तस्य भयादिकं न जायत इत्येतदुपपन्नमित्यर्थः ॥


स॒व्यामनु॑ स्फि॒ग्यं॑ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति ।

मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ॥८

स॒व्याम् । अनु॑ । स्फि॒ग्य॑म् । व॒व॒से॒ । वृषा॑ । न । दा॒नः । अ॒स्य॒ । रो॒ष॒ति॒ ।

मध्वा॑ । सम्ऽपृ॑क्ताः । सा॒र॒घेण॑ । धे॒नवः॑ । तूय॑म् । आ । इ॒हि॒ । द्रव॑ । पिब॑ ॥८

सव्याम् । अनु । स्फिग्यम् । ववसे । वृषा । न । दानः । अस्य । रोषति ।

मध्वा । सम्ऽपृक्ताः । सारघेण । धेनवः । तूयम् । आ । इहि । द्रव । पिब ॥८

“वृषा कामानां वर्षितेन्द्रः “सव्यां दक्षिणेतरां “स्फिग्यं कटिप्रदेशम् “अनु । तृतीयार्थेऽनोः कर्मप्रवचनीयत्वम्। सव्यया स्फिग्या शरीरैकदेशेनैव “ववसे वस्ते । सर्वभूतजातमाच्छादयति । स्वयं कृत्स्नं जगदतीत्य वर्तत इत्यर्थः । निगमान्तरं च भवति – 'यदन्यया स्फिग्या क्षामवस्थाः ' (ऋ. सं. ३. ३२. ११) इति । अपि च “दानः अवखण्डयिता। 'दान अवखण्डने '। पचाद्यच् । स च “अस्य इममिन्द्रं “न “रोषति न हिनस्ति । ‘रिष रुष हिंसायाम् । इन्द्रं हिंसितुं शक्तः कश्चिदपि नास्तीत्यर्थः । यद्वा । दानो हविषां दाता यजमानश्चास्येन्द्रस्य न रोषति रोषं न जनयति । सर्वदा हविर्भिः परिचरतीत्यर्थः । उत्तरोऽर्धर्चः प्रत्यक्षकृतः । “सारघेण । सरघा मधुमक्षिका । तत्संबन्धिना “मध्वा मधुना । लुप्तोपममेतत् । मधुनेव रसवता क्षीरादिना श्रयणद्रव्येण “संपृक्ताः संसृष्टाः संस्कृताः “धेनवः धेनुवत् प्रीतिजनका अस्मदीयाः सोमाः । यद्वा । धिवेः प्रीणनार्थाद्धेनवः । प्रीणयितार इत्यर्थः । अथवा । 'धेट् पाने'। 'धेट इच्च ' इत्यौणादिको नुप्रत्ययः । तसंनियोगेन इकारान्तादेशश्च । पातव्याः सोमा इत्यर्थः । यत एवमतः कारणात् हे इन्द्र “तूयं क्षिप्रम् “एहि अस्मत्समीपमागच्छ। आगत्य च “द्रव । सोमा यस्मिन्नुत्तरवेदिलक्षणे स्थाने हूयन्ते तं देशं शीघ्रं गच्छ। द्रु गतौ ' इति धातुः । ‘ द्व्यचोऽतस्तिङः' इति सांहितिको दीर्घः। तदनन्तरमध्वर्युणा दत्तं सोमं “पिब । तेन सोमेन सम्यक् स्वोदरं पूरयेत्यर्थः ॥


अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि॑न्द्र ते॒ सखा॑ ।

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा॑ च॒न्द्रो या॑ति स॒भामुप॑ ॥९

अ॒श्वी । र॒थी । सु॒ऽरू॒पः । इत् । गोऽमा॑न् । इत् । इ॒न्द्र॒ । ते॒ । सखा॑ ।

श्वा॒त्र॒ऽभाजा॑ । वय॑सा । स॒च॒ते॒ । सदा॑ । च॒न्द्रः । या॒ति॒ । स॒भाम् । उप॑ ॥९

अश्वी । रथी । सुऽरूपः । इत् । गोऽमान् । इत् । इन्द्र । ते । सखा ।

श्वात्रऽभाजा । वयसा । सचते । सदा । चन्द्रः । याति । सभाम् । उप ॥९

हे "इन्द्र "ते तव “सखा मित्रभूतः पुरुषोऽश्व्यादिगुणविशिष्ट एव भवति । इच्छब्दः प्रत्येकमभिसंबध्यते । “अश्वी इत् बहुभिरश्वैरुपेत एव भवति । न कदाचिदश्वैर्वियुज्यते । “रथी रथवानेव स भवति । "सुरूप “इत् शोभनरूपः शोभनावयव एव स भवति । “गोमाँ "इत् बह्वीभिर्गोभिर्युक्त एव स भवति । न कदाचिदेतैर्वियुज्यत इत्यर्थः । अपि च “श्वात्रभाजा । ‘ श्वात्रम्' इति धननाम । आशु अतनीयं शीघ्रं प्राप्तव्यं शोभनं धनं संभजता ईदृग्धनसंयुक्तेन “वयसा । अन्ननामैतत् । अन्नेन स सर्वदा “सचते समवैति । संगच्छते । ‘षच समवाये। अत एव “चन्द्रः सर्वेषामाह्लादकः सन् “सभां जनसंसदम् “उप “याति उपगच्छति ॥


ऋश्यो॒ न तृष्य॑न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ ।

नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सह॑ः ॥१०

ऋश्यः॑ । न । तृष्य॑न् । अ॒व॒ऽपान॑म् । आ । ग॒हि॒ । पिब॑ । सोम॑म् । वशा॑न् । अनु॑ ।

नि॒ऽमेघ॑मानः । म॒घ॒ऽव॒न् । दि॒वेऽदि॑वे । ओजि॑ष्ठम् । द॒धि॒षे॒ । सहः॑ ॥१०

ऋश्यः । न । तृष्यन् । अवऽपानम् । आ । गहि । पिब । सोमम् । वशान् । अनु ।

निऽमेघमानः । मघऽवन् । दिवेऽदिवे । ओजिष्ठम् । दधिषे । सहः ॥१०

हे इन्द्र “ऋश्यो “न ऋश्याख्यो मृग इव “तृष्यन् पिपासंस्त्वम् “अवपानम् अवनीतं ग्रहचमसादिषु पात्रेष्वानीतं पातव्यं सोमम् “आ “गहि अभिगच्छ । गत्वा च तमस्मदीयं “सोमं “वशाँ “अनु अनुकामं यथाकामं “पिब। यावता पीतेन पर्याप्तिर्जायते तावता सोमेन स्वोदरं पूरयेत्यर्थः। अत एव सोमपानात् प्राप्तबलस्त्वं “दिवेदिवे प्रतिदिवसं “निमेघमानः न्यञ्च्यवाङ्मुखानि वृष्ट्युदकानि सिञ्चन् हे “मघवन् इन्द्र “ओजिष्ठम् ओजस्वितममुद्गूर्णतमं “सहः बलं "दधिषे धारयसि । ओजस्वि शब्दादिष्ठनि ‘विन्मतो लुक्' इति विनो लुक् । 'टेः' इति टिलोपः ॥ ॥ ३१ ॥


अध्व॑र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्र॑ः पिपासति ।

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ॥११

अध्व॑र्यो॒ इति॑ । द्र॒वय॑ । त्वम् । सोम॑म् । इन्द्रः॑ । पि॒पा॒स॒ति॒ ।

उप॑ । नू॒नम् । यु॒यु॒जे॒ । वृष॑णा । हरी॒ इति॑ । आ । च॒ । ज॒गा॒म॒ । वृ॒त्र॒ऽहा ॥११

अध्वर्यो इति । द्रवय । त्वम् । सोमम् । इन्द्रः । पिपासति ।

उप । नूनम् । युयुजे । वृषणा । हरी इति । आ । च । जगाम । वृत्रऽहा ॥११

हे "अध्वर्यो अध्वरस्य नेतः “त्वं “सोमं “द्रावय । उत्तरवेदिलक्षणं स्थानं प्रापय । यद्वा। रसात्मना द्रवणशीलं कुरु । अभिषुण्वित्यर्थः । किं कारणमिति चेत् । “इन्द्रः “पिपासति इमं सोमं पातुमिच्छति । त्वयैतत् कथमवगतमिति चेत् तत्राह। “वृषणा वर्षितारौ युवानौ वा "हरी अश्वौ "नूनम् अद्य "युयुजे । उपगम्य सारथिर्योजितवान् रथे। “वृत्रहा वृत्रस्य हन्तेन्द्रः “च "आ “जगाम आगतवान् ।


स्व॒यं चि॒त्स म॑न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ।

इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ॥१२

स्व॒यम् । चि॒त् । सः । म॒न्य॒ते॒ । दाशु॑रिः । जनः॑ । यत्र॑ । सोम॑स्य । तृ॒म्पसि॑ ।

इ॒दम् । ते॒ । अन्न॑म् । युज्य॑म् । सम्ऽउ॑क्षितम् । तस्य॑ । आ । इ॒हि॒ । प्र । द्र॒व॒ । पिब॑ ॥१२

स्वयम् । चित् । सः । मन्यते । दाशुरिः । जनः । यत्र । सोमस्य । तृम्पसि ।

इदम् । ते । अन्नम् । युज्यम् । सम्ऽउक्षितम् । तस्य । आ । इहि । प्र । द्रव । पिब ॥१२

“दाशुरिः दाश्वान् । दाशतेरौणादिक उरिन् । हविषां दाता “सः यजमानलक्षणो “जनः स्वयं “चित् स्वयमेव आत्मनैव “मन्यते सर्वं जानाति । परायत्तप्रज्ञो न भवतीत्यर्थः । “अत्र यस्मिन् जने “सोमस्य पानेन हे इन्द्र त्वं “तृम्पसि तृप्यसि । तृप तृम्प तृप्तौ । तौदादिकः । ‘ शे तृम्पादीनाम् ' (पा. सू. ७. १. ५९.१ ) इति नुम् । “ते त्वदीयं "युज्यं योग्यम् “इदम् अस्मदीयं सोमलक्षणम् "अन्नं “समुक्षितं सम्यक् पात्रेष्वासिक्तम् । उक्ष सेचने '। कर्मणि निष्ठा। ‘ गतिरनन्तरः ' इति गर्तेः प्रकृतिस्वरत्वम् । अतस्तं तादृशं सोमम् “एहि अभिगच्छ । “प्र “द्रव शीघ्रं प्राप्नुहि । तदनन्तरं “पिब पानं कुरु ॥


र॒थे॒ष्ठाया॑ध्वर्यव॒ः सोम॒मिन्द्रा॑य सोतन ।

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो॑ दा॒श्व॑ध्वरम् ॥१३

र॒थे॒ऽस्थाय॑ । अ॒ध्व॒र्य॒वः॒ । सोम॑म् । इन्द्रा॑य । सो॒त॒न॒ ।

अधि॑ । ब्र॒ध्नस्य॑ । अद्र॑यः । वि । च॒क्ष॒ते॒ । सु॒न्वन्तः॑ । दा॒शुऽअ॑ध्वरम् ॥१३

रथेऽसथाय । अध्वर्यवः । सोमम् । इन्द्राय । सोतन ।

अधि । ब्रध्नस्य । अद्रयः । वि । चक्षते । सुन्वन्तः । दाशुऽअध्वरम् ॥१३

“रथेष्ठाय । रथे तिष्ठतीति रथेष्ठः । ‘सुपि स्थः' इति कप्रत्ययः । तत्पुरुषे कृति बहुलम् इति सप्तम्या अलुक् । एवंलक्षणाय “इन्द्राय हे “अध्वर्यवः “सोमं “सोतन अभिषुणुत । 'षुञ् अभिषवे '।' तप्तनप्तनथनाश्च ' इति तनबादेशः । “ब्रध्नस्य बुध्नस्य मूलस्याभिषवार्थं चर्मणि स्थापितस्योपराख्यस्य विस्तृतस्याश्मनः “अधि उपरि “अद्रयः अन्ये ग्रावाणश्चतसृषु दिक्षु वर्तमानाः "दाश्वध्वरं दाशोर्दातुर्यजमानस्य अध्वरो यागो येन निष्पद्यते तादृशं सोमं “सुन्वन्तः ऋत्विङ्निरपेक्षं स्वयमेवाभिषुण्वन्तः “वि “चक्षते विशेषेण प्रकाशन्ते। सोमाभिषवेऽतिशयेनानुकूला वर्तन्त इत्यर्थः । अथवाद्रयस्तैरद्रिभिर्हे अध्वर्यवः सोममभिषुणुतेति योज्यम् ॥


उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः ।

अ॒र्वाञ्चं॑ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह॑न्तु॒ सव॒नेदुप॑ ॥१४

उप॑ । ब्र॒ध्नम् । व॒वाता॑ । वृष॑णा । हरी॒ इति॑ । इन्द्र॑म् । अ॒पऽसु॑ । व॒क्ष॒तः॒ ।

अ॒र्वाञ्च॑म् । त्वा॒ । सप्त॑यः । अ॒ध्व॒र॒ऽश्रियः॑ । वह॑न्तु । सव॑ना । इत् । उप॑ ॥१४

उप । ब्रध्नम् । ववाता । वृषणा । हरी इति । इन्द्रम् । अपऽसु । वक्षतः ।

अर्वाञ्चम् । त्वा । सप्तयः । अध्वरऽश्रियः । वहन्तु । सवना । इत् । उप ॥१४

“ब्रध्नम् अन्तरिक्षं “वावाता' संभक्तवन्तौ । वनतेर्निष्ठायां छान्दसं द्विर्वचनमिडभाव आत्वं धातुस्वरश्च । अन्येषामपि दृश्यते ' इति सांहितिकोऽभ्यासदीर्घः । यद्वा । वावाता पुनः पुनर्गच्छन्तौ। ‘ वा गतिगन्धनयोः । अस्माद्यङ्लुगन्तात् कर्तरि निष्ठा । “वृषणा वृषणौ सेक्तारौ “हरी हरणशीलावश्वौ उक्तगुणौ सन्तौ “अपसु अस्मदीयेषु कर्मसु । अपस्शब्दः सकारान्तः कर्मवचनः । ‘ पीवोपवसनानां छन्दसि लोपो वक्तव्यः' ( पा. म. ६. ३. १०९.६ ) इतीह सकारो लुप्यते । तत्रेमम् “इन्द्रम् “उप “वक्षतः उपवहतामुपानयताम्। वहतेलेंट्यडागमः । ‘ सिब्बहुलम् ' इति सिप् । अपि च “अध्वरश्रियः अध्वरं सेवमानाः “सप्तयः सर्पणशीला अन्येऽपि त्वदीया अश्वाः “सवना सवनानि प्रातःसवनादीन्यस्मद्यागसंबन्धीनि प्रति हे इन्द्र त्वाम् “अर्वाञ्चम् अभिमुखम् “उप “वहन्तु उपगमयन्तु । “इत् इति पूरकः ॥


प्र पू॒षणं॑ वृणीमहे॒ युज्या॑य पुरू॒वसु॑म् ।

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे॑ रा॒ये वि॑मोचन ॥१५

प्र । पू॒षण॑म् । वृ॒णी॒म॒हे॒ । युज्या॑य । पु॒रु॒ऽवसु॑म् ।

सः । श॒क्र॒ । शि॒क्ष॒ । पु॒रु॒ऽहू॒त॒ । नः॒ । धि॒या । तुजे॑ । रा॒ये । वि॒ऽमो॒च॒न॒ ॥१५

प्र । पूषणम् । वृणीमहे । युज्याय । पुरुऽवसुम् ।

सः । शक्र । शिक्ष । पुरुऽहूत । नः । धिया । तुजे । राये । विऽमोचन ॥१५

इदमाद्यासु चतसृषु पूष्ण इन्द्रस्य च लिङ्गसद्भावादेता उभयथा व्याख्यायन्ते । “पुरूवसुं बहुधर्न “पूषणं पोषकमिन्द्रं यद्वैतत्संज्ञं देवं “प्र “वृणीमहे प्रकर्षेण संभजामहे । किमर्थम् । “युज्याय । युङ्क्त इति युङ् सखा । तस्य भावाय । सखित्वायेत्यर्थः । हे “शक्र शक्त “पुरुहूत बहुभिराहूत हे “विमोचन पापाद्विमोचयितरिन्द्र पूषन् वा “सः त्वं “नः अस्मान् “धिया आत्मीयया बुद्ध्या “शिक्ष शक्तान् कर्तुमिच्छ । किमर्थम् । “राये धनाय धनप्राप्त्यर्थं “तुजे शत्रूंस्तोजयितुं हिंसितुम् । तुज हिंसायाम् । अस्मात् कृत्यार्थे केन्प्रत्ययः । यद्वा । राये इति ‘क्रियाग्रहणं कर्तव्यम् ' इति कर्मणः संप्रदानत्वाच्चतुर्थी । जातीवेकवचनम् । रायो धनानि धिया स्तुत्या प्रीतः सन्नोऽस्मभ्यं शिक्ष देहि। शिक्षतिर्दानकर्मा।' ऊडिदम्' इति रायो विभक्तिरुदात्ता ॥ ॥ ३२ ॥


सं न॑ः शिशीहि भु॒रिजो॑रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन ।

त्वे तन्न॑ः सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य॑म् ॥१६

सम् । नः॒ । शि॒शी॒हि॒ । भु॒रिजोः॑ऽइव । क्षु॒रम् । रास्व॑ । रा॒यः । वि॒ऽमो॒च॒न॒ ।

त्वे इति॑ । तत् । नः॒ । सु॒ऽवेद॑म् । उ॒स्रिय॑म् । वसु॑ । यम् । त्वम् । हि॒नोषि॑ । मर्त्य॑म् ॥१६

सम् । नः । शिशीहि । भुरिजोःऽइव । क्षुरम् । रास्व । रायः । विऽमोचन ।

त्वे इति । तत् । नः । सुऽवेदम् । उस्रियम् । वसु । यम् । त्वम् । हिनोषि । मर्त्यम् ॥१६

हे इन्द्र पूषन् वा “नः अस्मान् “सं “शिशीहि सम्यक् निश्य(शिश्य, तिश्य - पा.भे.) तीक्ष्णबुद्धीन् कुरु। “भुरिजोरिव । बाहुनामैतत् । नापितस्य बाह्वोरिव स्थितं “क्षुरम् इव । अपि च हे “विमोचन पापाद्विमोचन पापाद्विमोचयितः “रायः धनानि “रास्व अस्मभ्यं देहि । ‘रा दाने'। तत् कस्य हेतोः । “त्वे त्वयि खलु “उस्रियम् । उस्रा गावः । तत्संबद्धं “तत् “वसु निवासकं धनं “नः अस्माकं “सुवेदं सुलभं नान्येषु देवेषु । “यं धनसमूहं “मर्त्यं मनुष्यं स्तोतारं प्रति “त्वं “हिनोषि प्रेरयसि तद्वसु त्वयीत्यन्वयः। यत एवं तस्मात् रास्व इति योज्यम् ॥


वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे ।

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने॑ ॥१७

वेमि॑ । त्वा॒ । पू॒ष॒न् । ऋ॒ञ्जसे॑ । वेमि॑ । स्तोत॑वे । आ॒घृ॒णे॒ ।

न । तस्य॑ । वे॒मि॒ । अर॑णम् । हि । तत् । व॒सो॒ इति॑ । स्तु॒षे । प॒ज्राय॑ । साम्ने॑ ॥१७

वेमि । त्वा । पूषन् । ऋञ्जसे । वेमि । स्तोतवे । आघृणे ।

न । तस्य । वेमि । अरणम् । हि । तत् । वसो इति । स्तुषे । पज्राय । साम्ने ॥१७

हे “पूषन् पोषकेन्द्र एतत्संज्ञ वा देव “त्वा त्वाम् “ऋञ्जसे प्रसाधयितुं “वेमि कामये । “आघृणे आगतदीप्ते “स्तोतवे त्वां स्तोतुं “वेमि कामये । यत्त्वद्व्यतिरिक्तं देवतान्तरं “तस्य स्तोत्रं “न “वेमि न कामये । तत् कुत इति चेत् । “हि यस्मात् “अरणम् अरमणमसुखकरम् । अतस्त्वामेव स्तोतुं कामय इत्यर्थः । हे “वसो वासक “स्तुषे स्तुवते “पज्राय प्रार्जकाय स्तोत्राणां “साम्ने । साम स्तोत्रम् । सामर्थ्यादत्र तद्वाँल्लक्ष्यते । तद्वते । यद्वा । पज्र इति कक्षीवत आख्या । आम्नातं हि -- ’ यद्वां पज्रासो अश्विना हवन्ते' (ऋ. सं. १. ११७. १०) इति । तस्मै कक्षीवत इव मह्यम् । सामर्थ्यादुपमार्थो लभ्यते । अपेक्षितं धनं देहीति शेषः ।।


परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो॑ अमर्त्य ।

अ॒स्माकं॑ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ॥१८

परा॑ । गावः॑ । यव॑सम् । कत् । चि॒त् । आ॒घृ॒णे॒ । नित्य॑म् । रेक्णः॑ । अ॒म॒र्त्य॒ ।

अ॒स्माक॑म् । पू॒ष॒न् । अ॒वि॒ता । शि॒वः । भ॒व॒ । मंहि॑ष्ठः । वाज॑ऽसातये ॥१८

परा । गावः । यवसम् । कत् । चित् । आघृणे । नित्यम् । रेक्णः । अमर्त्य ।

अस्माकम् । पूषन् । अविता । शिवः । भव । मंहिष्ठः । वाजऽसातये ॥१८

हे “आघृणे आगतदीप्ते पूषन्निन्द्र वा “कच्चित् कस्मिंश्चित् काले अस्मदीयाः “गावो “यवसं तृणं भक्षितुं “परा गच्छन्ति । हे “अमर्त्य अमरण देव तदानीं “रेक्णः तद्गोरूपं धनं “नित्यम् अस्माकं ध्रुवमस्तु । चोरव्याघ्रादिभिर्हिंसितं मा भूत् । अपि च हे “पूषन् पोषयितः “अस्माकम् “अविता रक्षिता भूत्वा “शिवः सुखकरः “भव। तथा “वाजसातये वाजस्यान्नस्य बलस्य वा संभजनार्थं “मंहिष्ठः दातृतमो भव ॥


स्थू॒रं राध॑ः श॒ताश्वं॑ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु ।

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे॑ष्वमन्महि ॥१९

स्थू॒रम् । राधः॑ । श॒तऽअ॑श्वम् । कु॒रु॒ङ्गस्य॑ । दिवि॑ष्टिषु ।

राज्ञः॑ । त्वे॒षस्य॑ । सु॒ऽभग॑स्य । रा॒तिषु॑ । तु॒र्वशे॑षु । अ॒म॒न्म॒हि॒ ॥१९

स्थूरम् । राधः । शतऽअश्वम् । कुरुङ्गस्य । दिविष्टिषु ।

राज्ञः । त्वेषस्य । सुऽभगस्य । रातिषु । तुर्वशेषु । अमन्महि ॥१९

इदमादिकेन तृचेन देवातिथिः कुरुङ्गनाम्नो राज्ञो दानं स्तौति । "कुरुङ्गस्य । कुरूञ्जेतुं गच्छति कुलं गच्छतीति वा कुरुङ्गः । ‘ डोऽन्यत्रापि दृश्यते' इति गमेर्डः। पृषोदरादिः । एतत्संज्ञस्य “त्वेषस्य दीप्तस्य “सुभगस्य शोभनधनस्य एवंभूतस्य “राज्ञः संबन्धिनीषु “दिविष्टिषु दिवः स्वर्गस्यैषणेषु प्राप्तिहेतुभूतासु यागक्रियासु “रातिषु दानेषु दक्षिणारूपेषु सत्सु “तुर्वशेषु । मनुष्यनामैतत् । निर्धारणे सप्तमी । मनुष्येषु मध्ये वयं “स्थूरं स्थूलं प्रभूतं “शताश्वम् अश्वानां शतेन युक्तं “राधः धनम् “अमन्महि अज्ञासिष्म । अलभामहीत्यर्थः ।।


धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिन॑ः प्रि॒यमे॑धैर॒भिद्यु॑भिः ।

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषि॑ः ॥२०

धी॒भिः । सा॒तानि॑ । का॒ण्वस्य॑ । वा॒जिनः॑ । प्रि॒यऽमे॑धैः । अ॒भिद्यु॑ऽभिः ।

ष॒ष्टिम् । स॒हस्रा॑ । अनु॑ । निःऽम॑जाम् । अ॒जे॒ । निः । यू॒थानि॑ । गवा॑म् । ऋषिः॑ ॥२०

धीभिः । सातानि । काण्वस्य । वाजिनः । प्रियऽमेधैः । अभिद्युऽभिः ।

षष्टिम् । सहस्रा । अनु । निःऽमजाम् । अजे । निः । यूथानि । गवाम् । ऋषिः ॥२०

“काण्वस्य कण्वपुत्रस्य “वाजिनः हविष्मतो मेधातिथेः संबन्धिभिः “धीभिः ध्यातृभिः स्तोतृभिः “सातानि संभक्तानि “अभिद्युभिः अभिगतदीप्तिभिः “प्रियमेधैः एतत्संज्ञैश्चर्षिभिः सेवितानि “निर्मजां निःशेषेण शुद्धानां “गवां “षष्टिं “सहस्रा पष्टिसंख्याकानि सहस्राणि “यूथानि “ऋषिः देवातिथिरहम् “अनु पश्चात् “निः “अजे निःशेषेणागच्छम् । साकल्येन प्राप्तवानस्मि । “ अज गतिक्षेपणयोः' । यथा प्रियमेधानां काण्वानां च गवां यूथानि राज्ञा दत्तानि तैः प्रतिगृहीतानि एवं तेन दत्तानि मया प्रतिगृह्यन्त इत्यर्थः ॥


वृ॒क्षाश्चि॑न्मे अभिपि॒त्वे अ॑रारणुः ।

गां भ॑जन्त मे॒हनाश्वं॑ भजन्त मे॒हना॑ ॥२१

वृ॒क्षाः । चि॒त् । मे॒ । अ॒भि॒ऽपि॒त्वे । अ॒र॒र॒णुः॒ ।

गाम् । भ॒ज॒न्त॒ । मे॒हना॑ । अश्व॑म् । भ॒ज॒न्त॒ । मे॒हना॑ ॥२१

वृक्षाः । चित् । मे । अभिऽपित्वे । अररणुः ।

गाम् । भजन्त । मेहना । अश्वम् । भजन्त । मेहना ॥२१

“मे मया “अभिपित्वे पूर्वोक्ते धने अभिप्राप्ते सति “वृक्षाश्चित् वृक्षा अपि “अरारणुः अशब्दयन् । कथमिति तदाह । इमे ऋषयः "मेहना मंहनीयां प्रशस्यां “गां “भजन्त असेवन्त अलभन्त । “मेहना मंहनीयम् "अश्वं च “भजन्त अलभन्तेति । गामश्वमिति जात्यभिप्रायमेकवचनम् । यद्वा । मेहनेति म इह नेति पदत्रयात्मकमेकं पदम् । यदाह यास्कः-’ यदिन्द्र चित्रं चायनीयं मंहनीयं धनमस्ति । यन्म इह नास्तीति वा त्रीणि मध्यमानि पदानि' (निरु. ४. ४ )। तदैवं व्याख्येयम् । इम ऋषयो गामश्व चालभन्त । इहास्मिन् राजनि प्रशस्तस्य धनस्य तद्दानं मम नासीन्मम नासीदिति वृक्षप्रमुखाः सर्वेऽपि जनाः प्रोचुरित्यर्थः ॥ ॥ ३३ ॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् ।

पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥

इति श्रीमद्राजाधिराजपरमेश्वरवैदिकमार्गप्रवर्तकश्रीवीरबुक्कभूपालसाम्राज्यधुरंधरेण सायणाचार्येण विरचिते माधवीये वेदार्थप्रकाशे ऋक्संहिताभाष्ये पञ्चमाष्टके सप्तमोऽध्यायः ॥


टिप्पणी

८.४.१ यदिन्द्र प्रागपागुदक् इति

नैपातिथम्


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.४&oldid=313599" इत्यस्माद् प्रतिप्राप्तम्