सामग्री पर जाएँ

ऋग्वेदः सूक्तं ८.३५

विकिस्रोतः तः
← सूक्तं ८.३४ ऋग्वेदः - मण्डल ८
सूक्तं ८.३५
श्यावाश्व आत्रेयः।
सूक्तं ८.३६ →
दे. अश्विनौ । उपरिष्टाज्ज्योतिः (त्रिष्टुप्), २२-२४ पङ्क्तिः, २३ महाबृहती ।


अग्निनेन्द्रेण वरुणेन विष्णुनादित्यै रुद्रैर्वसुभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥१॥
विश्वाभिर्धीभिर्भुवनेन वाजिना दिवा पृथिव्याद्रिभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥२॥
विश्वैर्देवैस्त्रिभिरेकादशैरिहाद्भिर्मरुद्भिर्भृगुभिः सचाभुवा ।
सजोषसा उषसा सूर्येण च सोमं पिबतमश्विना ॥३॥
जुषेथां यज्ञं बोधतं हवस्य मे विश्वेह देवौ सवनाव गच्छतम् ।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥४॥
स्तोमं जुषेथां युवशेव कन्यनां विश्वेह देवौ सवनाव गच्छतम् ।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥५॥
गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् ।
सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥६॥
हारिद्रवेव पतथो वनेदुप सोमं सुतं महिषेवाव गच्छथः ।
सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥७॥
हंसाविव पतथो अध्वगाविव सोमं सुतं महिषेवाव गच्छथः ।
सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥८॥
श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः ।
सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥९॥
पिबतं च तृप्णुतं चा च गच्छतं प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥१०॥
जयतं च प्र स्तुतं च प्र चावतं प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥११॥
हतं च शत्रून्यततं च मित्रिणः प्रजां च धत्तं द्रविणं च धत्तम् ।
सजोषसा उषसा सूर्येण चोर्जं नो धत्तमश्विना ॥१२॥
मित्रावरुणवन्ता उत धर्मवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१३॥
अङ्गिरस्वन्ता उत विष्णुवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१४॥
ऋभुमन्ता वृषणा वाजवन्ता मरुत्वन्ता जरितुर्गच्छथो हवम् ।
सजोषसा उषसा सूर्येण चादित्यैर्यातमश्विना ॥१५॥
ब्रह्म जिन्वतमुत जिन्वतं धियो हतं रक्षांसि सेधतममीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१६॥
क्षत्रं जिन्वतमुत जिन्वतं नॄन्हतं रक्षांसि सेधतममीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१७॥
धेनूर्जिन्वतमुत जिन्वतं विशो हतं रक्षांसि सेधतममीवाः ।
सजोषसा उषसा सूर्येण च सोमं सुन्वतो अश्विना ॥१८॥
अत्रेरिव शृणुतं पूर्व्यस्तुतिं श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥१९॥
सर्गाँ इव सृजतं सुष्टुतीरुप श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२०॥
रश्मीँरिव यच्छतमध्वराँ उप श्यावाश्वस्य सुन्वतो मदच्युता ।
सजोषसा उषसा सूर्येण चाश्विना तिरोअह्न्यम् ॥२१॥
अर्वाग्रथं नि यच्छतं पिबतं सोम्यं मधु ।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२२॥
नमोवाके प्रस्थिते अध्वरे नरा विवक्षणस्य पीतये ।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२३॥
स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः ।
आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥२४॥

सायणभाष्यम्

'अग्निनेन्द्रेण' इति चतुर्विंशत्यृचं पञ्चमं सूक्तं श्यावाश्वस्यात्रेयस्यार्षम् । अत्रानुक्रमणिका-- ‘अग्निना चतुर्विंशतिः श्यावाश्व आश्विनमौपरिष्टाज्ज्योतिषं पङ्क्तिमहाबृहतीपङ्क्त्यन्तम्' इति । उपरिष्टाज्ज्योतिश्छन्दः। चतुर्थपादस्याष्टाक्षरत्वात् । यतोऽष्टकस्ततो ज्योतिः' (अनु. ९.८) इति तल्लक्षणम्। द्वाविंशी पङ्क्तिः । त्रयोविंशी महाबृहती ‘चत्वारोऽष्टका जागतश्च महाबृहती ' ( अनु. ९. ९ ) इत्युक्तलक्षणोपेतत्वात् । चतुर्विंशी पङ्क्तिः । अश्विनौ देवता । अप्तोर्यामे होतुरतिरिक्तोक्थे ' अग्निनेन्द्रेण ' इत्येतत्सूक्तम् । सूत्रितं च– अग्निनेन्द्रेणा भात्यग्निः ' ( आश्व. श्रौ. ९. ११ ) इति ।


अ॒ग्निनेंद्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥१

अ॒ग्निना॑ । इन्द्रे॑ण । वरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥१

अग्निना । इन्द्रेण । वरुणेन । विष्णुना । आदित्यैः । रुद्रैः । वसुऽभिः । सचाऽभुवा ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥१

हे "अश्विना अश्विनौ "अग्निनेन्द्रेण "वरुणेन "विष्णुनादित्यैः "रुद्रैः “वसुभिः च "सचाभुवा सहभूतौ "उषसा "सूर्येण च "सजोषसा संगतौ युवां सोमं पिबतम् ॥


विश्वा॑भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥२

विश्वा॑भिः । धी॒भिः । भुव॑नेन । वा॒जि॒ना॒ । दि॒वा । पृ॒थि॒व्या । अद्रि॑ऽभिः । स॒चा॒ऽभुवा॑ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥२

विश्वाभिः । धीभिः । भुवनेन । वाजिना । दिवा । पृथिव्या । अद्रिऽभिः । सचाऽभुवा ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥२

हे "वाजिना बलिनावश्विनौ "विश्वाभिः सर्वाभिः “धीभिः प्रज्ञाभिः “भुवनेन अखिलेन भूतजातेन च "दिवा द्युलोकेन च "पृथिव्या स “अद्रिभिः च "सचाभुवा सहभूतौ "उषसा सूर्येण “च संगतौ युवां "सोमं "पिबतम् ।।


विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥३

विश्वैः॑ । दे॒वैः । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । अ॒त्ऽभिः । म॒रुत्ऽभिः॑ । भृगु॑ऽभिः । स॒चा॒ऽभुवा॑ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥३

विश्वैः । देवैः । त्रिऽभिः । एकादशैः । इह । अत्ऽभिः । मरुत्ऽभिः । भृगुऽभिः । सचाऽभुवा ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । पिबतम् । अश्विना ॥३

हे अश्विनौ “विश्वेदेवैस्त्रिभिरेकादशैः त्रयस्त्रिशैः “इह यज्ञे “अद्भिः "मरुद्भिः “भृगुभिः । च "सचाभुवा सहभूतौ "उषसा "सूर्येण च संगतौ युवां “सोमं पिबतम् ॥


जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥४

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥४

जुषेथाम् । यज्ञम् । बोधतम् । हवस्य । मे । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥४

हे अश्विनौ "यज्ञं “जुषेथां सेवेथाम् । “मे मम "हवस्य हवं "बोधतं जानीतम् । "इह यज्ञे "विश्वा “सवना सर्वाणि सवनानि "अव "गच्छतं प्राप्नुतम् । "इषम् अन्नं "नः “आ “वोळ्हं प्रापयतम् ॥


स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥५

स्तोम॑म् । जु॒षे॒था॒म् । यु॒व॒शाऽइ॑व । क॒न्यना॑म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥५

स्तोमम् । जुषेथाम् । युवशाऽइव । कन्यनाम् । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥५

हे अश्विनौ "देवौ युवामिहास्मिन् यज्ञे "स्तोमं "जुषेथां सेवेथाम् । "युवशेव यथा युवानौ “कन्यनां कन्यानामाह्वानं सेवेते । तद्वदित्यर्थः । "इह यज्ञे "विश्वा विश्वानि सवनानि "अव “गच्छतं प्राप्नुतम् । सिद्धमन्यत् ॥


गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥६

गिरः॑ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥६

गिरः । जुषेथाम् । अध्वरम् । जुषेथाम् । विश्वा । इह । देवौ । सवना । अव । गच्छतम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आ । इषम् । नः । वोळ्हम् । अश्विना ॥६

हे "देवौ अश्विनौ नोऽस्माकं "गिरः स्तुतीः "जुषेथां सेवेथाम् । तथा “अध्वरं यज्ञं च “जुषेथाम् । "इह यज्ञे विश्वानि सवनानि "अव "गच्छतं प्राप्नुतम् ॥ ॥ १४ ॥


हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥७

हा॒रि॒द्र॒वाऽइ॑व । प॒त॒थः॒ । वना॑ । इत् । उप॑ । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥७

हारिद्रवाऽइव । पतथः । वना । इत् । उप । सोमम् । सुतम् । महिषाऽइव । अव । गच्छथः ।

सऽजोषसौ । उषसा । सूर्येण । च । त्रिः । वर्तिः । यातम् । अश्विना ॥७

हे अश्विनौ युवां "सुतम् अभिषुतं "सोमम् "उप "पतथः "हारिद्रवाविव यथा हारिद्रवौ पक्षिणौ “वना वनान्युदकानि । 'वाः वनम् ' इत्युदकनामसु पाठात् । उपपततः । तद्वदित्यर्थः । “महिषाविव यथा पिपासितौ महिषावुदकान्युपगच्छतः “तथा “सुतं "सोमम् "अव “गच्छथः। “उषसा “सूर्येण “च संगतौ “त्रिवर्तिः त्रिर्मार्गं "यातं च ॥


हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥८

हं॒सौऽइ॑व । प॒त॒थः॒ । अ॒ध्व॒गौऽइ॑व । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥८

हंसौऽइव । पतथः । अध्वगौऽइव । सोमम् । सुतम् । महिषाऽइव । अव । गच्छथः ।

सऽजोषसौ । उषसा । सूर्येण । च । त्रिः । वर्तिः । यातम् । अश्विना ॥८

हे अश्विनौ युवां "हंसाविव यथा हंसौ "अध्वगाविव यथा च पथिकावुदकं गच्छतः तथा वेगेन "सुतं "सोमं "पतथः । सिद्धमन्यत् ॥ ।


श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥९

श्ये॒नौऽइ॑व । प॒त॒थः॒ । ह॒व्यऽदा॑तये । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥९

श्येनौऽइव । पतथः । हव्यऽदातये । सोमम् । सुतम् । महिषाऽइव । अव । गच्छथः ।

सऽजोषसौ । उषसा । सूर्येण । च । त्रिः । वर्तिः । यातम् । अश्विना ॥९

हे अश्विनौ युवां "श्येनाविव यथा श्येनौ गगनं गच्छतः तथा वेगेन "सुतं "सोमं "हव्यदातये यजमानार्थं पतथः गच्छथः । सिद्धमन्यत् ॥ ।


पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥१०

पिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥१०

पिबतम् । च । तृप्णुतम् । च । आ । च । गच्छतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।

सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥१०

हे अश्विनौ युवां सोमं "पिबतं च "तृप्णुतं च तृप्यतं च । पानार्थं तृप्त्यर्थं "च "आ "गच्छतम् । सोमं पीत्वा तृप्तौ सन्तौ युवामस्मभ्यं "प्रजां “च “धत्तं धारयतम् । "द्रविणं धनं "च “धत्तम् । “उषसा सूर्येण च संगतौ “नः अस्मभ्यम् “ऊर्जं बलं च “धत्तम् ॥


जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥११

जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥११

जयतम् । च । प्र । स्तुतम् । च । प्र । च । अवतम् । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।

सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥११

हे अश्विनौ युवां "जयतं शत्रून् "च जयतम् । “प्र “स्तुतं स्तोतॄन् "च “प्र “चावतम् अस्मांश्च प्ररक्षतम् । अन्यत् सिद्धम् ॥


ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तं ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥१२

ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥१२

हतम् । च । शत्रून् । यततम् । च । मित्रिणः । प्रऽजाम् । च । धत्तम् । द्रविणम् । च । धत्तम् ।

सऽजोषसौ । उषसा । सूर्येण । च । ऊर्जम् । नः । धत्तम् । अश्विना ॥१२

हे अश्विनौ युवां "शत्रून् "च "हतम् । उतापि च "यततं "मित्रिणः मैत्रीयुक्तान् "च गच्छतम् । सिद्धमन्यत् ॥ ॥ १५ ॥


मि॒त्रावरु॑णवंता उ॒त धर्म॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥१३

मि॒त्रावरु॑णऽवन्तौ । उ॒त । धर्म॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥१३

मित्रावरुणऽवन्तौ । उत । धर्मऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥१३

“उत अपि च हे अश्विनौ युवां मित्रावरुणवन्ता मित्रावरुणयुक्तौ “धर्मवन्ता धर्मयुक्तौ च "मरुत्वन्ता मरुद्भिर्युक्तौ च “जरितुः स्तोतुः "हवम् आह्वानं "गच्छथः आगच्छतम् । "उषसा "सूर्येण "च "आदित्यैः च "यातं गच्छतम् ॥


अंगि॑रस्वंता उ॒त विष्णु॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥१४

अङ्गि॑रस्वन्तौ । उ॒त । विष्णु॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥१४

अङ्गिरस्वन्तौ । उत । विष्णुऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥१४

“उत अपि च हे अश्विनौ युवाम् "अङ्गिरस्वन्तौ अङ्गिरोभिर्युक्तौ “विष्णुवन्ता विष्णुना च सहितौ मरुद्भिश्च सहितौ स्तोतुराह्वानं गच्छतम् । सिद्धमन्यत् ॥


ऋ॒भु॒मंता॑ वृषणा॒ वाज॑वंता म॒रुत्वं॑ता जरि॒तुर्ग॑च्छथो॒ हवं॑ ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥१५

ऋ॒भु॒ऽमन्ता॑ । वृ॒ष॒णा॒ । वाज॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥१५

ऋभुऽमन्ता । वृषणा । वाजऽवन्ता । मरुत्वन्ता । जरितुः । गच्छथः । हवम् ।

सऽजोषसौ । उषसा । सूर्येण । च । आदित्यैः । यातम् । अश्विना ॥१५

हे अश्विनौ “ऋभुमन्ता ऋभुसहितौ "वृषणा कामानां वर्षितारौ वाजवन्तौ वाजयुक्तौ मरुत्वन्तौ च स्तोतुराह्वानं गच्छतम् । ऋभुमन्ता वाजवन्ता इति ज्येष्ठकनिष्ठाभ्यां व्यपदेशः । सिद्धमन्यत् ॥


ब्रह्म॑ जिन्वतमु॒त जि॑न्वतं॒ धियो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥१६

ब्रह्म॑ । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । धियः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥१६

ब्रह्म । जिन्वतम् । उत । जिन्वतम् । धियः । हतम् । रक्षांसि । सेधतम् । अमीवाः ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । सुन्वतः । अश्विना ॥१६

हे अश्विनौ युवां “ब्रह्म ब्राह्मणं “जिन्वतं प्रीणयतम् । “उत अपि च "धियः कर्माणि "जिन्वतम्। “हतं च "रक्षांसि । "अमीवाः राक्षसांश्च "सेधतम् । "उषसा "सूर्येण “च संगतौ "सुन्वतः यजमानस्य "सोमं पिबतमित्यर्थः ॥


क्ष॒त्रं जि॑न्वतमु॒त जि॑न्वतं॒ नॄन्ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥१७

क्ष॒त्रम् । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । नॄन् । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥१७

क्षत्रम् । जिन्वतम् । उत । जिन्वतम् । नॄन् । हतम् । रक्षांसि । सेधतम् । अमीवाः ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । सुन्वतः । अश्विना ॥१७

हे अश्विनौ युवां "क्षत्रं क्षत्रियं "जिन्वतम् । "उत अपि च "नॄन् योद्धॄन् "जिन्वतम् । सिद्धमन्यत् ॥


धे॒नूर्जि॑न्वतमु॒त जि॑न्वतं॒ विशो॑ ह॒तं रक्षां॑सि॒ सेध॑त॒ममी॑वाः ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ सुन्व॒तो अ॑श्विना ॥१८

धे॒नूः । जि॒न्व॒त॒म् । उ॒त । जि॒न्व॒त॒म् । विशः॑ । ह॒तम् । रक्षां॑सि । सेध॑तम् । अमी॑वाः ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । सु॒न्व॒तः । अ॒श्वि॒ना॒ ॥१८

धेनूः । जिन्वतम् । उत । जिन्वतम् । विशः । हतम् । रक्षांसि । सेधतम् । अमीवाः ।

सऽजोषसौ । उषसा । सूर्येण । च । सोमम् । सुन्वतः । अश्विना ॥१८

हे अश्विनौ “धेनूर्जिन्वतम् । "उत अपि च "विशः वैश्यांश्च "जिन्वतम् । सिद्धमन्यत् ॥ ॥ १६ ॥


अत्रे॑रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥१९

अत्रेः॑ऽइव । शृ॒णु॒त॒म् । पू॒र्व्यऽस्तु॑तिम् । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥१९

अत्रेःऽइव । शृणुतम् । पूर्व्यऽस्तुतिम् । श्यावऽअश्वस्य । सुन्वतः । मदऽच्युता ।

सऽजोषसौ । उषसा । सूर्येण । च । अश्विना । तिरःऽअह्न्यम् ॥१९

हे अश्विनौ "मदच्युता शत्रूणां मदस्य च्यावयितारौ युवां "सुन्वतः सोमाभिषवं कुर्वतः “श्यावाश्वस्य मम पितामहस्य “अत्रेरिव “पूर्व्यस्तुतिं मुख्यां स्तुतिं “शृणुतम् । "उषसा "सूर्येण “च संगतौ "तिरोअह्नयं सोमं पिबतम् । तिरोहिते पूर्वस्मिन्नहनि अपरेद्युः प्रातरश्विनोर्याग इति ॥


सर्गाँ॑ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥२०

सर्गा॑न्ऽइव । सृ॒ज॒त॒म् । सु॒ऽस्तु॒तीः । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥२०

सर्गान्ऽइव । सृजतम् । सुऽस्तुतीः । उप । श्यावऽअश्वस्य । सुन्वतः । मदऽच्युता ।

सऽजोषसौ । उषसा । सूर्येण । च । अश्विना । तिरःऽअह्न्यम् ॥२०

हे अश्विनौ “श्यावाश्वस्य मम "सुष्टुतीः शोभनाः स्तुतीः "सर्गानिव। आभरणानि वा हवींषि वा सर्गाः । तान् यथा तथा आत्मनि "उप सृजतम् । सिद्धमन्यत् ॥


र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता ।

स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चाश्वि॑ना ति॒रोअ॑ह्न्यं ॥२१

र॒श्मीन्ऽइ॑व । य॒च्छ॒त॒म् । अ॒ध्व॒रान् । उप॑ । श्या॒वऽअ॑श्वस्य । सु॒न्व॒तः । म॒द॒ऽच्यु॒ता॒ ।

स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । अश्वि॑ना । ति॒रःऽअ॑ह्न्यम् ॥२१

रश्मीन्ऽइव । यच्छतम् । अध्वरान् । उप । श्यावऽअश्वस्य । सुन्वतः । मदऽच्युता ।

सऽजोषसौ । उषसा । सूर्येण । च । अश्विना । तिरःऽअह्न्यम् ॥२१

हे अश्विनौ “श्यावाश्वस्य मम "अध्वरान् "रश्मीनिव यथाश्वप्रग्रहांस्तद्वत् "उप "यच्छतम् उपगच्छतम् । सिद्धमन्यत् ॥


अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥२२

अ॒र्वाक् । रथ॑म् । नि । य॒च्छ॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥२२

अर्वाक् । रथम् । नि । यच्छतम् । पिबतम् । सोम्यम् । मधु ।

आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥२२

हे अश्विनौ वां स्वीयं "रथम् "अर्वाक् अस्मदभिमुखं “नि "यच्छतम् । "सोम्यं सोममयं “मधु अमृतं च "पिबतम् । यज्ञम् “आ “यातं च । सोमं प्रति “आ “गतम् आगच्छतं च । "अवस्युः रक्षणकामः "अहं श्यावाश्वः “वां "हुवे ह्वयामि । "दाशुषे हवींषि प्रयच्छते मह्यं "रत्नानि “धत्तं धारयतम् ॥


न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥२३

न॒मः॒ऽवा॒के । प्रऽस्थि॑ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष॑णस्य । पी॒तये॑ ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥२३

नमःऽवाके । प्रऽस्थिते । अध्वरे । नरा । विवक्षणस्य । पीतये ।

आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥२३

हे अश्विनौ "नरा नेतारौ युवां “विवक्षणस्य हवनशीलस्य मम “प्रस्थिते "नमोवाके । नमस्काराय प्रोच्यते स नमोवाकः । तस्मिन् “अध्वरे यज्ञे । तथा च ब्राह्मणम्-' उभयं सह वा एतद्यज्ञ एवं यत्सूक्तवाकश्च नमोवाकश्च' (श. ब्रा. १. ९. १. ४ ) इति । "पीतये सोमपानाय "आ “यातम् । सिद्धमन्यत् ।।


स्वाहा॑कृतस्य तृंपतं सु॒तस्य॑ देवा॒वंध॑सः ।

आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥२४

स्वाहा॑ऽकृतस्य । तृ॒म्प॒त॒म् । सु॒तस्य॑ । दे॒वौ॒ । अन्ध॑सः ।

आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥२४

स्वाहाऽकृतस्य । तृम्पतम् । सुतस्य । देवौ । अन्धसः ।

आ । यातम् । अश्विना । आ । गतम् । अवस्युः । वाम् । अहम् । हुवे । धत्तम् । रत्नानि । दाशुषे ॥२४

हे अश्विनौ “देवौ युवां “सुतस्य अभिषुतस्य "स्वाहाकृतस्य हुतस्य "अन्धसः सोमस्य "तृम्पतं तृप्यतम् । सिद्धमन्यत् ॥ ॥ १७ ॥


मण्डल ८

सूक्तं ८.१

सूक्तं ८.२

सूक्तं ८.३

सूक्तं ८.४

सूक्तं ८.५

सूक्तं ८.६

सूक्तं ८.७

सूक्तं ८.८

सूक्तं ८.९

सूक्तं ८.१०

सूक्तं ८.११

सूक्तं ८.१२

सूक्तं ८.१३

सूक्तं ८.१४

सूक्तं ८.१५

सूक्तं ८.१६

सूक्तं ८.१७

सूक्तं ८.१८

सूक्तं ८.१९

सूक्तं ८.२०

सूक्तं ८.२१

सूक्तं ८.२२

सूक्तं ८.२३

सूक्तं ८.२४

सूक्तं ८.२५

सूक्तं ८.२६

सूक्तं ८.२७

सूक्तं ८.२८

सूक्तं ८.२९

सूक्तं ८.३०

सूक्तं ८.३१

सूक्तं ८.३२

सूक्तं ८.३३

सूक्तं ८.३४

सूक्तं ८.३५

सूक्तं ८.३६

सूक्तं ८.३७

सूक्तं ८.३८

सूक्तं ८.३९

सूक्तं ८.४०

सूक्तं ८.४१

सूक्तं ८.४२

सूक्तं ८.४३

सूक्तं ८.४४

सूक्तं ८.४५

सूक्तं ८.४६

सूक्तं ८.४७

सूक्तं ८.४८

सूक्तं ८.४९

सूक्तं ८.५०

सूक्तं ८.५१

सूक्तं ८.५२

सूक्तं ८.५३

सूक्तं ८.५४

सूक्तं ८.५५

सूक्तं ८.५६

सूक्तं ८.५७

सूक्तं ८.५८

सूक्तं ८.५९

सूक्तं ८.६०

सूक्तं ८.६१

सूक्तं ८.६२

सूक्तं ८.६३

सूक्तं ८.६४

सूक्तं ८.६५

सूक्तं ८.६६

सूक्तं ८.६७

सूक्तं ८.६८

सूक्तं ८.६९

सूक्तं ८.७०

सूक्तं ८.७१

सूक्तं ८.७२

सूक्तं ८.७३

सूक्तं ८.७४

सूक्तं ८.७५

सूक्तं ८.७६

सूक्तं ८.७७

सूक्तं ८.७८

सूक्तं ८.७९

सूक्तं ८.८०

सूक्तं ८.८१

सूक्तं ८.८२

सूक्तं ८.८३

सूक्तं ८.८४

सूक्तं ८.८५

सूक्तं ८.८६

सूक्तं ८.८७

सूक्तं ८.८८

सूक्तं ८.८९

सूक्तं ८.९०

सूक्तं ८.९१

सूक्तं ८.९२

सूक्तं ८.९३

सूक्तं ८.९४

सूक्तं ८.९५

सूक्तं ८.९६

सूक्तं ८.९७

सूक्तं ८.९८

सूक्तं ८.९९

सूक्तं ८.१००

सूक्तं ८.१०१

सूक्तं ८.१०२

सूक्तं ८.१०३

"https://sa.wikisource.org/w/index.php?title=ऋग्वेदः_सूक्तं_८.३५&oldid=208928" इत्यस्माद् प्रतिप्राप्तम्