ऋग्वेदः सूक्तं ८.१२
← सूक्तं ८.११ | ऋग्वेदः - मण्डल ८ सूक्तं ८.१२ पर्वतः काण्वः। |
सूक्तं ८.१३ → |
दे. इन्द्रः । उष्णिक्, ३३ शंकुमती (पिंगलमतेन ) |
य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।
येना हंसि न्यत्रिणं तमीमहे ॥१॥
येना दशग्वमध्रिगुं वेपयन्तं स्वर्णरम् ।
येना समुद्रमाविथा तमीमहे ॥२॥
येन सिन्धुं महीरपो रथाँ इव प्रचोदयः ।
पन्थामृतस्य यातवे तमीमहे ॥३॥
इमं स्तोममभिष्टये घृतं न पूतमद्रिवः ।
येना नु सद्य ओजसा ववक्षिथ ॥४॥
इमं जुषस्व गिर्वणः समुद्र इव पिन्वते ।
इन्द्र विश्वाभिरूतिभिर्ववक्षिथ ॥५॥
यो नो देवः परावतः सखित्वनाय मामहे ।
दिवो न वृष्टिं प्रथयन्ववक्षिथ ॥६॥
ववक्षुरस्य केतवो उत वज्रो गभस्त्योः ।
यत्सूर्यो न रोदसी अवर्धयत् ॥७॥
यदि प्रवृद्ध सत्पते सहस्रं महिषाँ अघः ।
आदित्त इन्द्रियं महि प्र वावृधे ॥८॥
इन्द्रः सूर्यस्य रश्मिभिर्न्यर्शसानमोषति ।
अग्निर्वनेव सासहिः प्र वावृधे ॥९॥
इयं त ऋत्वियावती धीतिरेति नवीयसी ।
सपर्यन्ती पुरुप्रिया मिमीत इत् ॥१०॥
गर्भो यज्ञस्य देवयुः क्रतुं पुनीत आनुषक् ।
स्तोमैरिन्द्रस्य वावृधे मिमीत इत् ॥११॥
सनिर्मित्रस्य पप्रथ इन्द्रः सोमस्य पीतये ।
प्राची वाशीव सुन्वते मिमीत इत् ॥१२॥
यं विप्रा उक्थवाहसोऽभिप्रमन्दुरायवः ।
घृतं न पिप्य आसन्यृतस्य यत् ॥१३॥
उत स्वराजे अदिति स्तोममिन्द्राय जीजनत् ।
पुरुप्रशस्तमूतय ऋतस्य यत् ॥१४॥
अभि वह्नय ऊतयेऽनूषत प्रशस्तये ।
न देव विव्रता हरी ऋतस्य यत् ॥१५॥
यत्सोममिन्द्र विष्णवि यद्वा घ त्रित आप्त्ये ।
यद्वा मरुत्सु मन्दसे समिन्दुभिः ॥१६॥
यद्वा शक्र परावति समुद्रे अधि मन्दसे ।
अस्माकमित्सुते रणा समिन्दुभिः ॥१७॥
यद्वासि सुन्वतो वृधो यजमानस्य सत्पते ।
उक्थे वा यस्य रण्यसि समिन्दुभिः ॥१८॥
देवंदेवं वोऽवस इन्द्रमिन्द्रं गृणीषणि ।
अधा यज्ञाय तुर्वणे व्यानशुः ॥१९॥
यज्ञेभिर्यज्ञवाहसं सोमेभिः सोमपातमम् ।
होत्राभिरिन्द्रं वावृधुर्व्यानशुः ॥२०॥
महीरस्य प्रणीतयः पूर्वीरुत प्रशस्तयः ।
विश्वा वसूनि दाशुषे व्यानशुः ॥२१॥
इन्द्रं वृत्राय हन्तवे देवासो दधिरे पुरः ।
इन्द्रं वाणीरनूषता समोजसे ॥२२॥
महान्तं महिना वयं स्तोमेभिर्हवनश्रुतम् ।
अर्कैरभि प्र णोनुमः समोजसे ॥२३॥
न यं विविक्तो रोदसी नान्तरिक्षाणि वज्रिणम् ।
अमादिदस्य तित्विषे समोजसः ॥२४॥
यदिन्द्र पृतनाज्ये देवास्त्वा दधिरे पुरः ।
आदित्ते हर्यता हरी ववक्षतुः ॥२५॥
यदा वृत्रं नदीवृतं शवसा वज्रिन्नवधीः ।
आदित्ते हर्यता हरी ववक्षतुः ॥२६॥
यदा ते विष्णुरोजसा त्रीणि पदा विचक्रमे ।
आदित्ते हर्यता हरी ववक्षतुः ॥२७॥
यदा ते हर्यता हरी वावृधाते दिवेदिवे ।
आदित्ते विश्वा भुवनानि येमिरे ॥२८॥
यदा ते मारुतीर्विशस्तुभ्यमिन्द्र नियेमिरे ।
आदित्ते विश्वा भुवनानि येमिरे ॥२९॥
यदा सूर्यममुं दिवि शुक्रं ज्योतिरधारयः ।
आदित्ते विश्वा भुवनानि येमिरे ॥३०॥
इमां त इन्द्र सुष्टुतिं विप्र इयर्ति धीतिभिः ।
जामिं पदेव पिप्रतीं प्राध्वरे ॥३१॥
यदस्य धामनि प्रिये समीचीनासो अस्वरन् ।
नाभा यज्ञस्य दोहना प्राध्वरे ॥३२॥
सुवीर्यं स्वश्व्यं सुगव्यमिन्द्र दद्धि नः ।
होतेव पूर्वचित्तये प्राध्वरे ॥३३॥
सायणभाष्यम्
॥ श्रीगणेशाय नमः ।।
वागीशाद्याः सुमनसः सर्वार्थानामुपक्रमे।
यं नत्वा कृतकृत्याः स्युस्तं नमामि गजाननम् ॥
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥
इत्थं पञ्चमाष्टकं व्याख्यायेदानीमृषिच्छन्दोदेवताविनियोगप्रदर्शनपुरःसरं षष्ठस्य प्रथमोऽध्यायो व्याख्यातुमारभ्यते । अष्टममण्डलस्य द्वितीयेऽनुवाके षट् सूक्तानि जातानि । “य इन्द्र' इति त्रयस्त्रिंशदृचं सप्तमं सूक्तं कृण्वगोत्रस्य पर्वताख्यस्यार्षमौष्णिहमैन्द्रम् । तथा चानुक्रान्तं- य इन्द्र त्रयस्त्रिंशत्पर्वत औष्णिहं तु' इति । महाव्रते निष्केवल्य औष्णिहतृचाशीताविदमादिके द्वे सूक्ते । तथैव पञ्चमारण्यके सूत्र्यते –' औष्णिही तृचाशीतिर्य इन्द्र सोमपातम इति सूक्ते ' (ऐ. आ. ५. २. ५) इति । दशमेऽहनि निष्केवल्य आदितः पडृचः शंसनीयाः । सूत्र्यते हि -- य इन्द्र सोमपातम इति षळुष्णिहः' (आश्व. श्रौ. ८. १२) इति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्रह्मशस्त्र आद्यस्तृचो वैकल्पिकोऽनुरूपः । सूत्रितं च -- य इन्द्र सोमपातम एन्द्र नो गधि ' ( आश्व. श्रौ. ७. ८) इति । तृतीये पर्यायेऽच्छावाकशस्त्रेऽप्ययमेव तृचोऽनुरूपः । सूत्रितं च– इन्द्रः सुतेषु सोमेषु य इन्द्र सोमपातमः' (आश्व. श्रौ. ६. ४) इति ॥
य इ॑न्द्र सोम॒पात॑मो॒ मद॑ः शविष्ठ॒ चेत॑ति ।
येना॒ हंसि॒ न्य१॒॑त्रिणं॒ तमी॑महे ॥१
यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।
येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥१
यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति ।
येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥१
हे “इन्द्र “यः त्वं “सोमपातमः अतिशयेन सोमस्य पाता । हे “शविष्ठ बलवत्तम । शव इति बलनाम । तस्माद्विनन्तादातिशायनिक इष्ठन् । ' विन्मतोलुक् ' । टिलोपः। हे ईदृशेन्द्र तस्य तव सोमपानजनितो यः “मदः “चेतति सम्यग्जानाति वृत्रवधादीनि कार्याणि कर्तुम् । य इत्यस्य चेततीत्यनेनापि संबन्धात् यद्वृत्तान्नित्यम् ' इति तिङ् न निहन्यते । अथवैतदेवं वाक्यम् । हे बलवत्तमेन्द्र सोमपातमः सोमस्य पातृतमो यस्त्वं मदः सोमैर्मादयितव्यस्तर्पणीयः संश्चेतति । पुरुषव्यत्ययः । चेतसि सम्यग्जानासि ।' मदोऽनुपसर्गे ' इति मदेः कर्मण्यप् । “येन सोमपानजनितेन मदेन “अत्रिणम् अत्तारं राक्षसादिकं “नि "हंसि निहिनस्सि निकृष्टां हिंसां प्रापयसि “तं मदं तादृङ्मदोपेतं त्वां वा “ईमहे । याञ्चाकर्मायम् । याचामहे । यद्वा । ई गतौ । देवादिकः । छान्दसो विकरणस्य लुक् । ईयामहे उपगच्छामः । स्तुतिभिः संभजामह इत्यर्थः ॥
येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय॑न्तं॒ स्व॑र्णरम् ।
येना॑ समु॒द्रमावि॑था॒ तमी॑महे ॥२
यः । इ॒न्द्र॒ । सो॒म॒ऽपात॑मः । मदः॑ । श॒वि॒ष्ठ॒ । चेत॑ति ।
येन॑ । हंसि॑ । नि । अ॒त्रिण॑म् । तम् । ई॒म॒हे॒ ॥२
यः । इन्द्र । सोमऽपातमः । मदः । शविष्ठ । चेतति ।
येन । हंसि । नि । अत्रिणम् । तम् । ईमहे ॥२
हे इन्द्र “येन सोमपानजनितेन मदेन “दशग्वम् । ये दशभिर्मासैः सत्त्रासनं परिसमाप्य निरगमन् ते दशग्वा अङ्गिरसः। तेषामन्यतमम् “अधिगुम् अधृतगमनमनिवारितगतिमेतत्संज्ञं चर्षिं “वेपयन्तं तमांसि वर्जयन्तं “स्वर्णरं सर्वस्य नेतारं सूर्यं च "आविथ वृत्रादेर्दस्योरपनयनेन ररक्षिथ । "येन च मदेन “समुद्रम् उदधिमन्तरिक्षं वा आविथ ररक्षिथ। "तं त्वदीयं मदं तद्वन्तं त्वां वा "ईमहे थाचामहे । मदे हि सति हृष्टः सन्निन्द्रो बहु धनं प्रयच्छति । अतस्तत्कारणस्य मदस्य याञ्चोपपन्ना ॥
येन॒ सिन्धुं॑ म॒हीर॒पो रथाँ॑ इव प्रचो॒दय॑ः ।
पन्था॑मृ॒तस्य॒ यात॑वे॒ तमी॑महे ॥३
येन॑ । सिन्धु॑म् । म॒हीः । अ॒पः । रथा॑न्ऽइव । प्र॒ऽचो॒दयः॑ ।
पन्था॑म् । ऋ॒तस्य॑ । यात॑वे । तम् । ई॒म॒हे॒ ॥३
येन । सिन्धुम् । महीः । अपः । रथान्ऽइव । प्रऽचोदयः ।
पन्थाम् । ऋतस्य । यातवे । तम् । ईमहे ॥३
हे इन्द्र “महीः महतीः “अपः वृष्ट्युदकानि “सिन्धुं स्यन्दनशीलां नदीं समुद्रं वा प्रति “येन सोमपानजन्येन मदेन “प्रचोदयः प्रेरयसि । तत्र दृष्टान्तः । “रथानिव । यथा रथिनो रथान् स्वाभिलषितदेशगमनाय प्रेरयन्ति तद्वत् । “ऋतस्य यज्ञस्य “पन्थां पन्थानं मार्गं "यातवे यातुं प्राप्तुं “तं मदम् “ईमहे याचामहे ॥
इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः ।
येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ॥४
इ॒मम् । स्तोम॑म् । अ॒भिष्ट॑ये । घृ॒तम् । न । पू॒तम् । अ॒द्रि॒ऽवः॒ ।
येन॑ । नु । स॒द्यः । ओज॑सा । व॒वक्षि॑थ ॥४
इमम् । स्तोमम् । अभिष्टये । घृतम् । न । पूतम् । अद्रिऽवः ।
येन । नु । सद्यः । ओजसा । ववक्षिथ ॥४
हे “अद्रिवः वज्रवन्निन्द्र “घृतं “न घृतमिव मन्त्रपूतमाज्यमिव “पूतं शुद्धम् “इमम् अस्मदीयं “स्तोमं स्तोत्रं बुध्यस्वेति शेषः । किमर्थम् । “अभिष्टये अभिप्राप्त्यै । इष्टस्य धनादेरस्माकं लाभायेत्यर्थः । “येन स्तोत्रेण स्तूयमानः सन् “ओजसा आत्मीयेन बलेन “सद्यः तदानीमेव स्तुतिसमय एव “नु क्षिप्रं “ववक्षिथ अस्मान् वहसि अभिलषितं प्रापयसि इमं स्तोममित्यन्वयः ॥
इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते ।
इन्द्र॒ विश्वा॑भिरू॒तिभि॑र्व॒वक्षि॑थ ॥५
इ॒मम् । जु॒ष॒स्व॒ । गि॒र्व॒णः॒ । स॒मु॒द्रःऽइ॑व । पि॒न्व॒ते॒ ।
इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ । व॒वक्षि॑थ ॥५
इमम् । जुषस्व । गिर्वणः । समुद्रःऽइव । पिन्वते ।
इन्द्र । विश्वाभिः । ऊतिऽभिः । ववक्षिथ ॥५
हे “गिर्वणः गिरां स्तुतीनां संभक्तः यद्वा स्तुतिभिः संभजनीयेन्द्र “इमं स्तोमं मया क्रियमाणं “जुषस्व सेवस्व । स च स्तोमः “समुद्रइव समुद्रो यथा चन्द्रोदयं प्राप्य “पिन्वते वर्धते। अभिधेयस्येन्द्रगुणगणस्याधिक्येन तत्प्रतिपादिका स्तुतिरपि विस्तृता भवतीत्यर्थः ॥ पूर्वस्यामृचि ववक्षिथेत्यनेन युक्तो येनेति शब्दोऽत्रापि सामर्थ्यात्तेन संबध्यते । अत एवास्य ‘तिङ्ङतिङः' इति निघाताभावः ।। हे “इन्द्र येन स्तोमेन हेतुना “विश्वाभिः व्याप्ताभिः “ऊतिभिः रक्षाभिः “ववक्षिथ वहसि श्रेयांस्यस्मान् प्रापयसि ॥ वहेः सनन्ताल्लिटि ‘ °अमन्त्रे ' इति निषेधादामभावे थलि लिटि रूपमेतत् ॥ ॥ १ ॥
यो नो॑ दे॒वः प॑रा॒वत॑ः सखित्व॒नाय॑ माम॒हे ।
दि॒वो न वृ॒ष्टिं प्र॒थय॑न्व॒वक्षि॑थ ॥६
यः । नः॒ । दे॒वः । प॒रा॒ऽवतः॑ । स॒खि॒ऽत्व॒नाय॑ । म॒म॒हे ।
दि॒वः । न । वृ॒ष्टिम् । प्र॒थय॑न् । व॒वक्षि॑थ ॥६
यः । नः । देवः । पराऽवतः । सखिऽत्वनाय । ममहे ।
दिवः । न । वृष्टिम् । प्रथयन् । ववक्षिथ ॥६
“यः "देवः दानादिगुणयुक्त इन्द्रः “परावतः परावताद्दूरात् द्युलोकादागत्य “नः अस्माकं “सखित्वनाय सखित्वाय “मामहे धनानि प्रददौ । मंहतेर्दानकर्मण एतद्रूपम् । यद्वा । अस्माभिः पूज्यते । ‘मह पूजायाम् ' । अस्माच्छान्दसः कर्मणि लिट् । उत्तरार्धर्चः प्रत्यक्षकृतः । हे इन्द्र “दिवो “न “वृष्टिं दिवः सकाशाद्वृष्टिमिव “प्रथयन् अस्मदीयानि धनानि विस्तारयन् यस्त्वं “ववक्षिथ अस्मान् वोढुमिच्छसि तादृशं त्वां स्तौमीति शेषः ।।
व॒व॒क्षुर॑स्य के॒तवो॑ उ॒त वज्रो॒ गभ॑स्त्योः ।
यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ॥७
व॒व॒क्षुः । अ॒स्य॒ । के॒तवः॑ । उ॒त । वज्रः॑ । गभ॑स्त्योः ।
यत् । सूर्यः॑ । न । रोद॑सी॒ इति॑ । अव॑र्धयत् ॥७
ववक्षुः । अस्य । केतवः । उत । वज्रः । गभस्त्योः ।
यत् । सूर्यः । न । रोदसी इति । अवर्धयत् ॥७
“अस्य इन्द्रस्य “केतवः प्रज्ञानान्यस्मत्स्तुतिविषयाणि । यद्वा । रथे उत्क्षिप्ताः पताकाः केतवः । “ववक्षुः अवहन् । अस्माञ्छ्रेयांसि प्रापयन् । “उत अपि च "गभस्त्योः । बाहुनामैतत् । इन्द्रस्य हस्तयोरवस्थितः “वज्रः च अवहत् । “यत् यदायमिन्द्रः “सूर्यो “न सर्वस्य प्रेरक आदित्य इव “रोदसी द्यावापृथिव्यौ वृष्ट्यादिप्रदानेन “अवर्धयत् तदानीमित्यर्थः ॥
यदि॑ प्रवृद्ध सत्पते स॒हस्रं॑ महि॒षाँ अघ॑ः ।
आदित्त॑ इन्द्रि॒यं महि॒ प्र वा॑वृधे ॥८
यदि॑ । प्र॒ऽवृ॒द्ध॒ । स॒त्ऽप॒ते॒ । स॒हस्र॑म् । म॒हि॒षान् । अघः॑ ।
आत् । इत् । ते॒ । इ॒न्द्रि॒यम् । महि॑ । प्र । व॒वृ॒धे॒ ॥८
यदि । प्रऽवृद्ध । सत्ऽपते । सहस्रम् । महिषान् । अघः ।
आत् । इत् । ते । इन्द्रियम् । महि । प्र । ववृधे ॥८
हे “प्रवृद्ध प्रकर्षेण महन् हे “सत्पते सतामनुष्ठातॄणां पालयितरिन्द्र “सहस्रं सहस्रसंख्याकान् “महिषान् । महन्नामैतत् । महतोऽसुरान् वृत्रादीन् “यदि यदा “अघः अवधीः । हन्तेश्छान्दसमेतद्रूपम् । यद्वा ।' घस्लृ अदने ' । लुङि सिपि ' मन्त्रे घस ' इति च्लेर्लुक् । “आदित् अनन्तरमेव हे इन्द्र “ते तव “इन्द्रियं वीर्यं “महि महद्बहुलं सत् “प्र “वावृधे प्रकर्षेण वर्धते ।।
इन्द्र॒ः सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो॑षति ।
अ॒ग्निर्वने॑व सास॒हिः प्र वा॑वृधे ॥९
इन्द्रः॑ । सूर्य॑स्य । र॒श्मिऽभिः॑ । नि । अ॒र्श॒सा॒नम् । ओ॒ष॒ति॒ ।
अ॒ग्निः । वना॑ऽइव । स॒स॒हिः । प्र । व॒वृ॒धे॒ ॥९
इन्द्रः । सूर्यस्य । रश्मिऽभिः । नि । अर्शसानम् । ओषति ।
अग्निः । वनाऽइव । ससहिः । प्र । ववृधे ॥९
अयम् “इन्द्रः “सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य “रश्मिभिः किरणैः करणभूतैः “अर्शसानम् ॥ ‘ अर्त्तेर्गुणः शुद् च' (उ. सू. २. २४५) इति ‘ऋ गतौ ' इत्यस्मादसानच्प्रत्ययः शुडागमश्च । अत्र केवलोऽप्यर्तिराङ्पूर्वार्थो द्रष्टव्यः । आङ्पूर्वश्च बाधने वर्तते । यथा “आर्तिमार्तोः ' (श. बा. १३. १. २. ४ ) इति ॥ अर्शसानं बाधमानं सन्देहादिकमसुरं “नि “ओषति नितरां दहति । ‘ उष दाहे'। तत्र दृष्टान्तः । “अग्निर्वनेव । यथा वनारण्यानि दावानलो भस्मसात् करोति तद्वत् । एवं “सासहिः शत्रूणामभिभवनशील इन्द्रः “प्र “वावृधे प्रकर्षेण वर्धते ॥
इ॒यं त॑ ऋ॒त्विया॑वती धी॒तिरे॑ति॒ नवी॑यसी ।
स॒प॒र्यन्ती॑ पुरुप्रि॒या मिमी॑त॒ इत् ॥१०
इ॒यम् । ते॒ । ऋ॒त्विय॑ऽवती । धी॒तिः । ए॒ति॒ । नवी॑यसी ।
स॒प॒र्यन्ती॑ । पु॒रु॒ऽप्रि॒या । मिमी॑ते । इत् ॥१०
इयम् । ते । ऋत्वियऽवती । धीतिः । एति । नवीयसी ।
सपर्यन्ती । पुरुऽप्रिया । मिमीते । इत् ॥१०
हे इन्द्र “ते त्वाम् “इयं पुरोवर्तिनी मया क्रियमाणा “धीतिः स्तुतिः “एति गच्छति । कीदृशी । “ऋत्वियावती । ऋतौ वसन्तादिकालेऽनुष्ठेयं यज्ञकर्म ऋत्वियम् । तद्वती "नवीयसी अतिशयेनाभिनवा स्तुतिः । “सपर्यन्ती पूजयन्ती “पुरुप्रिया पुरु बहुलं प्रीणयित्री सती “मिमीत “इत् इन्द्रगतान् गुणान् परिच्छिनत्त्येव । माहात्म्यं प्रख्यापयत्येव सेयमित्यन्वयः । अनुमीयमानेन वच्छब्देन च योगान्मिमीत इत्यस्य निघाताभावः । यद्वा। सपर्यन्ती पुरुप्रियेतीदमप्येतीत्यनेन संबन्धनीयम् । अतः पूर्वपदस्य भिन्नवाक्यस्थत्वात् ‘ समानवाक्ये युष्मदस्मदादेशा वक्तव्याः' इति वचनात्तदपेक्षया निघाताभावे सति ‘अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् ॥ ॥ २ ॥
गर्भो॑ य॒ज्ञस्य॑ देव॒युः क्रतुं॑ पुनीत आनु॒षक् ।
स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी॑त॒ इत् ॥११
गर्भः॑ । य॒ज्ञस्य॑ । दे॒व॒ऽयुः । क्रतु॑म् । पु॒नी॒ते॒ । आ॒नु॒षक् ।
स्तोमैः॑ । इन्द्र॑स्य । व॒वृ॒धे॒ । मिमी॑ते । इत् ॥११
गर्भः । यज्ञस्य । देवऽयुः । क्रतुम् । पुनीते । आनुषक् ।
स्तोमैः । इन्द्रस्य । ववृधे । मिमीते । इत् ॥११
“यज्ञस्य यष्टव्यस्येन्द्रस्य "गर्भः गरिता स्तोता। 'गॄ शब्दे'। 'अर्तिगॄभ्यां भन्' । यद्वा । यजेर्भाव एव नङ्प्रत्ययः । यागस्य गर्भो ग्रहीतानुष्ठाता “देवयुः देवं दानादिगुणयुक्तमिन्द्रमात्मन इच्छन् "आनुषक् अनुषक्तमानुपूर्व्येण संततं यथा भवति तथा “क्रतुं प्रज्ञापकं सोमं “पुनीते दशापवित्रेण शोधयति । इन्द्रपानार्थमिति शेषः । यद्वा । यज्ञस्य गर्भो दीक्षितः । पुनर्वा एतमृत्विजो गर्भं कुर्वन्ति ' (ऐ. ब्रा. १. ३) इत्यादि ब्राह्मणम् । स देवकामः क्रतुं ज्योतिष्टोमादिकमानुषक् । आनुपूर्व्यनामैतत् । यदाह यास्कः- ‘ आनुषगति नामानुपूर्व्यस्य' (निरु. ६. १४) इति । स स्तोता “इन्द्रस्य । कर्मणि षष्ठी । इन्द्रविषयैः “स्तोमैः स्तोत्रैः “ववृधे वर्धते । यद्वा । वृधिना प्रयोज्यव्यापारवाचिना प्रयोजकव्यापारो लक्ष्यते । स्तोमैः स्तोत्रैस्तमिन्द्रं वर्धयति । स च स्तोमैः “मिमीत “इत् इन्द्रस्य गुणजातं परिच्छिनत्त्येव । अनुगतार्थो भवतीत्यर्थः ॥
स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्र॒ः सोम॑स्य पी॒तये॑ ।
प्राची॒ वाशी॑व सुन्व॒ते मिमी॑त॒ इत् ॥१२
स॒निः । मि॒त्रस्य॑ । प॒प्र॒थे॒ । इन्द्रः॑ । सोम॑स्य । पी॒तये॑ ।
प्राची॑ । वाशी॑ऽइव । सु॒न्व॒ते । मिमी॑ते । इत् ॥१२
सनिः । मित्रस्य । पप्रथे । इन्द्रः । सोमस्य । पीतये ।
प्राची । वाशीऽइव । सुन्वते । मिमीते । इत् ॥१२
“मित्रस्य मित्रभूतस्य स्तोतुः “सनिः धनस्य दाता “इन्द्रः “सोमस्य “पीतये पानाय “पप्रथे प्रथितो विस्तीर्णशरीरो बभूव । यथा पीतो बहुलः सोमः उदरेऽन्तर्भवति तथा प्रवृद्धशरीरो बभूवेत्यर्थः । तत्र प्रथमे दृष्टान्तः । “प्राची प्राञ्चन्ती प्रकर्षेण स्तुत्यगुणगणं प्राप्नुवती “वाशीव । वाङ्नामैतत् । स्तुतिरूपा वाक् “सुन्वते । ‘षष्ठ्यर्थे चतुर्थी वक्तव्या' इति चतुर्थी । सुन्वतः सोमाभिषवं कुर्वतो यजमानस्य संबन्धिनी यथा स्तुत्यगुणबाहुल्येन विस्तीर्णा भवति तथेन्द्रः पप्रथ इत्यर्थः । प्रथिता च सा “मिमीत “इत् इन्द्रमाहात्म्यं यथावत् परिच्छिनत्त्येव ॥
यं विप्रा॑ उ॒क्थवा॑हसोऽभिप्रम॒न्दुरा॒यव॑ः ।
घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ॥१३
यम् । विप्राः॑ । उ॒क्थऽवा॑हसः । अ॒भि॒ऽप्र॒म॒न्दुः । आ॒यवः॑ ।
घृ॒तम् । न । पि॒प्ये॒ । आ॒सनि॑ । ऋ॒तस्य॑ । यत् ॥१३
यम् । विप्राः । उक्थऽवाहसः । अभिऽप्रमन्दुः । आयवः ।
घृतम् । न । पिप्ये । आसनि । ऋतस्य । यत् ॥१३
“विप्राः मेधाविनः “उक्थवाहसः उक्थानां शस्त्राणां वोढारः प्रापयितारः “आयवः मनुष्याः “यम् इन्द्रम् “अभिप्रमन्दुः अभि प्रकर्षेण मादयन्ति ।। मदेर्व्यत्ययेन परस्मैपदम् । ‘ द्विर्वचनप्रकरणे छन्दसि वा ' ( का. ६. १. ८. १) इति वचनात् द्विर्वचनाभावः ।। तस्येन्द्रस्य “आसनि आस्ये । ‘ पद्दन्' इत्यादिना आस्यशब्दस्य आसन्नादेशः । “घृतं “न घृतमिव शुद्धं “पिप्ये सेचनेन वर्धये । प्यायतेश्छान्दसो लिट् । लिड्यङोश्च' इति पीभावः । किं तत् । हविः। “ऋतस्य यज्ञस्य संबन्धि “यत् सोमलक्षणं हविरस्ति तदित्यर्थः ।।
उ॒त स्व॒राजे॒ अदि॑ति॒ः स्तोम॒मिन्द्रा॑य जीजनत् ।
पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ॥१४
उ॒त । स्व॒ऽराजे॑ । अदि॑तिः । स्तोम॑म् । इन्द्रा॑य । जी॒ज॒न॒त् ।
पु॒रु॒ऽप्र॒श॒स्तम् । ऊ॒तये॑ । ऋ॒तस्य॑ । यत् ॥१४
उत । स्वऽराजे । अदितिः । स्तोमम् । इन्द्राय । जीजनत् ।
पुरुऽप्रशस्तम् । ऊतये । ऋतस्य । यत् ॥१४
“उत अपि च "अदितिः अदीना देवमाता अखण्डनीयस्तोता वा “स्वराजे स्वयमेव राजमानाय “इन्द्राय पुरुप्रशस्तं बहुलमुत्कृष्टं यद्वा पुरुभिर्बहुभिः प्रशंसितव्यं “स्तोमं स्तोत्रं “जीजनत् अजीजनत् अजनयत् । किमर्थम् । “ऊतये रक्षणार्थम् । “यत् स्तोत्रम् “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि भवति तं स्तोममित्यन्वयः ॥
अ॒भि वह्न॑य ऊ॒तयेऽनू॑षत॒ प्रश॑स्तये ।
न दे॑व॒ विव्र॑ता॒ हरी॑ ऋ॒तस्य॒ यत् ॥१५
अ॒भि । वह्न॑यः । ऊ॒तये॑ । अनू॑षत । प्रऽश॑स्तये ।
न । दे॒व॒ । विऽव्र॑ता । हरी॒ इति॑ । ऋ॒तस्य॑ । यत् ॥१५
अभि । वह्नयः । ऊतये । अनूषत । प्रऽशस्तये ।
न । देव । विऽव्रता । हरी इति । ऋतस्य । यत् ॥१५
“वह्नयः वोढार ऋत्विजः “ऊतये रक्षणार्थं “प्रशस्तये प्रशस्त्यर्थं च "अभि “अनूषत इन्द्रमम्यष्टुवन् । 'नू स्तुतौ ' । कुटादिः । हे “देव दानादिगुणयुक्तेन्द्र । “न इति संप्रत्यर्थे । संप्रति “विव्रता विविधकर्माणौ “हरी त्वदीयावश्वौ “ऋतस्य यज्ञस्य सत्यस्य वा संबन्धि “यत् स्तोत्रं हविर्वा विद्यते तदभिलक्ष्य त्वां वहत इति शेषः । ॥ ३ ॥
यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा॑ घ त्रि॒त आ॒प्त्ये ।
यद्वा॑ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ॥१६
यत् । सोम॑म् । इ॒न्द्र॒ । विष्ण॑वि । यत् । वा॒ । घ॒ । त्रि॒ते । आ॒प्त्ये ।
यत् । वा॒ । म॒रुत्ऽसु॑ । मन्द॑से । सम् । इन्दु॑ऽभिः ॥१६
यत् । सोमम् । इन्द्र । विष्णवि । यत् । वा । घ । त्रिते । आप्त्ये ।
यत् । वा । मरुत्ऽसु । मन्दसे । सम् । इन्दुऽभिः ॥१६
हे “इन्द्र “विष्णवि विष्णौ पानार्थमागते सत्यन्यदीये यागे “सोमं “यत् यदि तेन विष्णुना सार्धं पिबसि । “यद्वा यदि च “आप्त्ये अपां पुत्रे “त्रिते एतत्संज्ञे राजर्षौ यजमाने सोमं पिबसि । “घ इति पूरणः । “यद्वा यदि च “मरुत्सु च सोमपानायागतेष्वन्यदीये यज्ञे “मन्दसे माद्यसि । तथाप्यस्मदीयैरेव "इन्दुभिः सोम “सं सम्यक् माद्य ।।
यद्वा॑ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से ।
अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ॥१७
यत् । वा॒ । श॒क्र॒ । प॒रा॒ऽवति॑ । स॒मु॒द्रे । अधि॑ । मन्द॑से ।
अ॒स्माक॑म् । इत् । सु॒ते । र॒ण॒ । सम् । इन्दु॑ऽभिः ॥१७
यत् । वा । शक्र । पराऽवति । समुद्रे । अधि । मन्दसे ।
अस्माकम् । इत् । सुते । रण । सम् । इन्दुऽभिः ॥१७
हे “शक्र शक्तेन्द्र “परावति परागते दूरदेशे “समुद्रे समुन्दनशीले सोमे । “अधि सप्तम्यर्थानुवादी । “यद्वा यदि वा “मन्दसे माद्यसि तथापि “अस्माकमित् अस्माकमेव सोमे अभिषुते सति “इन्दुभिः सोमरसैः “सं “रण सम्यग्रमस्व ।।
यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते ।
उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ॥१८
यत् । वा॒ । असि॑ । सु॒न्व॒तः । वृ॒धः । यज॑मानस्य । स॒त्ऽप॒ते॒ ।
उ॒क्थे । वा॒ । यस्य॑ । रण्य॑सि । सम् । इन्दु॑ऽभिः ॥१८
यत् । वा । असि । सुन्वतः । वृधः । यजमानस्य । सत्ऽपते ।
उक्थे । वा । यस्य । रण्यसि । सम् । इन्दुऽभिः ॥१८
हे “सत्यते सतां पालयितरिन्द्र “सुन्वतः सोमाभिषवं कुर्वतः “यजमानस्य “यद्वा यदि वा “वृधः “असि वर्धयिता भवसि । वृधेरन्तर्णीतण्यर्थादिगुपधलक्षणः कः । “यस्य च यजमानस्य “उक्थे शस्त्रे “वा शंसिते सति “रण्यसि रमसे । एवमपि "इन्दुभिः अस्मदीयैरेव सोमैः सम्यग्रमस्व॥
दे॒वंदे॑वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ ।
अधा॑ य॒ज्ञाय॑ तु॒र्वणे॒ व्या॑नशुः ॥१९
दे॒वम्ऽदे॑वम् । वः॒ । अव॑से । इन्द्र॑म्ऽइन्द्रम् । गृ॒णी॒षणि॑ ।
अध॑ । य॒ज्ञाय॑ । तु॒र्वणे॑ । वि । आ॒न॒शुः॒ ॥१९
देवम्ऽदेवम् । वः । अवसे । इन्द्रम्ऽइन्द्रम् । गृणीषणि ।
अध । यज्ञाय । तुर्वणे । वि । आनशुः ॥१९
हे ऋत्विग्यजमानाः “वः युष्माकम् “अवसे रक्षणाय “देवंदेवम् “इन्द्रमिन्द्रं दानादिगुणयुक्तम् । इन्द्रो बहुषु देशेषु युगपत्प्रवृत्तेषु यागेषु तत्र तत्र हविःस्वीकरणीय बहूनि शरीराण्याददानः स्वयमेकोऽप्यनेकः संस्तत्र तत्र संनिधत्ते । तथा च निगमान्तरम्-- ‘ इन्द्रो मायाभिः पुरुरूप ईयते । ऋ. सं. ६, ४७, १८) इति । तदपेक्षयेयं वीप्सा । बहु विभज्य वर्तमानं सर्वं तमिन्द्रं “गृणीषणि अहं स्तौमि । गृणातेर्लिङि छान्दसमेतद्रूपम् । यद्वा । कारकमेवैतत् । गृणीषणि स्तवनेच्छायां सत्याम् । “अध अनन्तरं सर्वमिन्र्द्रं मदीयाः स्तुतयः “व्यानशुः व्याप्नुवन्ति । किमर्थम् । “तुर्वणे तूर्णं संभजनाय “यज्ञाय यागार्थम् । यद्वा । ‘ क्रियाग्रहणं कर्तव्यम्' इति कर्मणः संप्रदानत्वाच्चतुर्थी। यज्ञं यष्टव्यं तुर्वणे शत्रूणां हिंसितारं तूर्णसंभजनं वा ।।
य॒ज्ञेभि॑र्य॒ज्ञवा॑हसं॒ सोमे॑भिः सोम॒पात॑मम् ।
होत्रा॑भि॒रिन्द्रं॑ वावृधु॒र्व्या॑नशुः ॥२०
य॒ज्ञेभिः॑ । य॒ज्ञऽवा॑हसम् । सोमे॑भिः । सो॒म॒ऽपात॑मम् ।
होत्रा॑भिः । इन्द्र॑म् । व॒वृ॒धुः॒ । वि । आ॒न॒शुः॒ ॥२०
यज्ञेभिः । यज्ञऽवाहसम् । सोमेभिः । सोमऽपातमम् ।
होत्राभिः । इन्द्रम् । ववृधुः । वि । आनशुः ॥२०
“यज्ञेभिः यज्ञैर्यजनसाधनैर्हविर्भिः “यज्ञवाहसं यज्ञे वोढव्यं प्रापणीयं यज्ञैर्यागैर्यज्ञानां यजमानानां फलस्थ प्रापयितारं वा । अथवा यज्ञवाहसं यज्ञेन प्राप्यम् । न केवलमेकेन यज्ञेन अपि तु सर्वैरित्याह यज्ञेभिरिति । एवं “सोमेभिः सोमपातमं सर्वेषां सोमानां पातृतमम् “इन्द्रं “होत्राभिः स्तुतिभिः “वावृधुः स्तोतारो वर्धयन्ति । ताश्च क्रियमाणाः स्तुतयः “व्यानशुः तमिन्द्रं व्याप्नुवन्ति च । अश्नोतेर्व्यत्ययेन परस्मैपदम् । । ४ ।।
म॒हीर॑स्य॒ प्रणी॑तयः पू॒र्वीरु॒त प्रश॑स्तयः ।
विश्वा॒ वसू॑नि दा॒शुषे॒ व्या॑नशुः ॥२१
म॒हीः । अ॒स्य॒ । प्रऽनी॑तयः । पू॒र्वीः । उ॒त । प्रऽश॑स्तयः ।
विश्वा॑ । वसू॑नि । दा॒शुषे॑ । वि । आ॒न॒शुः॒ ॥२१
महीः । अस्य । प्रऽनीतयः । पूर्वीः । उत । प्रऽशस्तयः ।
विश्वा । वसूनि । दाशुषे । वि । आनशुः ॥२१
“अस्य इन्द्रस्य “प्रणीतयः प्रणयनानि धनानां प्रकृष्टप्रापणानि “महीः महत्यो महान्ति भवन्ति । “उत अपि च अस्य “प्रशस्तयः प्रशंसनीयाः कीर्तयः “पूर्वीः बह्व्यः विस्तृततमा भवन्ति । ता उभयविधाः “दाशुषे चरुपुरोडाशादीनि दत्तवते यजमानाय दातुं “विश्वा विश्वानि सर्वाणि “वसूनि धनानि “व्यानशुः व्याप्नुवन्ति ।।
इन्द्रं॑ वृ॒त्राय॒ हन्त॑वे दे॒वासो॑ दधिरे पु॒रः ।
इन्द्रं॒ वाणी॑रनूषता॒ समोज॑से ॥२२
इन्द्र॑म् । वृ॒त्राय॑ । हन्त॑वे । दे॒वासः॑ । द॒धि॒रे॒ । पु॒रः ।
इन्द्र॑म् । वाणीः॑ । अ॒नू॒ष॒त॒ । सम् । ओज॑से ॥२२
इन्द्रम् । वृत्राय । हन्तवे । देवासः । दधिरे । पुरः ।
इन्द्रम् । वाणीः । अनूषत । सम् । ओजसे ॥२२
“देवासः देवाः “वृत्राय “हन्तवे वृत्रमावरकमसुरं हन्तुम् । हन्तेस्तुमर्थे तवेन्प्रत्ययः । इमम् “इन्द्रं “पुरः “दधिरे पुरस्तात् स्वामित्वेनाधारयन् । “वाणीः वाण्यः स्तुतिरूपा वाचश्चेममेव “इन्द्रम् "अनूषत स्तुवन्ति । किमर्थम् । “सं समीचीनाय “ओजसे बलार्थम् । यथा वृत्रवधानुगुणमुत्कृष्टं बलमस्य जायते तथा स्तुवन्तीत्यर्थः ।।
म॒हान्तं॑ महि॒ना व॒यं स्तोमे॑भिर्हवन॒श्रुत॑म् ।
अ॒र्कैर॒भि प्र णो॑नुम॒ः समोज॑से ॥२३
म॒हान्त॑म् । म॒हि॒ना । व॒यम् । स्तोमे॑भिः । ह॒व॒न॒ऽश्रुत॑म् ।
अ॒र्कैः । अ॒भि । प्र । नो॒नु॒मः॒ । सम् । ओज॑से ॥२३
महान्तम् । महिना । वयम् । स्तोमेभिः । हवनऽश्रुतम् ।
अर्कैः । अभि । प्र । नोनुमः । सम् । ओजसे ॥२३
"महिना महिम्ना “महान्तं सर्वेभ्योऽधिकं “हवनश्रुतं हवनस्याह्वानस्य श्रोतारमिन्द्रं “वयं “स्तोमेभिः स्तोमैस्त्रिवृत्पञ्चदशादिभिः “अर्कैः अर्चनसाधनैः शस्त्रैश्च “अभि “प्र “णोनुमः आभिमुख्येन प्रकर्षेण पुनःपुनः स्तुमः ॥
न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण॑म् ।
अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ॥२४
न । यम् । वि॒वि॒क्तः । रोद॑सी॒ इति॑ । न । अ॒न्तरि॑क्षाणि । व॒ज्रिण॑म् ।
अमा॑त् । इत् । अ॒स्य॒ । ति॒त्वि॒षे॒ । सम् । ओज॑सः ॥२४
न । यम् । विविक्तः । रोदसी इति । न । अन्तरिक्षाणि । वज्रिणम् ।
अमात् । इत् । अस्य । तित्विषे । सम् । ओजसः ॥२४
“यं “वज्रिणं वज्रवन्तमिन्द्रं “रोदसी द्यावापृथिव्यौ “न “विविक्तः न पृथक्कुरुतः स्वसमीपात् पृथक्कर्तुं न शक्नुतः । द्यावापृथिव्यौ व्याप्य य इन्द्रो वर्तत इत्यर्थः । ‘ विचिर् पृथग्भावे ' । अन्तरिक्षणि अन्तरा क्षान्तानि द्यावापृथिव्योर्वर्तमानानि गन्धर्वादीनां स्थानानि च यं “न पृथक्कुर्वन्ति । “अस्य इन्द्रस्य “अमादित् । अमति रुजति शत्रूननेनेत्यमो बलम् । बलादेव “तित्विषे सर्वं जगद्दीप्यते । किमर्थम् । “ओजसः बलस्य संगमाय । यद्वा। ओजःशब्दाद्विहितस्य विनो ‘ बहुलं छन्दसि' इति लुक् । ओजस्विनो बलवतोऽस्येन्द्रस्येति योज्यम् । समित्युपसर्गः तित्विष इत्यनेन संबध्यते ॥
षोडशिशस्त्रे ‘यदिन्द्र पृतनाज्ये ' इति तृचः । सूत्र्यते हि - यदिन्द्र पृतनाज्येऽयं ते अस्तु हर्यत इत्यौष्णिहबार्हतौ तृचौ ' (आश्व. श्रौ. ६. २ ) इति ।।
यदि॑न्द्र पृत॒नाज्ये॑ दे॒वास्त्वा॑ दधि॒रे पु॒रः ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥२५
यत् । इ॒न्द्र॒ । पृ॒त॒नाज्ये॑ । दे॒वाः । त्वा॒ । द॒धि॒रे । पु॒रः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥२५
यत् । इन्द्र । पृतनाज्ये । देवाः । त्वा । दधिरे । पुरः ।
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२५
हे “इन्द्र “पृतनाज्ये । संग्रामनामैतत् । पृतनाः सेना अजन्ति गच्छन्त्यस्मिन्निति वा पृतना जीयतेऽत्रेति वा पृतनाज्यं संग्रामः । तत्र “त्वा त्वां “यत् यदा “देवाः “पुरः “दधिरे वृत्रहननाय पुरतोऽधारयन् “आदित् अनन्तरमेव “हर्यता हर्यतौ कान्तौ । “हर्य गतिकान्त्योः ' । 'भृमृदृशि' इत्यादिनौणादिकोऽतच्प्रत्ययः । ईदृशौ “हरी अश्वौ “ते त्वां “ववक्षतुः अवहताम् ॥ ॥ ५ ॥
य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥२६
य॒दा । वृ॒त्रम् । न॒दी॒ऽवृत॑म् । शव॑सा । व॒ज्रि॒न् । अव॑धीः ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥२६
यदा । वृत्रम् । नदीऽवृतम् । शवसा । वज्रिन् । अवधीः ।
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२६
हे “वज्रिन् वज्रवन्निन्द्र “नदीवृतम् । नदनान्नद्य आपः । श्रूयते हि- अहावनदता हते तस्मादा नद्यो नाम स्थ ' (तै. सं. ५. ६. १. २) इति । ता आवृण्वन्तं “वृत्रम् अवर्षणशीलं मेघमसुरं वा “यदा यस्मिन् काले "शवसा बलेन “अवधीः अहिंसीः । शिष्टं समानम् ॥
य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे ।
आदित्ते॑ हर्य॒ता हरी॑ ववक्षतुः ॥२७
य॒दा । ते॒ । विष्णुः॑ । ओज॑सा । त्रीणि॑ । प॒दा । वि॒ऽच॒क्र॒मे ।
आत् । इत् । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒व॒क्ष॒तुः॒ ॥२७
यदा । ते । विष्णुः । ओजसा । त्रीणि । पदा । विऽचक्रमे ।
आत् । इत् । ते । हर्यता । हरी इति । ववक्षतुः ॥२७
हे इन्द्र “ते तवानुजः “विष्णुः व्यापनशीलो देवः “ओजसा बलेन “यदा यस्मिन् काले “त्रीणि पदानि पदत्रयरूपेण त्रीँल्लोकान् “विचक्रमे विक्रान्तवान् परिच्छिन्नवान् । गतमन्यत् ॥
य॒दा ते॑ हर्य॒ता हरी॑ वावृ॒धाते॑ दि॒वेदि॑वे ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥२८
य॒दा । ते॒ । ह॒र्य॒ता । हरी॒ इति॑ । व॒वृ॒धाते॒ इति॑ । दि॒वेऽदि॑वे ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥२८
यदा । ते । हर्यता । हरी इति । ववृधाते इति । दिवेऽदिवे ।
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥२८
हे इन्द्र त्वदीयौ “हर्यता हर्यतौ कान्तौ “हरी हरणशीलावश्वौ “दिवेदिवे प्रतिदिवसं “यदा यस्मिन् काले “वावृधाते प्रवृद्धौ बभूवतुः “आदित् अनन्तरमेव त्वया “विश्वा विश्वानि सर्वाणि “भुवनानि भूतजातानि “येमिरे नियम्यन्ते स्म ।
य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥२९
य॒दा । ते॒ । मारु॑तीः । विशः॑ । तुभ्य॑म् । इ॒न्द्र॒ । नि॒ऽये॒मि॒रे ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥२९
यदा । ते । मारुतीः । विशः । तुभ्यम् । इन्द्र । निऽयेमिरे ।
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥२९
हे “इन्द्र “तुभ्यं त्वदर्थं 'मारुतीः मारुत्यो मरुद्रूपाः “ते त्वदीयाः “विशः प्रजाः “यदा यस्मिन् काले “नियेमिरे नियच्छन्ति भूतजातानि । अन्यद्गतम् ॥
य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा॑रयः ।
आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ॥३०
य॒दा । सूर्य॑म् । अ॒मुम् । दि॒वि । शु॒क्रम् । ज्योतिः॑ । अधा॑रयः ।
आत् । इत् । ते॒ । विश्वा॑ । भुव॑नानि । ये॒मि॒रे॒ ॥३०
यदा । सूर्यम् । अमुम् । दिवि । शुक्रम् । ज्योतिः । अधारयः ।
आत् । इत् । ते । विश्वा । भुवनानि । येमिरे ॥३०
हे इन्द्र “अमुं विप्रकृष्टं “शुक्रं निर्मलं "ज्योतिः द्योतमानं “सूर्यं सर्वस्य प्रेरकं शोभनवीर्यं वादित्यं “दिवि द्युलोके जगतः प्रकाशनाय “यदा यस्मिन् काले “अधारयः धारितवानसि । समानमन्यत् ॥
इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभि॑ः ।
जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ॥३१
इ॒माम् । ते॒ । इ॒न्द्र॒ । सु॒ऽस्तु॒तिम् । विप्रः॑ । इ॒य॒र्ति॒ । धी॒तिऽभिः॑ ।
जा॒मिम् । प॒दाऽइ॑व । पिप्र॑तीम् । प्र । अ॒ध्व॒रे ॥३१
इमाम् । ते । इन्द्र । सुऽस्तुतिम् । विप्रः । इयर्ति । धीतिऽभिः ।
जामिम् । पदाऽइव । पिप्रतीम् । प्र । अध्वरे ॥३१
हे “इन्द्र “विप्रः मेधावी स्तोता “अध्वरे यज्ञे “इमां पुरोवर्तिनीं “पिप्रतीं पूजयन्तीं प्रीणयन्ती वा सुष्टुतिं शोभनां स्तुतिं “धीतिभिः कर्मभिः परिचरणैः सार्धं “ते त्वां “प्र “इयर्ति प्रेरयति प्रगमयति । “जामिं "पदेव यथा बन्धुभूतं पुरुषमुत्कृष्टानि पदानि स्थानानि प्रापयति तद्वत् ॥
यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् ।
नाभा॑ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ॥३२
यत् । अ॒स्य॒ । धाम॑नि । प्रि॒ये । स॒म्ऽई॒ची॒नासः॑ । अस्व॑रन् ।
नाभा॑ । य॒ज्ञस्य॑ । दो॒हना॑ । प्र । अ॒ध्व॒रे ॥३२
यत् । अस्य । धामनि । प्रिये । सम्ऽईचीनासः । अस्वरन् ।
नाभा । यज्ञस्य । दोहना । प्र । अध्वरे ॥३२
“अध्वरे यज्ञे “अस्य इन्द्रस्य “धामनि स्थाने तेजसि वा “प्रिये प्रीणयितव्ये सति “समीचीनासः संगताः स्तोतारः “यत् यदा “प्र “अस्वरन् प्रकर्षेणास्तुवन् । ‘ स्वृ शब्दोपतापयोः'। अयाळिन्द्रस्य प्रिया धामानि ' (तै. ब्रा. ३. ५. ७. ६) इति हि निगमः । कस्मिन् देशे । “नाभा नाभौ पृथिव्या नाभिस्थानीये मध्ये “यज्ञस्य यजनसाधनस्य सोमस्य “दोहना दोहने दोहनाधिकरणेऽभिषवस्थाने । वेद्यामित्यर्थः । तदानीं धनं प्रदेहीत्युत्तरत्र संबन्धः ॥
सु॒वीर्यं॒ स्वश्व्यं॑ सु॒गव्य॑मिन्द्र दद्धि नः ।
होते॑व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ॥३३
सु॒ऽवीर्य॑म् । सु॒ऽअश्व्य॑म् । सु॒ऽगव्य॑म् । इ॒न्द्र॒ । द॒द्धि॒ । नः॒ ।
होता॑ऽइव । पू॒र्वऽचि॑त्तये । प्र । अ॒ध्व॒रे ॥३३
सुऽवीर्यम् । सुऽअश्व्यम् । सुऽगव्यम् । इन्द्र । दद्धि । नः ।
होताऽइव । पूर्वऽचित्तये । प्र । अध्वरे ॥३३
“सुवीर्यं शोभनवीर्योपेतं “स्वश्व्यं शोभनेनाश्वसंघेन च युक्तं “सुगव्यं शोभनगोसंघयुक्तं च धनं हे “इन्द्र “नः अस्मभ्यं दद्धि ददस्व । ‘दद दाने'। अनुदात्तेत् । व्यत्ययेन परस्मैपदम् । छान्दसः शपो लुक्। अहं च “अध्वरे यागे “होतेव यथा मानुषो होतर्त्विक् स्तौति एवमेव "पूर्वचित्तये पूर्वप्रज्ञानायान्येभ्यः स्तोतृभ्यः पूर्वमेवास्मत्स्तोत्रपरिज्ञानाय प्राशंसिषमिति शेषः ॥ ॥ ६ ॥ ॥ २ ॥
मण्डल ८ | ||||||
---|---|---|---|---|---|---|