ब्रह्मपुराणम्/अध्यायः १४०
← अध्यायः १३९ | ब्रह्मपुराणम् अध्यायः १४० वेदव्यासः |
अध्यायः १४१ → |
अन्विन्द्रात्रेयादितीर्थवर्णनम्
ब्रह्मोवाच
आत्रेयमिति विख्यातमन्विन्द्रं तीर्थमुत्तमम्।
तस्य प्रभावं वक्ष्यामि भ्रष्टराज्यप्रदायकम्।। १४०.१ ।।
गौतम्या उत्तरे तीर आत्रेयो भगवानृषिः।
अन्वारेभेऽथ सत्राणि ऋत्विग्भिर्मुनिभिर्वृतः।। १४०.२ ।।
तस्य होताऽभवत्त्वग्निर्हव्यवाहन एव च।
एवं सत्रे तु संपूर्ण इष्टिं माहेश्वरीं पुनः।। १४०.३ ।।
कृत्वैश्वर्यमगाद्विप्रः सर्वत्र गतिमेव च।
इन्द्रस्य भवनं रम्यं स्वर्गलोकं रसातलम्।। १४०.४ ।।
स्वेच्छया याति विप्रेन्द्रः प्रभावात्तपसः शुभात्।
स कदाचिद्दिवं गत्वा इन्द्रलोकमगात्पुनः।। १४०.५ ।।
तत्रापश्यत्सहस्राक्षं सुरैः परिवृतं शुभैः।
स्तूयमानं सिद्धसाध्यैः प्रेक्षन्तं नृत्यमुत्तमम्।।
श्रृण्वानं मधुरं गीतमप्सरोभिश्च वीजितम्।। १४०.६ ।।
उपोपविष्टैः सुरनायकैस्तैः, संपूज्यमानं महदासनस्थम्।
जयन्तमङ्के विनिधाय सूनुं, शच्या युतं प्राप्तरतिं महिष्ठम्।। १४०.७ ।।
सतां शरण्यं वरदं महेन्द्रं, समीक्ष्य विप्राधिपतिर्महात्मा।
विमोहितोऽसौ मुनिरिन्द्रलक्ष्म्या, समीहयामास तदिन्द्रराज्यम्।। १४०.८ ।।
संपूजितो देवगणैर्यथावत्स्वमाश्रमं वै पुनराजगाम।
समीक्ष्य तां शक्रपुरीं सुरम्यां, रत्नेर्युतां पुण्यगुणैः सुपूर्णाम्।। १४०.९ ।।
स्वमाश्रमं निष्प्रभहेमवर्ज्यं समीक्ष्य विप्रो विरमं जगाम।
समीहमानः सुरराज्यमाशु, प्रियां तदोवाच महात्रिपुत्रः।। १४०.१० ।।
आत्रेय उवाच
भोक्तुं न शक्तोऽस्मि फलानि मूलान्यनुत्तमान्यप्यतिसंस्कृतानि।
स्मृत्वाऽमृतं पुण्यतमं च तत्र, भक्ष्यं च भोज्यं च वरासनानि।।
स्तुतिं च दानं च सभां शुभां च, अस्त्रं च वासांसि पुरीं वनानि।। १४०.११ ।।
ब्रह्मोवाच
ततो महात्मा तपसः प्रभावात्तवष्टारमाहूय वचो बभाषे।। १४०.१२ ।।
आत्रेय उवाच
इच्छेयमिन्द्रत्वमहं महात्मन्कुरुष्व शीघ्रं पदमैन्द्रमत्र।
ब्रुषेऽन्यथा चेन्मदुदीरितं त्वं, भस्मी करोम्येव न संशयोऽत्र।। १४०.१३ ।।
ब्रह्मोवाच
तदत्रिवाक्यत्त्वरितः प्रजानां, स्रष्टा विभुर्विश्वकर्मा तदैव।
चकार मेरुं च पूरीं सुराणां, कल्पद्रुमान्कल्पलतां च धेनुम्।। १४०.१४ ।।
चकार वज्रादिविभूषितानि, गृहाणि शुभ्राण्यतिचित्रितानि।
चकार सर्वावयवानवद्यं, शचीं स्मरस्येव विहारशालाम्।। १४०.१५ ।।
सभां सुधर्माणमहो क्षणेन, तथा चकाराप्सरसो मनोज्ञाः।
चकार चोच्चैःश्रवसं गजं च, वज्रादि चास्त्राणि सुरानशेषान्।। १४०.१६ ।।
निवार्यमाणः प्रिययाऽत्रिपुत्रः, शचीसमामात्मवधूं चकार।
तदाऽत्रिपुत्रोऽत्रिमुखैः समेतो, वज्रादिरूपं च चकार चास्त्रम्।। १४०.१७ ।।
नृत्यादि गीतादि च सर्वमेव, चकार शक्रस्य पुरे च दृष्टम्।
तत्सर्वमासाद्य तदा मुनीन्द्रः, प्रहृष्टचेताः सुतरां बभूव।। १४०.१८ ।।
आपातरम्येष्वपि कस्य नाम, भवत्यपेक्षा न हि गोचरेषु।
श्रुत्वा च दैत्या दनुजाः समेता, रक्षांसि कोपेन युतानि सद्यः।। १४०.१९ ।।
स्वर्गं परित्यज्य कुतो हरिर्भुवं, समागतो न्वेष मिथः सुखाय।
तस्माद्वयं याम इतो नु योद्धुं, वृत्रस्य हन्तारमदीर्घसत्रम्।। १४०.२० ।।
ततः समागत्य तदाऽत्रिपुत्रं, संवेष्टयामासुरथासुरास्ते। ।।
संवेष्टयित्वा पुरामत्रिपुत्रकृतं तथा चेन्द्रपुराभिधानम्।
तैर्वघ्यमानः शस्त्रपातैर्महद्भिस्ततो भीतो वाक्यमिदं जगाद।। १४०.२१ ।।
आत्रेय उवाच
यो जात एवं प्रथमो मनस्वान्देवो देवान्क्रतुना पर्यभूषत्।
यस्य शुष्माद्रोदसी अभ्यसेतां, नृम्णस्य मह्ना सजना स इन्द्रः।। १४०.२२ ।। तु. ऋग्वेदः २.१२.१
ब्रह्मोवाच
इत्यादिसूक्तेन रिपूनुवाच, हरिं च तुष्टाव तदाऽत्रिपुत्रः।। १४०.२३ ।।
आत्रेय उवाच
नाहं हरिर्नैव शची मदीया, नेयं पुरी नैव वनं तदैन्द्रम्।
स एव चेन्द्रो वृत्रहन्ता स वज्री, सहस्राक्षो गोत्रभिद्धज्रबाहुः।। १४०.२४ ।।
अहं तु विप्रो वेदविद्ब्रह्मवृन्दैः, समाविष्टो गौतमीतीरसंस्थः।
यत्राऽऽयत्यां नाद्य वा सौख्यहेतुस्तच्चाकार्ष कर्म दुर्दैवयोगात्।। १४०.२५ ।।
असुरा ऊचुः
संहरस्वेदमात्रेय यदिन्द्रस्य विडम्बनम्।
क्षेमस्ते भविता सत्यं नान्यथा मुनिसत्तम।। १४०.२६ ।।
ब्रह्मोवाच
तदाऽऽत्रेयोऽब्रवीद्वाक्यं यथा वक्ष्यन्ति मामिह।
करोम्येव महाभागाः सत्येनाग्निं समालभे।। १४०.२७ ।।
एमुक्त्वा स दैतेयांस्त्वष्टारं पुनरब्रवीत्।। १४०.२८ ।।
आत्रेय उवाच
यत्कृतं त्वत्र मत्प्रीत्या ऐन्द्रं त्वष्टः पदं त्वया।
संहरस्व पुनः शीघ्रं रक्ष मां ब्राह्मणं मुनिम्।। १४०.२९ ।।
पुनर्देहि पदं मह्यमाश्रमं मृगपक्षिणः।
वृक्षाश्च वारि यत्राऽऽसीन्न मे दिव्यैः प्रजनम्।।
सर्वमक्रममायातं न सुखाय मनीषिणाम्।। १४०.३० ।।
ब्रह्मोवाच
तथेत्युक्त्वा प्रजानाथस्त्वष्टा संहृतवांस्तदा।
दैत्याश्च जग्मुः स्वस्थानं कृत्वा देशमकण्टकम्।। १४०.३१ ।।
त्वष्टा चापि ययौ स्थानं स्वकं संप्रहसन्निव।
आत्रेयोऽपि तदा शिष्यैः संवृतः सह भार्यया।। १४०.३२ ।।
गौतमीतीरमाश्रित्य तपोनष्ठोऽखिलैर्वृतः।
वर्तमाने महायज्ञे लज्जितो वाक्यमब्रवीत्।। १४०.३३ ।।
आत्रेय उवाच
अहो मोहस्य महिमा ममापि भ्रान्तचित्तता।
किं महेन्द्रपदं लब्धं किं मयाऽत्र पुरा कृतम्।। १४०.३४ ।।
ब्रह्मोवाच
एवं वदन्तमात्रेयं लज्जिसं प्राब्रुवन्सुराः।। १४०.३५ ।।
सुरा ऊचुः
लज्जां जहि महाबाहो भविता ख्यातिरुत्तमा।
आत्रेयतीर्थे ये स्नानं प्राणिनः कुर्युरञ्जसा।। १४०.३६ ।।
इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः।
तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः।। १४०.३७ ।।
इन्द्रास्ते भवितारो वै स्मरणात्सुखभागिनः।
तत्र पञ्च सहस्राणि तीर्थान्याहुर्मनीषिणः।। १४०.३८ ।।
अन्विन्द्रात्रेयदैतेयनामभिः कीर्तितानि च।
तेषु स्नानं च दानं च सर्वमक्षयपुण्यदम्।। १४०.३९ ।।
ब्रह्मोवाच
इत्युक्त्वा विबुधा याताः संतुष्टश्चाभवन्मुनिः।। १४०.४० ।।
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽन्विन्द्रात्रेयादिपञ्चसहस्रतीर्थवर्णनं नाम चत्वारिंशदधिकशततमोऽध्यायः।। १४० ।।
गौतमीमाहात्म्ये एकसप्ततितमोऽध्यायः।। ७१ ।।